Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Mookambika Divya | Sahasranama Stotram Lyrics in Hindi

This beautiful Sahasranama of Sri Mukambika Devi is taken from the chapter called Kolapura Mahatmyam of Skanda Mahapurana. This is a very powerful hymn and a single repetition of this hymn is said to be equal to Sahasrachandi Homa. Sri Mookambika is the combination of not only the three prime deities Mahakali, Mahalakshmi and Mahasarasvati, but also all the other forms of Sri Devi like Kaushiki, Mahishamardini, Shatakshi and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Sridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Sri Mukambika, known as Gauri Panchadashakshari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Shridevi and those who are not into initiated into the secrets of Kulachara! Please use it with proper discernment.

Shri Mukambika Divyasahasranamastotram Lyrics in Hindi:

॥ श्रीमूकाम्बिका दिव्यसहस्रनामस्तोत्रम् ॥
सूत उवाच

पुरा कैलासशिखरे मार्कण्डेयो महामुनिः ।
पप्रच्छ गिरिजानाथं सिद्धगन्धर्वसेवितम् ॥

सहस्रार्कप्रतीकाशं त्रिनेत्रं चन्द्रशेखरं ।
भगवत्या कृतं कर्म दानवानां रणे कथम् ॥

श्री शिव उवाच

श‍ृणु वत्स प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
त्रिगुणा श्रीर्महालक्ष्मीः योऽसौभाग्यवती परा ॥

योगनिद्रानिमग्नस्य विष्णोरमिततेजसः ।
पिंजूषतत्समुद्भूतौ विख्यातौ मधुकैटभौ ॥

तयोः विष्णोरभूद्भूयो युद्धं सार्वभयङ्करम् ।
चक्रिणा निहतावेतौ महामायाविमोहितौ ॥

अथ देवशरीरेभ्यः प्रादुर्भूता महेश्वरी ।
महिषं सा महावीर्यं अवधीन्नामरूपकम् ॥

ततो दैत्यार्दितैः देवैः पुरुहूतादिभिः स्तुता ।
सैषा भगवती दैत्यं धूम्रलोचनसंज्ञितम् ॥

चण्डमुण्डौ महावीर्यौ रक्तबीजं भयङ्करम् ।
निहत्य देवी दैत्येन्द्रं निशुम्भमुरुविक्रमम् ॥

शुम्भासुरं महावीर्यं देवतामृत्युरूपिणम् ।
युध्यमानं ससैन्यं तं अवधीदम्बिका पुनः ॥

देवाश्च ऋषयः सिद्धाः गन्धर्वाश्च मुदा तदा ।
तुष्टुवुः भक्तिनम्रात्ममूर्तयः परमेश्वरीम् ॥

सूत उवाच

एतत्च्छ्रुत्वा शिवोक्तं तत् मार्कण्डेयो महामुनिः ।
पद्मैर्नाम्नां सहस्रेण पूजयामास तां शिवाम् ॥

ॐ अस्यश्री मूकाम्बिकायाः
वरदिव्यसहस्रनामस्तोत्रमालामहामन्त्रस्य
मार्कण्डेय भगवान् ऋषिः – गायत्री छन्दः –
त्रिमूर्त्यैक्यस्वरूपिणी महाकाली-महालक्ष्मी-महासरस्वती
त्रिगुणात्मिका श्री मूकाम्बिका देवता –
ह्रां बीजं – ह्रीं शक्तिः – ह्रूं कीलकं –
श्री मूकाम्बिका वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

[ह्रां इत्यादि वा मूकाम्बिकायाः गौरी पञ्चदशाक्षर्याख्या
बालकुमारिका विद्यया वा न्यासमाचरेत् ]

ध्यानम्

शैलाधिराजतनयां शरदिन्दुकोटिभास्वन्
मुखाम्बुजकिरीटयुतां त्रिनेत्राम् ।
शङ्खार्यभीतिवरवर्यकरां मनोज्ञां
मूकाम्बिकां मुनिसुराऽभयदां स्मरामि ॥

प्रमत्त मधुकैटभौ महिषदानवं याऽवधीत्
सधूम्रनयनाह्वयौ सबलचण्डमुण्डावपि ।
सरक्तदनुजौ भयङ्करनिशुभशुम्भासुरौ असौ
भगवती सदा हृदि विभातु मूकाम्बिका ॥

प्रपन्नजनकामदां प्रबलमूकदर्पापहां
अनुष्णसुकलाधरां अरिदराभयेष्टान्विताम् ।
तटिद्विसरभासुरां कुटजशैलमूलाश्रितां
अशेषविभुधात्मिकां अनुभजामि मूकाम्बिकाम् ॥

॥लमित्यादि पञ्चपूजा॥

श्री मार्कण्डेय उवाच
श्रीं ह्रीं ऐं ॐ

मूकाम्बिका मूकमाता मूकवाग्भूतिदायिनी
महालक्ष्मीः महादेवी महारज्यप्रदायिनी ।
महोदया महारूपा मान्या महितविक्रमा
मनुवन्द्या मन्त्रिवर्या महेष्वासा मन्सविनी ॥

मेनकातनया माता महिता मातृपूजिता
महती मारजननी मृतसंजीविनी मतिः ।
महनीया मदोल्लासा मन्दारकुसुमप्रभा माधवी
मल्लिकापूज्या मलयाचलवासिनी ॥

महाङ्कभगिनी मूर्ता महासारस्वतप्रदा
मर्त्यलोकाश्रया मन्युः मतिदा मोक्षदायिनी ।
महापूज्या मखफलप्रदा मघवदाश्रया
मरीचिमारुतप्राणाः मनुज्येष्ठा महौषधिः ॥

महाकारुणिका मुक्ताभरणा मङ्गलप्रदा
मणिमाणिक्यशोभाढ्या मदहीना मदोत्कटा ।
महाभाग्यवती मन्दस्मिता मन्मथसेविता
माया विद्यामयी मंजुभाषिणी मदलालसा ॥

मृडाणी मृत्युमथिनी मृदुभाषा मृडप्रिया
मन्त्रज्ञा मित्रसङ्काशा मुनिः महिषमर्दिनी ।
महोदया महोरस्का मृगदृष्टिः महेश्वरी
मृनालशीतला मृत्युः मेरुमन्दरवासिनी ॥

मेध्या मातङ्गगमना महामारीस्वरूपिणी
मेघश्यामा मेघनादा मीनाक्षी मदनाकृतिः ।
मनोन्मयी महामाया महिषासुरमोक्षदा
मेनकावन्दिता मेन्या मुनिवन्दितपादुका ॥

मृत्युवन्द्या मृत्युदात्री मोहिनी मिथुनाकृतिः
महारूपा मोहिताङ्गी मुनिमानससंस्थिता ।
मोहनाकारवदना मुसलायुधधारिणी
मरीचिमाला माणिक्यभूषणा मन्दगामिनी ॥

महिषी मारुतगतिः महालावण्यशालिनी
मृदण्गनादिनी मैत्री मदिरामोदलालसा ।
मायामयी मोहनाशा मुनिमानसमन्दिरा
मार्ताण्डकोटिकिरणा मिथ्याज्ञाननिवारिणी ॥

मृगाङ्कवदना मार्गदायिनी मृगनाभिधृक्
मन्दमारुतसम्सेव्या मुदारतरुमूलगा ।
मन्दहासा मदकरी मधुपानसमुद्यता मधुरा
माधवनुता माधवी माधवार्चिता ॥

मार्ताण्डकोटिजननी मार्ताण्डगतिदायिनी
मृनालमूर्तिः मायावी महासाम्राज्यदायिनी ।
कान्ता कान्तमुखी काली कचनिर्जितभृङ्गिका
कञ्जाक्षी कञ्जवदना कस्तूरीतिलकोज्वला ॥

कलिकाकारवदना कर्पूरामोदसम्युता
कोकिलालापसङ्गीता कनकाकृतिबिम्बभृत् ।
कम्बुकण्ठी कञ्जहारा कलिदोषविनाशिनी
कञ्चुकाढ्या कञ्जरूपा काञ्चीभूषणराजिता ॥

कण्ठीरवजितामध्या काञ्चीदामविभूषिता
कृतकिङ्किणिकाशोभा काञ्चनस्राविनीविका ।
काञ्चनोत्तमशोभाढ्या कनकाक्लृप्तपादुका
कण्ठीरवसमासीना कण्ठीरवपराक्रमा ॥

कल्याणी कमला काम्या कमनीया कलावती
कृतिः कल्पतरुः कीर्तिः कुटजाचलवासिनी ।
कविप्रिया काव्यलोला कपर्दीरुचिराकृतिः
कण्ठीरवध्वजा कामरूपा कामितदायिनी ॥

कृषाणुः केशवनुता कृतप्रज्ञा कृशोदरी
कोशाधीश्वरसंसेव्या कृशाकर्षितपातका ।
करीन्द्रगामिनी केळी कुमारी कलभाषिणी
कलिदोषहरा काष्ठा करवीरसुमप्रिया ॥

कलारूपा कृष्णनुता कलाधरसुपूजिता
कुब्जा कञ्जेक्षणा कन्या कलाधरमुखा कविः ।
कला कलाङ्गी कावेरी कौमुदी कालरूपिणी
कलाढ्या कोलसंहर्त्री कुसुमाढ्या कुलाङ्गना ॥

कुचोन्नता कुङ्कुमाढ्या कौसुम्भकुसुमप्रिया
कचशोभा कालरात्रिः कीचकारण्यसेविता ।
कुष्ठरोगहरा कूर्मपृष्ठा कामितविग्रहा
कलानना कलालापा कलभाधीश्वरार्चिता ॥

केतकीकुसुमप्रीता कैलासपददायिनी
कपर्दिनी कलामाला केशवार्चितपादुका ।
कुशात्मजा केशपाशा कोलापुरनिवासिनी
कोशनाथा क्लेशहन्त्री कीशसेव्या कृपापरा ॥

कौन्तेयार्चितपादाब्जा कालिन्दी कुमुदालया
कनत्कनकताटङ्का करिणी कुमुदेक्षणा ।
कोकस्तनी कुन्दरदना कुलमार्गप्रवर्तिनी
कुबेरपूजिता स्कन्दमाता कीलालशीतला ॥

काली कामकला काशी काशपुष्पसमप्रभा
किन्नरी कुमुदाह्लादकारिणी कपिलाकृतिः ।
कार्यकारणनिर्मुक्ता क्रिमिकीटान्तमोक्षदा
किरातवनिता कान्तिः कार्यकारणरूपिणी ॥

कपिला कपिलाराध्या कपीशध्वजसेविता
कराली कार्तिकेयाख्यजननी कान्तविग्रहा ।
करभोरुः करेणुश्रीः कपालिप्रीतिदायिनी
कोलर्षिवरसम्सेव्या कृतज्ञा काङ्क्षितार्थदा ॥

बाला बालनिभा बाणधारिणी बाणपूजिता
बिसप्रसूननयना बिसतन्तुनिभाकृतिः ।
बहुप्रदा बहुबला बालादित्यसमप्रभा
बलाधरहिता बिन्दुनिलया बगलामुखी ॥

बदरीफलवक्षोजा बाह्यदम्भविवर्जिता
बला बलप्रिया बन्धुः बन्धा बौद्धा बुधेश्वरी ।
बिल्वप्रिया बाललता बालचन्द्रविभूषिता
बुद्धिदा बन्धनच्छेत्री बन्धूककुसुमप्रिया ॥

ब्राह्मी ब्रह्मनुता ब्रध्नतनया ब्रह्मचारिणी
बृहस्पतिसमाराध्या बुधार्चितपदाम्बुजा ।
बृहत्कुक्षिः बृहद्वाणी बृहत्पृष्ठा बिलेशया
बहिर्ध्वजसुता बर्हिकचा बीजाश्रया बला ॥

बिन्दुरूपा बीजापूरप्रिया बालेन्दुशेखरा
बिजाङ्कुरोद्भवा बीजरूपिणी ब्रह्मरूपिणी ।
बोधरूपा बृहद्रूपा बन्धिनी बन्धमोचिनी
बिम्बसंस्था बालरूपा बालरात्रीशधारिणी ॥

वनदुर्गा वह्निनौका श्रीवन्द्या वनसंस्थिता
वह्नितेजा वह्निशक्तिः वनितारत्न रूपिणी ।
वसुन्धरा वसुमती वसुधा वसुदायिनी
वासवादिसुराराध्या वन्ध्यताविनिवर्तिनी ॥

विवेकिनी विशेषज्ञा विष्णुः वैष्णवपूजिता
पण्डिताखिलदैत्यारिः विजया विजयप्रदा ।
विलासिनी वेदवेद्या वियत्पूज्या विशालिनी
विश्वेश्वरी विश्वरूपा विश्वसृष्टिविधायिनी ॥

वीरपत्नी वीरमाता वीरलोकप्रदायिनी
वरप्रदा वर्यपदा वैष्णवश्रीः वधूवरा ।
वधूः वारिधिसञ्जाता वारणादिसुसंस्थिता
वामभागाधिका वामा वाममार्गविशारदा ॥

वामिनी वज्रिसम्सेव्या वज्राद्यायुधधारिणी
वश्या वेद्या विश्वरूपा विश्ववन्द्या विमोहिनी ।
विद्वद्रूपा वज्रनखा वयोवस्थाविवर्जिता
विरोधशमनी विद्या वारितौघा विभूतिदा ॥

विश्वात्मिका विश्वपाशमोचिनी वारणस्थिता
विबुधार्च्या विश्ववन्द्या विश्वभ्रमणकारिणी ।
विलक्षणा विशालाक्षी विश्वामित्रवरप्रदा
विरूपाक्षप्रिया वारिजाक्षी वारिजसम्भवा ॥

वाङ्ग्मयी वाक्पतिः वायुरूपा वारणगामिनी
वार्धिगम्भीरगमना वारिजाक्षसती वरा ।
विषया विषयासक्ता विद्याऽविद्यास्वरूपिणी
वीणाधरी विप्रपूज्या विजया विजयान्विता ॥

विवेकज्ञा विधिस्तुता विशुद्धा विजयार्चिता
वैधव्यनाशिनी वैवाहिता विश्वविलासिनी ।
विशेषमानदा वैद्या विबुधार्तिविनाशिनी
विपुलश्रोणिजघना वलित्रयविराजिता ॥

विजयश्रीः विधुमुखी विचित्राभरणान्विता
विपक्षव्रातसंहर्त्री विपत्संहारकारिणी ।
विद्याधरा विश्वमयी विरजा वीरसंस्तुता
वेदमूर्तिः वेदसारा वेदभाषाविचक्षणा ॥

विचित्रवस्त्राभरणा विभूषितशरीरिणी
वीणागायनसम्युक्ता वीतरागा वसुप्रदा ।
विरागिणी विश्वसारा विश्वावस्थाविवर्जिता
विभावसुः वयोवृद्धा वाच्यवाचकरूपिणी ॥

वृत्रहन्त्री वृत्तिदात्री वाक्स्वरूपा विराजिता
व्रतकार्या वज्रहस्ता व्रतशीला व्रतान्विता ।
व्रतात्मिका व्रतफला व्रतषाड्गुण्यकारिणी
वृत्तिः वादात्मिका वृत्तिप्रदा वर्या वषट्कृता ॥

विज्ञात्री विबुधा वेद्या विभावसुसमद्युतिः
विश्ववेद्या विरोधघ्नी विबुधस्तोमजीवना ।
वीरस्तुत्या वियद्याना विज्ञानघनरूपिणी
वरवाणी विशुद्धान्तःकरणा विश्वमोहिनी ॥

वागीश्वरी वाग्विभूतिदायिनी वारिजानना
वारुणीमदरक्ताक्षी वाममार्गप्रवर्तिनी ।
वामनेत्रा विराड्रूपा वेत्रासुरनिषूदिनी
वाक्यार्थज्ञानसन्धात्री वागधिष्ठानदेवता ॥

वैष्णवी विश्वजननी विष्णुमाया वरानना
विश्वम्भरी वीतिहोत्रा विश्वेश्वरविमोहिनी ।
विश्वप्रिया विश्वकर्त्री विश्वपालनतत्परा
विश्वहन्त्री विनोदाढ्या वीरमाता वनप्रिया ॥

वरदात्री वीतपानरता वीरनिबर्हिणी
विद्युन्निभा वीतरोगा वन्द्या विगतकल्मषा ।
विजिताखिलपाषण्डा वीरचैतन्यविग्रहा
रमा रक्षाकरी रम्या रमणीया रणप्रिया ॥

रक्षापरा राक्षसघ्नी राज्ञी रमणराजिता
राकेन्दुवदना रुद्रा रुद्राणी रौद्रवर्जिता ।
रुद्राक्षधारिणी रोगहारिणी रङ्गनायिका
राज्यश्रीरञ्जितपदा राजराजनिषेविता ॥

रुचिरा रोचना रोची ऋणमोचनकारिणी
रजनीशकलायुक्ता रजताद्रिनिकेतना ।
रागोष्ठी रागहृदया रामा रावणसेविता
रक्तबीजार्दिनी रक्तलोचना राज्यदायिनी ॥

रविप्रभा रतिकरा रत्नाढ्या राज्यवल्लभा
राजत्कुसुमधम्मिल्ला राजराजेश्वरी रतिः ।
राधा राधार्चिता रौद्री रणन्मञ्जीरनूपुरा
राकारात्रिः ऋजूराशिः रुद्रदूती ऋगात्मिका ॥

राजच्चन्द्रजटाजूटा राकेन्दुमुखपङ्कजा
रावणारिहृदावासा रावणेशविमोहिनी ।
राजत्कनककेयूरा राजत्करजिताम्बुजा
रागहारयुता रामसेविता रणपण्डिता ॥

रम्भोरू रत्नकटका राजहम्सगतागतिः
राजिवरञ्जितपदा राजसिम्हासनस्थिता ।
रक्षाकरी राजवन्द्या रक्षोमण्डलभेदिनी
दाक्षायणी दान्तरूपा दानकृत् दानवार्दिनी ॥

दारिद्र्यनाशिनी दात्री दयायुक्ता दुरासदा
दुर्जया दुःखशमनी दुर्गदात्री दुरत्यया ।
दासीकृतामरा देवमाता दाक्षिण्यशालिनी
दौर्भाग्यहारिणी देवी दक्षयज्ञविनाशिनी ॥

दयाकरी दीर्घबाहुः दूतहन्त्री दिविस्थिता
दयारूपा देवराजसंस्तुता दग्धमन्मथा ।
दिनकृत्कोटिसङ्काशा दिविषद्दिव्यविग्रहा
दीनचिन्तामणिः दिव्यस्वरूपा दीक्षितायिनी ॥

दीधितिः दीपमालाढ्या दिक्पतिः दिव्यलोचना
दुर्गा दुःखौघशमनी दुरितघ्नी दुरासदा ।
दुर्ज्ञेया दुष्टशमनी दुर्गामूर्तिः दिगीश्वरी
दुरन्ताख्या दुष्टदाह्या दुर्धर्षा दुन्दुभिस्वना ॥

दुष्प्रधर्षा दुराराध्या दुर्नीतिजननिग्रहा
दूर्वादलश्यामलाङ्गी द्रुतदृग्धूषणोज्झिता ।
देवता देवदेवेशी देवी देशिकवल्लभा
देविका देवसर्वस्वा देशप्रादेशकारिणी ॥

दोषापहा दोषदूरा दोषाकरसमानना
दोग्ध्री दौर्जन्यशमनी दौहित्रप्रतिपादिनी ।
दूत्यादिक्रीडनपरा द्युमणिः द्यूतशालिनी
द्योतिताशा द्यूतपरा द्यावाभूमिविहारिणी ॥

दन्तिनी दण्डिनी दंष्ट्री दन्तशूकविषापहा
दम्भदूरा दन्तिसुता दण्डमात्रजयप्रदा ।
दर्वीकरा दशग्रीवा दहनार्चिः दधिप्रिया
दधीचिवरदा दक्षा दक्षिणामूर्तिरूपिणी ॥

दानशीला दीर्घवर्ष्मा दक्षिणार्धेश्वरा
दृता दाडिमीकुसुमप्रीता दुर्गदुष्कृतहारिणी ।
जयन्ती जननी ज्योत्स्ना जलजाक्षी जयप्रदा
जरा जरायुजप्रीता जरामरणवर्जिता ॥

जीवना जिवनकरी जिवेश्वरविराजिता
जगद्योनिः जनिहरा जातवेदा जलाश्रया ।
जिताम्बरा जिताहारा जिताकारा जगत्प्रिया
ज्ञानप्रिया ज्ञानघना ज्ञानविज्ञानकारिणी ॥

ज्ञानेश्वरी ज्ञानगम्या ज्ञाताज्ञातौघनाशिनी
जिग्ज्ञासा जीर्णरहिता ज्ञानिनी ज्ञानगोचरा ।
अज्ञानध्वम्सिनी ज्ञानरूपिणी ज्ञानकारिणी
जातार्तिशमनी जन्महारिणी ज्ञानपञ्जरा ॥

जातिहीना जगन्माता जाबालमुनिवन्दिता
जागरूका जगत्पात्री जगद्वन्द्या जगद्गुरुः ।
जलजाक्षसती जेत्री जगत्संहारकारिणी
जितक्रोधा जितरता जितचन्द्रमुखाम्बुजा ॥

यज्ञेश्वरी यज्ञफला यजना यमपूजिता
यतिः योनिः यवनिका यायजूका युगात्मिका ।
युगाकृतिः योगदात्री यज्ञा युद्धविशारदा
युग्मप्रिया युक्तचित्ता यत्नसाध्या यशस्करी ॥

यामिनी यातनहरा योगनिद्रा यतिप्रिया
यातहृतकमला यज्या यजमानस्वरूपिणी ।
यक्षेशी यक्षहरणा यक्षिणी यक्षसेविता
यादवस्त्री यदुपतिः यमलार्जुनभञ्जना ॥

व्यालालङ्कारिणी व्याधिहारिणी व्ययनाशिनी
तिरस्कृतमहाविद्या तिर्यक्पृष्ठा तिरोहिता ।
तिलपुष्पसमाकारनासिका तीर्थरूपिणी
तिर्यग्रूपा तीर्थपादा त्रिवर्गा त्रिपुरेश्वरी ॥

त्रिसंध्या त्रिगुणाध्यक्षा त्रिमूर्तिः त्रिपुरान्तकी
त्रिनेत्रवल्लभा त्र्यक्षा त्रयी त्राणपरायणा ।
तारणा तारिणी तारा तारापरिकलावृता
तारात्मिका तारजपा तुरिताढ्या तरूत्तमा ॥

तूर्णप्रसादा तूणीरधारिणी तूर्णसंस्कृता
तोषिणी तूर्णगमना तुलाहीनाऽतुलप्रभा ।
तरङ्गिणी तरङ्गाढ्या तुला तुन्दिलपुत्रिणी
तनूनपात् तन्तुरूपा तारगी तन्त्ररूपिणी ॥

तारकारिः तुङ्गकुचा तिलकालिः तिलार्चिता
तमोपहा तार्क्ष्यगतिः तामसी त्रिदिवेश्वरी ।
तपस्विनी तपोरूपा तापसेड्या त्रयीतनुः
तपःफला तपस्साध्या तलातलनिवासिनी ॥

ताण्डवेश्वरसम्प्रीता तटिदीक्षणसम्भ्रमा
तनुमध्या तनूरूपा तळिभानुः तटित्प्रभा ।
सदस्या सदया सर्ववन्दिता सदसत्परा
सद्यःप्रसादिनी सुधीः सच्चिदानन्दरूपिणी ॥

सरिद्वेगा सदाकारा सरित्पतिवसुन्धरा
सरीसृपाङ्गाभरणा सर्वसौभाग्यदायिनी ।
सामसाध्या सामगीता सोमशेखरवल्लभा
सोमवक्त्रा सौम्यरूपा सोमयागफलप्रदा ॥

सगुणा सत्क्रिया सत्या साधकाभीष्टदायिनी
सुधावेणी सौधवासा सुज्ञा सुश्रीः सुरेश्वरी ।
केतकीकुसुमप्रख्या कचनिर्जितनीरदा
कुन्तलायितभृङ्गालिः कुण्डलीकृतकैशिकी ॥

सिन्दूराङ्कितकेशान्ता कञ्जाक्षी सुकपोलिका
कनत्कनकताटङ्का चम्पकाकृतिनासिका ।
नासालङ्कृतसन्मुक्ता बिम्बोष्ठी बालचन्द्रधृत्
कुन्ददन्ता त्रिनयना पुण्यश्रवणकीर्तना ॥

कालवेणी कुचजितचकोरा हाररञ्जिता
करस्थाङ्गुलिका रत्नकाञ्चीदामविराजिता ।
रत्नकिङ्किणिका रम्यनीविका रत्नकञ्चुका
हरिमध्याऽगाधपृष्ठा करभोरुः नितम्बिनी ॥

पदनिर्जितपद्माभा ऊर्मिकारञ्जिताङ्गुलिः
गाङ्गेयकिङ्किणीयुक्ता रमणीयाङ्गुलीयुता ।
माणिक्यरत्नाभरणा मधुपानविशारदा
मधुमध्या मन्दगता मत्तेभस्थाऽमरार्चिता ॥

मयूरकेतुजननी मलयाचलपुत्रिका
परार्धभागा हर्यक्षवाहना हरिसोदरी ।
हाटकाभा हरिनुता हम्सगा हम्सरूपिणी
हर्षरूपा हरिपतिः हयारूढा हरित्पतिः ॥

सर्वगा सर्वदेवेशी सामगानप्रिया सती
सर्वोपद्रवसंहर्त्री सर्वमङ्गलदायिनी ।
साधुप्रिया सागरजा सर्वकर्त्री सनातनी
सर्वोपनिषदुद्गीता सर्वशत्रिनिबर्हिणी ॥

सनकादिमुनिस्तुत्या सदाशिवमनोहरा
सर्वज्ञा सर्वजननी सर्वाधारा सदागतिः ।
सर्वभूतहिता साध्या सर्वशक्तिस्वरूपिणी
सर्वगा सर्वसुखदा सर्वेशी सर्वरञ्जिनी ॥

शिवेश्वरी शिवारध्या शिवानन्दा शिवात्मिका
सूर्यमण्डलमध्यस्था शिवा शङ्करवल्लभा ।
सुधाप्लवा सुधाधारा सुखसंवित्स्वरूपिणी
शिवङ्करी सर्वमुखी सूक्ष्मज्ञानस्वरूपिणी ॥

अद्वयानन्दसंशोभा भोगस्वर्गापवर्गदा
विष्णुस्वसा वैष्णवाप्ता विविदार्थविनोदिनी ।
गिरिजा जिरिशप्रीता शर्वणी सह्र्मदायिनी
हृत्पद्ममध्यनिलया सर्वोत्पत्तिः स्वरात्मिका ॥

तरुणी तरुणार्काभा चिन्त्याचिन्त्यस्वरूपिणी
श्रुतिस्मृतिमयी स्तुत्या स्तुतिरूपा स्तुतिप्रिया ।
ॐकारगर्भा ह्योऽङ्कारी कङ्काली कालरूपिणी
विश्वम्भरी विनीतस्था विधात्री विविधप्रभा ॥

श्रीकरी श्रीमती श्रेयः श्रीदा श्रीचक्रमध्यगा
द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ।
साध्वी सर्वोद्भवा सत्वा श्रीकण्ठस्वान्तमोहिनी
विद्यातनुः मन्त्रतनुः मदनोद्यानवासिनी ॥

योगलक्ष्मीः राज्यलक्ष्मीः महालक्ष्मीः सरस्वती
सदानन्दैकरसिका ब्रह्मविष्ण्वादिवन्दिता ।
कुमारी कपिला काली पिङ्गाक्षी कृष्णपिङ्गला
चण्डघंटाः महासिद्धिः वाराही वरवर्णिनी ॥

कात्यायनी वायुवेगा कामाक्षी कर्मसाक्षिणी
दुर्गादेवी महादेवी आदिदेवी महासना ।
महाविद्या महामाया विद्यालोला तमोमयी
शङ्खचक्रगदाहस्ता महामहिषमर्दिनी ॥

खड्गिनी शूलिनी बुद्धिरूपिणी भूतिदायिनी
वारुणी जटिनी त्रस्तदैत्यसङ्घा शिखण्डिनी ।
सुरेश्वरी शस्त्रपूज्या महाकाली द्विजार्चिता
इच्छाज्ञानक्रिया सर्वदेवतानन्दरूपिणी ॥

मत्तशुम्भनिशुम्भघ्नी चण्डमुण्डविघातिनी
वह्निरूपा महाकान्तिः हरा ज्योत्स्नावती स्मरा ।
वागीश्वरी व्योमकेशी मूकहन्त्री वरप्रदा
स्वाहा स्वधा सुधाश्वमेधा श्रीः ह्रीः गौरी परमेश्वरी ॥ ॐ

॥ इति श्री स्कान्दमहापुराणे कोलापुरमूकाम्बिकामाहात्म्याख्ये
उपाख्याने श्री देव्याः दिव्यवरसाहास्रनाम स्तोत्रं शिवमस्तु ॥

Also Read 1000 Names of Sri Mookambika Divya:

1000 Names of Sri Matangi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Mookambika Divya | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top