Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 Lyrics in Hindi

Shri Batuka Bhairavasahasranamastotram 1 Lyrics in Hindi:

॥ श्रीबटुकभैरवसहस्रनामस्तोत्रम् १ ॥

देव्युवाच –
देवेश भक्तिसुलभ देवनायकवन्दित ।
भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्त्वतः ॥ १ ॥

विनैव न्यासजालेन पूजनेन विना भवेत् ।
विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २ ॥

श्रीमहादेव उवाच –
अस्य श्रीबटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मानन्दभैरवऋषिः
अनुष्टुप्छन्दः बटुकभैरवो देवता ।
वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनियोगः ॥

बटुकः कामदो नाथोऽनाथप्रियः प्रभाकरः ।
भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३ ॥

रुद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः ।
दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४ ॥

देवो दैत्येश्वरो वीरोवीरवन्द्यो दिवाकरः ।
बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५ ॥

महाबलो महातेजा वित्तजित् द्युतिवर्धनः ।
तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६ ॥

कालः कपालकामादिविकारः काममर्दनः ।
कामिकारमणः कामी नायकः कालिकाप्रियः ॥ ७ ॥

कालीशः कामिनीकान्तः कालिकानन्दवर्धनः ।
कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ८ ॥

खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः ।
कुमारः क्रोधनः कालाप्रियः पर्वतरक्षकः ॥ ९ ॥

गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः ।
गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ १० ॥

घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः ।
घोरनाशो घनेशानो धनपतिर्धनात्मकः ॥ ११ ॥

चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः ।
अन्त्योऽचिन्त्यगणो धीमान्सुचित्तस्थश्चितीश्वरः ॥ १२ ॥

छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः ।
छिन्नाभश्छिन्नसन्तापश्छर्दिराच्छर्दनन्दनः ॥ १३ ॥

जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः ।
जनौको जनसन्तोषो जनजाड्य विनाशनः ॥ १४ ॥

जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः ।
जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५ ॥

जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः ।
जयाभूमि र्जयाकारो जयहेतुर्जयेश्वरः ॥ १६ ॥

झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः ।
ज्ञभैश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ॥ १७ ॥

ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः ।
ठकारभूष्ठरन्ध्रेशाष्ठिरीशाष्ठकुरपतिः ॥ १८ ॥

डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः ।
ताम्रस्तमीश्वरस्त्रोता तीर्थजातस्तडित्प्रभुः ॥ १९ ॥

ऋक्षरः ऋक्षकस्तभस्तार्क्ष्यकस्तम्भदेश्वरः ।
स्थलजः स्थावरस्स्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २० ॥

स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः ।
दरो दामोदरो दम्भो दाडिमी कुसुमप्रियः ॥ २१ ॥

दरिद्रहादिमी दिव्यो दिव्यदेहो दिवप्रभः ।
दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२ ॥

दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः ।
दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३ ॥

दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः ।
दीर्घबाहुर्दलश्रेष्ठो दललूध्वदलाकृतिः ॥ २४ ॥

दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः ।
धनेशो धनदो धर्मो धनराजो धनप्रियः ॥ २५ ॥

धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः ।
धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥ २६ ॥

धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः ।
धीरो धीरतरो धेनुर्धीरेशो धरणीप्रभूः ॥ २७ ॥

धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८ ॥

धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।
नारदो नरदो नेता नतिपूज्यो नतिप्रभूः ॥ २९ ॥

नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः ।
पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः ॥ ३० ॥

पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः ।
पृथिवीशः पृथासूनुः पृथिवी भृत्यकेश्वरः ॥ ३१ ॥

पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।
पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२ ॥

पार्वतीरमणः पूतः पवित्रः पापनाशनः ।
पात्रीपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३ ॥

पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।
फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४ ॥

फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः ।
बलभद्रो बली बालो बलधीर्बलवर्धनः ॥ ३५ ॥

बलप्राणो बलाधीशो बलिदान प्रियङ्करः ।
बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः ॥ ३६ ॥

बली बलश्च बालेशो बालकः प्रियदर्शनः ।
भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७ ॥

भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः ।
भूतेशो भूतिदो भर्गो भूतभव्यो भव्रेश्वरः ॥ ३८ ॥

भवानीशो भवेशानो भवानीनायको भवः ।
मकारो माधवो मानी मीनकेतुर्महेश्वरः ॥ ३९ ॥

महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः ।
मरीचिर्मजुलो मोहो मोहहा मोहमर्दनः ॥ ४० ॥

मोहको मोहनो मेधाप्रियो मोहविनाशकः ।
महीपतिर्महेशानो महाराजो महेश्वरः ॥ ४१ ॥

महीश्वरो महीपालो महीनाथो महीप्रियः ।
महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२ ॥

मौनी मौनधरो मेधो मन्दारो मतिवर्धनः ।
मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३ ॥

मेधावी मानदो मानी मानहा मानमर्दनः ।
मीनगो मकराधीशो मकरो मणिरञ्जितः ॥ ४४ ॥

मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।
मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५ ॥

मल्लो मल्लप्रियो मन्त्रो मेलको मेलनप्रभः ।
मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६ ॥

मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः ।
मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७ ॥

माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः ।
मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८ ॥

मनस्स्थो मेनकाधीशो मेनका प्रियदर्शनः ।
यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९ ॥

याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः ।
रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५० ॥

रमापती रमानाथो रमाकान्तो रमेश्वरः ।
रेवती रमणो रामो रामेशो रामनन्दनः ॥ ५१ ॥

रम्यमूर्ती रतीशानो राकाया नायको रविः ।
लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२ ॥

लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।
वामनो वल्लभो वन्द्यो वनमाली वलेश्वरः ॥ ५३ ॥

वशस्थो वनगो वन्ध्यो वनराजो वनाह्वयः ।
वनेचरो वनाधीशो वनमाला विभूषणः ॥ ५४ ॥

वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः ।
शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५ ॥

शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः ।
शकुलः शल्ल्कः शीलः शीतिरश्मि सितांशुकः ॥ ५६ ॥

शीलदः शीकरः शीलः शालशाली शनैश्चरः ।
सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः ॥ ५७ ॥

सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः ।
सिन्धुपतिः सुराधीशः सरसीरुहलोचनः ॥ ५८ ॥

सरित्पतिस्सरित्संस्थः सरः सिन्धुसरोवरः ।
सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९ ॥

सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः ।
सदृशः साहसी शूरः सेव्यमानः सतीपतिः ॥ ६० ॥

सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः ।
सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१ ॥

सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः ।
सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२ ॥

सतीनायकसन्तुष्टः सव्यसाची समन्तकः ।
सचितः सर्वसन्तोषी सर्वाराधन सिद्धिदः ॥ ६३ ॥

सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः ।
सागरः सगरः सार्धः समुद्रप्रियदर्शनः ॥ ६४ ॥

समुद्रेशः परो नाथः सरसीरुहलोचनः ।
सरसीजलदाकारः सरसीजलदार्चितः ॥ ६५ ॥

सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः ।
सुरसेव्यः सुरेशानः सुरनाथ स्सुरेश्वरः ॥ ६६ ॥

सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः ।
सुरश्रेष्ठः सुरप्राणः सुरसिन्धुनिवासिनः ॥ ६७ ॥

सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः ।
सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८ ॥

हाटको हीरको हन्ता हाटको रुचिरप्रभः ।
हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः ॥ ६९ ॥

हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः ।
हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ॥ ७० ॥

हरीशो हन्त्रिको हीरो हरिनाम परायणः ।
हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१ ॥

हरो हरपति र्हारो हरिणीचित्तहारकः ।
हरो हितो हरिप्राणो हरिवाहनशोभनः ॥ ७२ ॥

हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः ।
हुताशनो हवी हिक्को हालाहलहलायुधः ॥ ७३ ॥

हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ।
हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४ ॥

हरबन्धो हराधीशो हरान्तको हराकृतिः ।
हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५ ॥

हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः ।
हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६ ॥

हाटको हाटकप्राणो हाटभूषणभूषकः ।
हेतिदो हेतिको हंसो हंसागतिराह्वयः ॥ ७७ ॥

हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ।
हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८ ॥

हरजीवरतो हारी हरितो हरिताम्पतिः ।
हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९ ॥

हरिदीशो हरित्प्रायो हरिप्रियप्रियो हितः ।
हेरम्बो हुङ्कृतिक्रुद्धो हेरम्बो हुङ्कृती हरी ॥ ८० ॥

हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः ।
क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१ ॥

क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः ।
क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः ॥ ८२ ॥

क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ।
क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः ॥ ८३ ॥

क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी ।
क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४ ॥

क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः ।
क्षमानाथः क्षमाधारः क्षमाधारी क्षमाधरः ॥ ८५ ॥

क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः ।
क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६ ॥

क्षीरशायी क्षणेशानः क्षोणीभूत् क्षणदोत्सवः ।
क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ॥ ८७ ॥

नीलाद्रिरुचिरावेशः नीलोपचित सन्निभः ।
नालमणिप्रभारम्यो नीलभूषणभूषितः ॥ ८८ ॥

नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः ।
मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९ ॥

दिग्वासा विदिताकारो दिगम्बरवरप्रदः ।
दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९० ॥

पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः ।
श्रेणीकरः श्रेणाशायः खड्गधृक् खड्गपालकः ॥ ९१ ॥

शूलहस्ता मतङ्गाभी मातङ्गोत्सवसुन्दरः ।
अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ॥ ९२ ॥

नगेशयो नगेशानो नागमण्डलमण्डितः ।
नागाकारो नागधीशो नागशायी नगप्रियः ॥ ९३ ॥

घटोत्सवो घटाकारो घण्टावाद्य विशारदः ।
कपालपाणि रम्बेशः कपालाशनशारदः ॥ ९४ ॥

पद्मपाणिः करालास्य स्त्रिनेत्रो नागवल्लभः ।
किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५ ॥

अपमृत्युहरो मायामोहमूलविनाशकः ।
आयुकः कमलानाथः कमलाकान्तवल्लभः ॥ ९६ ॥

राज्यदो राजराजेशो राजवत्सदशोभनः ।
डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७ ॥

डाकिनीहृदयज्ञानी डाकिनीदेहनायकः ।
डाकिनीप्राणदः सिद्धः श्रद्धेयचरितोविभुः ॥ ९८ ॥

हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।
हेमदो नर्मदो मानी नामधेयो नगात्मजः ॥ ९९ ॥

वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ।
कुण्डलीशो मुखध्वंसी मखराजो मखेश्वरः ॥ १०० ॥

मखाकारो मखाधीशो मखमालिविभूषणः ।
अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ॥ १०१ ॥

वाणीशो वचनप्राणो वचनस्थो वनप्रियः ।
वेलाधारो दिशामीशो दिग्भागो हि दिगीश्वरः ॥ १०२ ॥

पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः ।
तर्कतर्कप्रियोऽतर्क्यो वित्तर्क्यस्तर्कवल्लभः ॥ १०३ ॥

तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः ।
ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४ ॥

मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः ।
मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५ ॥

बुधेशो विविधाधीशो बुधवारो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६ ॥

बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः ।
सोमः सोमसमाकारः सोमपाः सोमनायकः ॥ १०७ ॥

सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः ।
कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०८ ॥

त्रिदेशो दशरात्रीशो दशाननविनाशकः ।
लक्ष्मणो लक्षसम्भर्ता लक्ष्यसङ्ख्यो मनःप्रियः ॥ १०९ ॥

विभावसुर्नवेशानो नायको नगरप्रियः ।
नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११० ॥

नरपतिर्नरेशानो नारायणो नरेश्वरः ।
अनिलो मारुतो मांसो मांसैकरससेवितः ॥ १११ ॥

मरीचिरमरेशानो मागधो मगधप्रभुः ।
सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२ ॥

देवकीगर्भसञ्जातो देवकीसेवकी कुहुः ।
बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः ॥ ११३ ॥

शारदासाधकप्राणः शरदीसेवकोत्सुकः ।
शारदासाधकश्रेष्टो मधुपानसदारतिः ॥ ११४ ॥

मोदकादानसम्प्रीतो मोदकामोदमोदितः ।
आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५ ॥

नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा ।
तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६ ॥

पतङ्गगोमुखो गौरगोपालो गोपवर्धनः ।
गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७ ॥

गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणाप्रियः ।
गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८ ॥

गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः ।
गाम्भीरधारको धर्ता विधर्ता धर्मपालकः ॥ ११९ ॥

जगदीशो जगन्मित्रो जगज्जाड्यविनाशनः ।
जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२० ॥

मालतिपुष्पसम्प्रीतो मालतीकुसुमोत्सवः ।
मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१ ॥

रसालमञ्जरीरम्यो रसालगन्धसेवितः ।
रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२ ॥

रसालपादपासीनो रसालफलसुन्दरः ।
रसालरससन्तुष्टो रसालरससालयः ॥ १२३ ॥

केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः ।
केतकीपत्रसङ्काशः केतकीप्राणनाशकः ॥ १२४ ॥

गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।
गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५ ॥

आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः ।
सुब्रह्म्यभैरवो नामभैरवो भूतभावनः ॥ १२६ ॥

भैरवीतनयो देवीपुत्रः पर्वतसन्निभः ।

फलश्रुतिः
नाम्नाऽनेन सहस्रेण स्तुत्वा बटुकभैरवम् ॥ १२७ ॥

लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् ।
उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८ ॥

तस्मिन्योगे महेशानस्सर्वासिद्धि मवाप्नुयात् ।
लक्षमावर्तयेन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९ ॥

नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवम् ।
स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३० ॥

दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।
न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१ ॥

अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः ।
स्तवस्यास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२ ॥

सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।
राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३ ॥

किमपरं फलं प्राप्य स्तवराजस्य कथ्यते ।
यद्यन्मनसि सङ्कल्पस्तवमेतदुदीरितम् ॥ १३४ ॥

तत्तत्प्राप्नोति देवेश बटुकस्य प्रसादतः ।
आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५ ॥

देवासुररणे घोरे देवानामुपकारकम् ।
प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६ ॥

अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् ।
पठित्वा पाठयित्वाऽपि स्तवराज मनुत्तमम् ॥ १३७ ॥

दरिद्रो लभते लक्ष्मी मायुःप्राप्तिमतिश्चिरम् ।
कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८ ॥

प्रदोषे बलिदाने च वशये दखिलं जगत् ।
वटे वा बिल्वमूले वा रम्भायां विपिने वने ॥ १३९ ॥

जपे त्सततमालक्ष्य मन्त्रराजस्य सिद्धये ।
वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४० ॥

पूजयेत्तुतिलैर्माषैर्दुग्धैर्मासैर्झषैस्तथा ।
घृतपक्कान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१ ॥

पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः ।
पठेद्वा पाठयेद्वापि यथाबिधि सुरप्रिये ॥ १४२ ॥

शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् ।
ज्वरादिसम्भवं चापि सत्यं सत्यं महेश्वरि ॥ १४३ ॥

भैरवाराधने शक्तो यो भवेत्साधकः प्रभो ।
सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४ ॥

श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः
पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः ।
क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो
मौद्ग्यम्पादपयोजयोर्निवहते मूर्ध्निपयस्सिच्यताम् ॥ १४५ ॥

इति भैरवतन्त्रे देवीहरसंवादे श्रीबटुकभैरवसहस्रनामस्तोत्रं
सम्पूर्णम् ॥

Also Read 1000 Names of Sri Batuka Bhairava 1:

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top