Templesinindiainfo

Best Spiritual Website

1000 Names of Medha Dakshinamurti | Sahasranama Stotram 1 Lyrics in Hindi

Medhadakshinamurthy Sahasranamastotram 1 Lyrics in Hindi:

॥ श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं १ ॥
॥ श्री गुरुभ्यो नमः ॥

श्रीः
अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य
ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता ।
ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् ।
मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ह्राम् इत्यादिना अङ्ग न्यासः ।
ध्यानम् ।
सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे ।
कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १ ॥

आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २ ॥

दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३ ॥

नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४ ॥

चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।
चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५ ॥

रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६ ॥

वीरासने समासीनं लम्बदक्षपदांबुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७ ॥

पादमूलसमाक्रान्तमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८ ॥

गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।
सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ ९ ॥

आराध्यमानवृषभं अग्नीन्दुरविलोचनम् ।
पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १० ॥

एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११ ॥

लं इत्यादिना पञ्चोपचाराः ॥

देवदेवो महादेवो देवानामपि देशिकः ।
दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ १ ॥

कैलासशिखरोत्तुङ्ग-कमनीयनिजाकृतिः ।
वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ २ ॥

कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।
पाटीरापाण्डुराकारपरिपूर्णसुधाधिपः ।३ ॥

जपाकोटीरघटितसुधाकरसुधाप्लुतः ।
पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ ४ ॥

कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।
कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ ५ ॥

तिलप्रसूनसंकाशनासिकापुटभासुरः ।
मन्दस्मितस्पुरन्मुग्धमहनीयमुखाम्बुजः ॥ ६ ॥

कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः ।
सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ ७ ॥

शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलः ।
करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ ८ ॥

अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।
विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ ९ ॥

बॄहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः ।
जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ १० ॥

मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः ।
अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ ११ ॥

घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः ।
सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ १२ ॥

दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः ।
कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ १३ ॥

कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।
कामितार्थप्रदःश्रीमत्कमलावल्लभप्रियः ॥ १४ ॥

कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः ।
मन्दहाससमानेन्दुः छिन्नाज्ञानतमस्ततिः ॥ १५ ॥

संसारानलसंतप्तजनतामृतसागरः ।
गंभीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ १६ ॥

निशाकरकराकारवशीकृतजगत्त्रयः ।
तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ १७ ॥

भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः ।
वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ १८ ॥

तापत्रयतमोभानुः पापारण्यदवानलः ।
संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ १९ ॥

ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।
तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ २० ॥

अस्तंगतसमस्तेच्छो निस्तुलानन्दमन्थरः ।
धीरोदात्तगुणाधार उदारवरवैभवः ॥ २१ ॥

अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः ।
भक्तमानसहंसाग्र्यभवामयभिषक्तमः ॥ २२ ॥

योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।
शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ २३ ॥

नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।
वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ २४ ॥

धराधरेन्दुरानन्दसन्दोहरससागरः ।
द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ २५ ॥

प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः ।
प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ २६ ॥

सर्वाधिष्ठानसन्मात्रस्स्वात्मबन्धहरो हरः ।
सर्वप्रेमनिजाहासः सर्वानुग्रहकृत् शिवः ॥ २७ ॥

सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः ।
सच्चिदानन्दपूर्णात्मा स्वे महिम्नि प्रतिष्ठितः ॥ २८ ॥

सर्वभूतान्तरस्साक्षी सर्वज्ञस्सर्वकामदः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ २९ ॥

आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः ।
यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ ३० ॥

ब्रह्मादिदेवविनुतो योगमायानियोजकः ।
शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ ३१ ॥

वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः ।
वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ ३२ ॥

सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥

नृत्तगीतकलाभिज्ञः कर्मवित् कर्ममोचकः ॥ ३३ ॥

कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।
ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ ३४ ॥

अनाथनाथो भगवानाश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ ३५ ॥

व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ ३६ ॥

चिन्ताशोकप्रशमनो जगदानन्दकारकः ।
रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ ३७ ॥

मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः ।
अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ ३८ ॥

समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ ३९ ॥

विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिः नामोच्चारणमुक्तिदः ॥ ४० ॥

सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ ४१ ॥

अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारो जितदावानलाकृतिः ॥ ४२ ॥

निरञ्जनो निर्विकारो निजावासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ ४३ ॥

कामहन्ता काममूर्तिः कल्याणवृषवाहनः ।
गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ ४४ ॥

धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ ४५ ॥

उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।
नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ ४६ ॥

प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।
आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ ४७ ॥

यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।
अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ ४८ ॥

विश्वरूपो विरूपाक्षः प्रभुः परिबृडो दृढः ।
भव्यो जितारिषद्वर्गो महोदारो विषाशनः ॥ ४९ ॥

सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ५० ॥

गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।
सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ५१ ॥

अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ५२ ॥

चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोऽपहृत् ।
भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ५३ ॥

अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ५४ ॥

गुरुरूपधरः श्रीमत्परमानन्दसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ५५ ॥

सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ ५६ ॥

सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः ।
निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ ५७ ॥

ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः ।
शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ५८ ॥

सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ ५९ ॥

विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ६० ॥

निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ६१ ॥

अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ ६२ ॥

अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः ।
अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ६३ ॥

ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ६४ ॥

कल्याणाचलकोदण्डः कमलापतिसायकः ।
वारांशेवधितूणीरःसरोजासनसारथिः ॥ ६५ ॥

त्रयीतुरङ्गसंक्रान्तो वासुकिज्याविराजितः ।
रवीन्दुचरणाचारिधरारथविराजितः ॥ ६६ ॥

त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः ।
उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ ६७ ॥

जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।
संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ ६८ ॥

मदद्विरदधिक्कारिगतिमञ्जुलवैभवः ।
मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ ६९ ॥

कैवल्योदधिकल्लोललीलाताण्डवपण्डितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ७० ॥

वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ७१ ॥

सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ ७२ ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ ७३ ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसंभवः ॥ ७४ ॥

निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः ।
एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ ७५ ॥

निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।
नित्यानन्दः सुराध्यक्षो निःसंकल्पो निरञ्जनः ॥ ७६ ॥

निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः ।
विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ ७७ ॥

भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ७८ ॥

चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ७९ ॥

धर्मदक्षो महाराजःकिरीटी वन्दितो गुहः ।
माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ ८० ॥

सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसंभवः ।
ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ ८१ ॥

मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः ।
मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ ८२ ॥

भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ८३ ॥

विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ८४ ॥

ओषधीशो वामदेवो गोविन्दो नीललोहितः ।
षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ ८५ ॥

कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।
अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ ८६ ॥

आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ८७ ॥

निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ८८ ॥

भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।
दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ ८९ ॥

मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयस्चन्द्रमौलिः कलाधरः ॥ ९० ॥

महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।
सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ ९१ ॥

सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवस्सुमङ्गलः ॥ ९२ ॥

हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ ९३ ॥

अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ ९४ ॥

गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः ।
श्रीधरस्सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ९५ ॥

अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।
कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ९६ ॥

महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ९७ ॥

छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।
सार्वभौमस्सदानन्दः करुणामृतवारिधिः ॥ ९८ ॥

कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ९९ ॥

चण्डीईशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ १०० ॥

रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ १०१।
विश्वंभरो विचित्राङ्गो विधाता पुरशासनः ।
सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ १०२ ॥

नक्षत्रमालाभरणो मघवान् अघनासनः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ १०३ ॥

चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ १०४ ॥।

सर्वानन्दो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ १०५ ॥

वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः ।
मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ १०६ ॥

यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् ।
परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ १०७ ॥

मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ १०८ ॥

मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः ।
दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ १०९ ॥

अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ ११० ॥

यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।
विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ १११ ॥

पावनान्तेवसद्योगिजनसार्थसुधाकरः ।
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ११२ ॥

चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ।
भक्तविज्ञाप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ ११३ ॥

ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।
सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ ११४ ॥

सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।
आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ ११५ ॥

अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः ।
विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ ११६ ॥

विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।
योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ ११७ ॥

ओंकाररूपो भगवान् बिन्दुनादमयः शिवः ।
चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ ११८ ॥

सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।
दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ ११९ ॥

ओंकारवाचकः शंभुः शंकरः शशिशीतलः ।
पङ्कजासनसंसेव्यः किंकरामरवत्सलः ॥ १२० ॥

नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः ।
त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ १२१ ॥

क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः ।
अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ १२२ ॥

इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।
ऊहापोहविनिर्मुक्त ओंकारेश्वरपूजितः ॥ १२३ ॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ १२४ ॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ १२५ ॥

विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ १२६ ॥

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागहा रागशमनो रागदो रागिरागवित् ॥ १२७ ॥

मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ १२८ ॥

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ १२९ ॥

शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।
कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १३० ॥

दिव्यदेहप्रभाकूटसंदीपितदिगन्तरः ।
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ १३१ ॥

वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १३२ ॥

शरणागतदीनार्तपरित्राणपरायणः ।
महाप्रेतासनासीनो जितसर्वपितामहः ॥ १३३ ॥

मुक्तादामपरीताङ्गो नानागानविशारदः ।
विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ १३४ ॥

धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ १३५ ॥

भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।
गौरीविलाससदनः पिशचानुचरावृतः ॥ १३६ ॥

दक्षिणाप्रेमसंतुष्टो दारिद्र्यवडवानलः ।
अद्भुतानन्तसंग्रामो डक्कावादनतत्परः ॥ १३७ ॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ १३८ ॥

युगावहो युगाधीशो युगात्मा युगनायकः ।
जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ १३९ ॥

हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ।
लीलाविडंबितवपुर्भक्तमानसमण्डितः ॥ १४० ॥

बृन्दारकप्रियतमो बृन्दारकवरार्चितः ।
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ १४१ ॥

निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।
चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ १४२ ॥

समस्तभक्तसुखदः परमाणुर्महाह्रदः ।
अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ १४३ ॥

कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः ।
शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ १४४ ॥

महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।
भूतिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ १४५ ॥

त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ १४६ ॥

पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।
सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ १४७ ॥

सद्भक्तध्याननिगलः शरणागतपालकः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ १४८ ॥

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ १४९ ॥

अमोदो मोदजनकः सर्पराजोत्तरीयकः ।
कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ १५० ॥

सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ।
विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ १५१ ॥

अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः ।
अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ १५२ ॥

अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः ।
तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ १५३ ॥

अमोघबुद्धिराधार आधाराधेयवर्जितः ।
ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ १५४ ॥

ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।
औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ १५५ ॥

शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहः ।
दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ १५६ ॥

अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ।
विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ १५७ ॥

नित्यशुद्धो नित्यबुद्धः नित्यमुक्तोऽपराकृतः ।
मैत्र्यादिवासनालभ्यो महाप्रलयस<ंस्थितः ॥ १५८ ॥

महाकैलासनिलयः प्रज्ञानघनविग्रहः ।
श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ १५९ ॥

जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ १६० ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ १६१ ॥

प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।
निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ १६२ ॥

तारकानां हृदन्तस्थस्तारकस्तारकान्तकः ।
ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ १६३ ॥

परं व्योम परं धाम परमात्मा परं पदम् ।
पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ १६४ ॥

प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।
बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ १६५ ॥

ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद् ब्राह्मणप्रियः ।
भूक्षेपदत्तलक्ष्मीको भूमध्यध्यानलक्षितः ॥ १६६ ॥

यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।
शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ १६७ ॥

शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।
संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ १६८ ॥

मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः ।
अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ १६९ ॥

पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।
षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ १७० ॥

विज्ञानघनसम्पूर्णो वीणावादनतत्परः ।
नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ १७१ ॥

पराभिचारशमनः षडध्वोपरिसंस्थितः ।
सुषुम्नामार्गसंचारी बिसतन्तुनिभाकृतिः ॥ १७२ ॥

पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः ।
क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ १७३ ॥

सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।
तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ १७४ ॥

तैलाभिषेकसंतुष्टस्तिलभक्षणतत्परः ।
आपादकनिकामुक्ताभूषाशतमनोहरः ॥ १७५ ॥

शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ।
मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ १७६ ॥

अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।
कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ १७७ ॥

करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।
विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ १७८ ॥

आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।
मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ १७९ ॥

वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।
अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ १८० ॥

माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः ।
अनर्घरत्नग्रैवेयविलसत्कंबुकन्धरः ॥ १८१ ॥

अनाकलितसादृश्यचिबुकश्रीविराजितः ।
मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ १८२ ॥

चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ।
वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ १८३ ॥

कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डित्तः ।
करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ १८४ ॥

अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ।
चारुचामीकराकारजटाचर्चितचन्दनः ।
कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ १८५ ॥

इति श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ ॐ तत् सत् ॥

Also Read 1000 Names of Medha Dakshina Murthy 1:

1000 Names of Medha Dakshinamurti | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Medha Dakshinamurti | Sahasranama Stotram 1 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top