Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharika | Sahasranamavali Stotram Lyrics in Hindi

Shri Sharika Sahasranamavali Lyrics in Hindi:

॥ श्रीशारिकासहस्रनामावलिः ॥
श्रीगणेशाय नमः ।
श्रीशारिकायै नमः ।

विनियोगः –
अस्य श्रीशारिकाभगवतीसहस्रनामस्तोत्रस्य श्रीमहादेव ऋषिः,
अनुष्टुप् छन्दः, श्रीशारिका भगवती देवता, शां बीजं,
श्रीं शक्तिः, फ्रां कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः ॥

ऋष्यादिन्यासः –
ॐ श्रीमहादेवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीशारिकाभगवती देवतायै नमः हृदये ।
शां बीजाय नमः दक्षस्तने ।
श्रीं शक्तये नमः वामस्तने ।
फ्रां कीलकाय नमः नाभौ ।
श्रीशारिकाभगवती प्रसादसिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः ॥

षडङ्गन्यासः ।

करन्यासः –
ह्रां श्रां अङ्गुष्ठाभ्यां नमः । ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः । ह्रैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठाभ्यां नमः । ह्रः श्रः करतलकरपुष्ठाभ्यां नमः ।

अङ्गन्यासः –
ह्रां श्रां हृदयाय नमः । ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् । ह्रैं श्रैं कवचाय हुम् ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् । ह्रः श्रः अस्त्राय फट् ।

॥ ध्यानम् ॥

बालार्ककोटिसदृशीमिन्दुचूडां कराम्बुजैः ।
वरचक्राभयासींश्च धारयन्तीं हसन्मुखीम् ॥ १ ॥

सिंहारूढां रक्तवस्त्रां रक्ताभरणभूषिताम् ।
वामदेवाङ्कनिलयां हृत्पद्मे शारिकां भजे ॥ २ ॥

बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् ।
सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ३ ॥

अथ सहस्रनामावलिः ॥

ॐ श्रीशारिकायै नमः ।
ॐ श्यामसुन्दर्यै नमः ।
ॐ शिलायै नमः ।
ॐ शार्यै नमः ।
ॐ शुक्यै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्तमानसगोचरायै नमः ।
ॐ शान्तिस्थायै नमः ।
ॐ शान्तिदायै नमः ।
ॐ शान्त्यै नमः ।
ॐ श्यामायै नमः ।
ॐ श्यामपयोधरायै नमः ।
ॐ देव्यै नमः ।
ॐ शशाङ्कबिम्बाभायै नमः ।
ॐ शशाङ्ककृतशेखरायै नमः ।
ॐ शशाङ्कशोभिलावण्यायै नमः ।
ॐ शशाङ्कमध्यवासिन्यै नमः ।
ॐ शार्दूरलवाहायै नमः ।
ॐ देवेश्यै नमः ।
ॐ शार्दूलस्थित्यै नमः । २० ।

ॐ उत्तमायै नमः ।
ॐ शार्दूलचर्मवसनायै नमः ।
ॐ शक्त्यै नमः ।
ॐ शार्दूलवाहनायै नमः ।
ॐ गौर्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ पीनायै नमः ।
ॐ पीनवक्षोजकुट्मलायै नमः ।
ॐ पीताम्बरायै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ दाडिमीकुसुमोपमायै नमः ।
ॐ स्फुरद्रत्नांशुखचितायै नमः ।
ॐ रत्नमण्डलविग्रहायै नमः ।
ॐ रक्ताम्बरधरायै नमः ।
ॐ देव्यै नमः । –
ॐ रत्नमालाविभूषणायै नमः ।
ॐ रत्नसम्मूर्छितात्मने नमः ।
ॐ दीप्तायै नमः ।
ॐ दीप्तशिखायै नमः ।
ॐ दयायै नमः । ४० ।

ॐ दयावत्यै नमः ।
ॐ कल्पलतायै नमः ।
ॐ कल्पान्तदहनोपमायै नमः ।
ॐ भैरव्यै नमः ।
ॐ भीमनादायै नमः ।
ॐ भयानकमुख्यै नमः ।
ॐ भगायै नमः ।
ॐ कारायै नमः ।
ॐ कारुण्यरूपायै नमः ।
ॐ भगमालाविभूषणायै नमः ।
ॐ भगेश्वर्यै नमः ।
ॐ भगस्थायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कृशोदर्यै नमः ।
ॐ कादम्बर्यै नमः ।
ॐ पटोत्कृष्टायै नमः ।
ॐ परमायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ सत्यै नमः ।
ॐ सरस्वत्यै नमः । ६० ।

ॐ सत्यायै नमः ।
ॐ सत्यासत्यस्वरूपिण्यै नमः ।
ॐ परम्परायै नमः ।
ॐ पटाकारायै नमः ।
ॐ पाटलायै नमः ।
ॐ पाटलप्रभायै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्मवदनायै नमः ।
ॐ पद्मायै नमः ।
ॐ पद्माकरायै नमः ।
ॐ शिवायै नमः ।
ॐ शिवाश्रयायै नमः ।
ॐ शरच्छान्तायै नमः ।
ॐ शच्यै नमः ।
ॐ रम्भायै नमः ।
ॐ विभावर्यै नमः ।
ॐ द्युमणये नमः ।
ॐ तरणायै नमः ।
ॐ पाठायै नमः ।
ॐ पीठेश्यै नमः । ८० ।

ॐ पीवराकृत्यै नमः ।
ॐ अचिन्त्यायै नमः ।
ॐ मुसलाधारायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मधुरस्वनायै नमः ।
ॐ वीणागीतप्रियायै नमः ।
ॐ गाथायै नमः ।
ॐ गारुड्यै नमः ।
ॐ गरुडध्वजायै नमः ।
ॐ अतीव सुन्दराकारायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सुन्दरालकायै नमः ।
ॐ अलकायै नमः ।
ॐ नाकमध्यस्थायै नमः ।
ॐ नाकिन्यै नमः ।
ॐ नाकिपूजितायै नमः ।
ॐ पातालेश्वरपूज्यायै नमः ।
ॐ पातालतलचारिण्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ अनन्तरूपायै नमः । १०० ।

ॐ अज्ञातायै नमः ।
ॐ ज्ञानवर्धिन्यै नमः ।
ॐ अमेयायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ अनन्तायै नमः ।
ॐ आदित्यरूपिण्यै नमः ।
ॐ द्वादशादित्यसम्पूज्यायै नमः ।
ॐ शम्यै नमः ।
ॐ श्यामाकबीजिन्यै नमः ।
ॐ विभासायै नमः ।
ॐ भासुरवर्णायै नमः ।
ॐ समस्तासुरघातिन्यै नमः ।
ॐ सुधामय्यै नमः ।
ॐ सुधामूर्त्यै नमः ।
ॐ सुधायै नमः ।
ॐ सर्वप्रियङ्कर्यै नमः ।
ॐ सुखदायै नमः ।
ॐ सुरेशान्यै नमः ।
ॐ कृशानुवल्लभायै नमः ।
ॐ हविषे नमः । १२० ।

ॐ स्वाहायै नमः ।
ॐ स्वाहेशनेत्रायै नमः ।
ॐ अग्निवक्त्रायै नमः ।
ॐ अग्नितर्पितायै नमः ।
ॐ सोमसूर्याग्निनेत्रायै नमः ।
ॐ भूर्भुवःस्वःस्वरूपिण्यै नमः ।
ॐ भूम्यै नमः ।
ॐ भूदेवपूज्यायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ स्वात्मपूजकायै नमः ।
ॐ स्वयम्भूपुष्पमालाढ्यायै नमः ।
ॐ स्वयम्भूपुष्पवल्लभायै नमः ।
ॐ आनन्दकन्दल्यै नमः ।
ॐ कन्दायै नमः ।
ॐ स्कन्दमात्रे नमः ।
ॐ शिलालयायै नमः ।
ॐ चेतनायै नमः ।
ॐ चिद्भवाकारायै नमः ।
ॐ भवपत्न्यै नमः ।
ॐ भयापहायै नमः । १४० ।

ॐ विघ्नेश्वर्यै नमः ।
ॐ गणेशान्यै नमः ।
ॐ विघ्नविध्वंसिन्यै नमः ।
ॐ निशायै नमः ।
ॐ वश्यायै नमः ।
ॐ वशिजनस्तुत्यायै नमः ।
ॐ स्तुत्यै नमः ।
ॐ श्रुतिधरायै नमः ।
ॐ श्रुत्यै नमः ।
ॐ शास्त्रविधानविज्ञायै नमः ।
ॐ वेदशास्त्रार्थकोविदायै नमः ।
ॐ वेद्यायै नमः ।
ॐ विद्यामय्यै नमः ।
ॐ वेदमय्यै नमः । –
ॐ विद्यायै नमः ।
ॐ विधातृवरदायै नमः ।
ॐ वध्वै नमः ।
ॐ वधूरूपायै नमः ।
ॐ वधूपूज्यायै नमः ।
ॐ वधूपानप्रतर्पितायै नमः । १६० ।

ॐ वधूपूजनसन्तुष्टायै नमः ।
ॐ वधूमालाविभूषणायै नमः ।
ॐ वामायै नमः ।
ॐ वामेश्वर्यै नमः ।
ॐ वाम्यायै नमः ।
ॐ कुलाकुलविचारिण्यै नमः ।
ॐ वितर्कतर्कनिलयायै नमः ।
ॐ प्रलयानलसन्निभायै नमः ।
ॐ यज्ञेश्वर्यै नमः ।
ॐ यज्ञमुखायै नमः ।
ॐ याजकायै नमः ।
ॐ यज्ञपात्रकायै नमः ।
ॐ यक्षेश्वर्यै नमः ।
ॐ यक्षधात्र्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ पर्वताश्रयायै नमः ।
ॐ पिलम्पिलायै नमः ।
ॐ पदस्थानायै नमः ।
ॐ पददायै नमः ।
ॐ नरकान्तकायै नमः । १८० ।

ॐ नार्यै नमः ।
ॐ नर्मप्रियायै नमः ।
ॐ श्रीदायै नमः ।
ॐ श्रीदश्रीदायै नमः ।
ॐ शरायुधायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ रत्यै नमः ।
ॐ हूत्यै नमः ।
ॐ आहुत्यै नमः ।
ॐ हव्यवाहनायै नमः ।
ॐ हरेश्वर्यै नमः ।
ॐ हरिवध्वै नमः ।
ॐ हाटकाङ्गदमण्डितायै नमः ।
ॐ हपुषायै नमः ।
ॐ स्वर्गत्यै नमः ।
ॐ वैद्यायै नमः ।
ॐ सुमुखायै नमः ।
ॐ महौषध्यै नमः ।
ॐ सर्वरोगहरायै नमः ।
ॐ माध्व्यै नमः । २०० ।

ॐ मधुपानपरायणायै नमः ।
ॐ मधुस्थितायै नमः ।
ॐ मधुमय्यै नमः ।
ॐ मधुदानविशारदायै नमः ।
ॐ मधुतृप्तायै नमः ।
ॐ मधुरूपायै नमः ।
ॐ मधूककुसुमप्रभायै नमः ।
ॐ माधव्यै नमः ।
ॐ माधवीवल्ल्यै नमः ।
ॐ मधुमत्तायै नमः ।
ॐ मदालसायै नमः ।
ॐ मारप्रियायै नमः ।
ॐ मारपूज्यायै नमः ।
ॐ मारदेवप्रियङ्कर्यै नमः ।
ॐ मारेश्यै नमः ।
ॐ मृत्युहरायै नमः ।
ॐ हरिकान्तायै नमः ।
ॐ मनोन्मनायै नमः ।
ॐ महावैद्यप्रियायै नमः ।
ॐ वैद्यायै नमः । २२० ।

ॐ वैद्याचारायै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ सामन्तायै नमः ।
ॐ पीनवपुष्यै नमः ।
ॐ गुट्यै नमः ।
ॐ गुर्व्यै नमः ।
ॐ गरीयस्यै नमः ।
ॐ कालान्तकायै नमः ।
ॐ कालमुख्यै नमः ।
ॐ कठोरायै नमः ।
ॐ करुणामय्यै नमः ।
ॐ नीलायै नमः ।
ॐ नाभ्यै नमः ।
ॐ वागीश्यै नमः ।
ॐ दूर्वायै नमः ।
ॐ नीलसरस्वत्यै नमः ।
ॐ अपारायै नमः ।
ॐ पारगायै नमः ।
ॐ गम्यायै नमः ।
ॐ गत्यै नमः । २४० ।

ॐ प्रीत्यै नमः ।
ॐ पयोधरायै नमः ।
ॐ पयोदसदृशच्छायायै नमः ।
ॐ पारदाकृतिलालसायै नमः ।
ॐ सरोजनिलयायै नमः ।
ॐ नीत्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ कीर्तिकर्यै नमः ।
ॐ कथायै नमः ।
ॐ काश्यै नमः ।
ॐ काम्यायै नमः ।
ॐ कपर्दीशायै नमः ।
ॐ काशपुष्पोपमायै नमः ।
ॐ रमायै नमः ।
ॐ रामायै नमः ।
ॐ रामप्रियायै नमः ।
ॐ रामभद्रदेवसमर्चितायै नमः ।
ॐ रामसम्पूजितायै नमः ।
ॐ रामसिद्धिदायै नमः ।
ॐ रामराज्यदायै नमः । २६० ।

ॐ रामभद्रार्चितायै नमः ।
ॐ रेवायै नमः ।
ॐ देवक्यै नमः ।
ॐ देववत्सलायै नमः ।
ॐ देवपूज्यायै नमः ।
ॐ देववन्द्यायै नमः ।
ॐ देवदावनचर्चितायै नमः ।
ॐ दूत्यै नमः ।
ॐ द्रुतगत्यै नमः ।
ॐ दम्भायै नमः ।
ॐ दामिन्यै नमः ।
ॐ विजयायै नमः ।
ॐ जयायै नमः ।
ॐ अशेषसुरसम्पूज्यायै नमः ।
ॐ निःशेषासुरसूदिन्यै नमः ।
ॐ वटिन्यै नमः ।
ॐ वटमूलस्थायै नमः ।
ॐ लास्यहास्यैकवल्लभायै नमः ।
ॐ अरूपायै नमः ।
ॐ निर्गुणायै नमः । २८० ।

ॐ सत्यायै नमः ।
ॐ सदासन्तोषवर्धिन्यै नमः ।
ॐ सोम्यायै नमः ।
ॐ यजुर्वहायै नमः ।
ॐ याम्यायै नमः ।
ॐ यमुनायै नमः ।
ॐ यामिन्यै नमः ।
ॐ यम्यै नमः ।
ॐ दाक्षायै नमः ।
ॐ दयायै नमः ।
ॐ वरदायै नमः ।
ॐ दाल्भ्यसेव्यायै नमः ।
ॐ पुरन्दर्यै नमः ।
ॐ पौरन्दर्यै नमः ।
ॐ पुलोमेश्यै नमः ।
ॐ पौलोम्यै नमः ।
ॐ पुलकाङ्कुरायै नमः ।
ॐ पुरस्थायै नमः ।
ॐ वनभुवे नमः ।
ॐ वन्यायै नमः । ३०० ।

ॐ वानर्यै नमः ।
ॐ वनचारिण्यै नमः ।
ॐ समस्तवर्णनिलयायै नमः ।
ॐ समस्तवर्णपूजितायै नमः ।
ॐ समस्तवरवर्णाढ्यायै नमः ।
ॐ समस्तगुरुवल्लभायै नमः ।
ॐ समस्तमुण्डमालाढ्यायै नमः ।
ॐ मालिन्यै नमः ।
ॐ मधुपस्वनायै नमः ।
ॐ कोशप्रदायै नमः ।
ॐ कोशवासायै नमः ।
ॐ चमत्कृत्यै नमः ।
ॐ अलम्बुसायै नमः ।
ॐ हासदायै नमः ।
ॐ सदसद्रूपायै नमः ।
ॐ सर्ववर्णमय्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ सर्वाक्षरमय्यै नमः ।
ॐ विद्यायै नमः ।
ॐ मूलविद्येश्वर्यै नमः । ३२० ।

ॐ ईश्वर्यै नमः ।
ॐ अकारायै नमः ।
ॐ षोडशाकारायै नमः ।
ॐ काराबन्धविमोचिन्यै नमः ।
ॐ ककारव्यञ्जनायै नमः ।
ॐ आक्रान्तायै नमः ।
ॐ सर्वमन्त्राक्षरालयायै नमः ।
ॐ अणुरूपायै नमः ।
ॐ अमालायै नमः ।
ॐ त्रैगुण्यायै नमः ।
ॐ अपराजितायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ अम्बालिकायै नमः ।
ॐ अम्बायै नमः ।
ॐ अनन्तगुणमेखलायै नमः ।
ॐ अपर्णायै नमः ।
ॐ पर्णशालायै नमः ।
ॐ साट्टहासायै नमः ।
ॐ हसन्तिकायै नमः ।
ॐ अद्रिकन्यायै नमः । ३४० ।

ॐ अट्टहासायै नमः ।
ॐ अजरायै नमः ।
ॐ अस्यायै नमः । –
ॐ अरुन्धत्यै नमः ।
ॐ अब्जाक्ष्यै नमः ।
ॐ अब्जिन्यै नमः ।
ॐ देव्यै नमः । –
ॐ अम्बुजासनपूजितायै नमः ।
ॐ अब्जहस्तायै नमः ।
ॐ अब्जपादायै नमः ।
ॐ अब्जपूजनतोषितायै नमः ।
ॐ अकारमातृकायै नमः ।
ॐ देव्यै नमः । –
ॐ सर्वानन्दकर्यै नमः ।
ॐ कलायै नमः ।
ॐ आनन्दसुन्दर्यै नमः ।
ॐ आद्यायै नमः ।
ॐ आघूर्णारुणलोचनायै नमः ।
ॐ आदिदेवान्तकायै नमः ।
ॐ अक्रूरायै नमः । ३६० ।

ॐ आदित्यकुलभूषणायै नमः ।
ॐ आम्बीजमण्डनायै नमः ।
ॐ देव्यै नमः । –
ॐ आकारमातृकावल्यै नमः ।
ॐ इन्दुस्तुतायै नमः ।
ॐ इन्दुबिम्बास्यायै नमः ।
ॐ इनकोटिसमप्रभायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ मन्दुराशालायै नमः ।
ॐ इतिहासायै नमः ।
ॐ कथायै नमः ।
ॐ स्मृत्यै नमः ।
ॐ इलायै नमः ।
ॐ इक्षुरसास्वादायै नमः ।
ॐ इकाराक्षरभूषितायै नमः ।
ॐ इन्द्रस्तुतायै नमः ।
ॐ इन्द्रपूज्यायै नमः ।
ॐ इन्दुबिम्बास्यायै नमः ।
ॐ इनभद्रायै नमः ।
ॐ इनेश्वर्यै नमः । ३८० ।

ॐ इभगत्यै नमः ।
ॐ इभगीत्यै नमः ।
ॐ इकाराक्षरमातृकायै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ भवप्रख्यायै नमः ।
ॐ ईशान्यै नमः ।
ॐ ईश्वरवल्लभायै नमः ।
ॐ ईशायै नमः ।
ॐ कामकलायै नमः ।
ॐ देव्यै नमः । –
ॐ ईकाराश्रितमातृकायै नमः ।
ॐ उग्रप्रभायै नमः ।
ॐ उग्रचित्तायै नमः ।
ॐ उग्रवामाङ्गवासिन्यै नमः ।
ॐ उषायै नमः ।
ॐ वैष्णवपूज्यायै नमः ।
ॐ उग्रतारायै नमः ।
ॐ उल्मुकाननायै नमः ।
ॐ उमेश्वर्यै नमः ।
ॐ ईश्वर्यै नमः । ४०० ।

ॐ श्रेष्ठायै नमः ।
ॐ उदकस्थायै नमः ।
ॐ उदेश्वर्यै नमः ।
ॐ उदकायै नमः ।
ॐ अच्छोदकदायै नमः ।
ॐ उकारोद्भासमातृकायै नमः ।
ॐ ऊष्मायै नमः ।
ॐ ऊषायै नमः ।
ॐ ऊषणायै नमः ।
ॐ उचितवरप्रदायै नमः ।
ॐ ऋणहर्त्र्यै नमः ।
ॐ ऋकारेश्यै नमः ।
ॐ ऋऌवर्णायै नमः ।
ॐ ऌवर्णभाजे नमः ।
ॐ ॡकारभ्रुकुट्यै नमः ।
ॐ बालायै नमः ।
ॐ बालादित्यसमप्रभायै नमः ।
ॐ एणाङ्कमुकुटायै नमः ।
ॐ ईहायै नमः ।
ॐ एकाराक्षरबीजितायै नमः । ४२० ।

ॐ एणप्रियायै नमः ।
ॐ एणमध्यवासिन्यै नमः ।
ॐ एणवत्सलायै नमः ।
ॐ एणाङ्कमध्यसंस्थायै नमः ।
ॐ एकारोद्भासकूटिन्यै नमः ।
ॐ ऐकारोद्भासकूटिन्यै नमः ।
ॐ ओङ्कारशेखरायै नमः ।
ॐ देव्यै नमः । –
ॐ औचित्यपदमण्डितायै नमः ।
ॐ अम्भोजनिलयस्थानायै नमः ।
ॐ अःस्वरूपायै नमः ।
ॐ स्वर्गत्यै नमः ।
ॐ षोडशस्वररूपायै नमः ।
ॐ षोडशस्वरगायिन्यै नमः ।
ॐ षोडश्यै नमः ।
ॐ षोडशाकारायै नमः ।
ॐ कमलायै नमः ।
ॐ कमलोद्भवायै नमः ।
ॐ कामेश्वर्यै कामेश्वरायै नमः । –
ॐ कलाभिज्ञायै नमः । ४४० ।

ॐ कुमार्यै नमः ।
ॐ कुटिलालकायै नमः ।
ॐ कुटिलायै नमः ।
ॐ कुटिलाकारायै नमः ।
ॐ कुटुम्बसंयुतायै नमः ।
ॐ शिवायै नमः ।
ॐ कुलाकुलपदेशान्यै नमः ।
ॐ कुलेश्यै नमः ।
ॐ कुब्जिकायै नमः ।
ॐ कलायै नमः ।
ॐ कामायै नमः ।
ॐ कामप्रियायै नमः ।
ॐ कीरायै नमः ।
ॐ कमनीयायै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ कालिकायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ कालकामान्तकारिण्यै नमः ।
ॐ कपालिन्यै नमः ।
ॐ कपालेश्यै नमः । ४६० ।

ॐ कर्पूरचयचर्चितायै नमः ।
ॐ कादम्वर्यै नमः ।
ॐ कोमलाङ्ग्यै नमः ।
ॐ काश्मीर्यै नमः ।
ॐ कुङ्कुमद्युत्यै नमः ।
ॐ कुन्तायै नमः ।
ॐ कूर्चार्णबीजाढ्यायै नमः ।
ॐ कमनीयायै नमः ।
ॐ कुलाकुलायै नमः ।
ॐ करालास्यायै नमः ।
ॐ करालाक्ष्यै नमः ।
ॐ विकरालस्वरूपिण्यै नमः ।
ॐ काम्यालकायै नमः ।
ॐ कामदुघायै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामपालिन्यै नमः ।
ॐ कन्थाधरायै नमः ।
ॐ कृपाकर्त्र्यै नमः ।
ॐ ककाराक्षरमातृकायै नमः ।
ॐ खड्गहस्तायै नमः । ४८० ।

ॐ खर्परेश्यै नमः ।
ॐ खेचर्यै नमः ।
ॐ खगगामिन्यै नमः ।
ॐ खेचरीमुद्रया युक्तायै नमः ।
ॐ खेचरत्वप्रदायिन्यै नमः ।
ॐ खगासनायै नमः ।
ॐ खलोलाक्ष्यै नमः ।
ॐ खेटेश्यै नमः ।
ॐ खलनाशिन्यै नमः ।
ॐ खेवटकायुधहस्तायै नमः ।
ॐ खरांशुद्युतिसन्निभायै नमः ।
ॐ खान्तायै नमः ।
ॐ खबीजनिलयायै नमः ।
ॐ खकारोल्लासमातृकायै नमः ।
ॐ वैखर्यै नमः ।
ॐ बीजनिलयायै नमः ।
ॐ खस्थायै नमः ।
ॐ खेचरवल्लभायै नमः ।
ॐ गुण्यायै नमः ।
ॐ गजास्यजनन्यै नमः । ५०० ।

ॐ गणेशवरदायै नमः ।
ॐ गयायै नमः ।
ॐ गोदावर्यै नमः ।
ॐ गदाहस्तायै नमः ।
ॐ गङ्गाधरवरप्रदायै नमः ।
ॐ गोधायै नमः ।
ॐ गोवाहनेशान्यै नमः ।
ॐ गरलाशनवल्लभायै नमः ।
ॐ गाम्भीर्यभूषणायै नमः ।
ॐ गङ्गायै नमः ।
ॐ गकारार्णविभूषणायै नमः ।
ॐ घृणायै नमः ।
ॐ घोणाकरस्तुत्यायै नमः ।
ॐ घुर्घुरायै नमः ।
ॐ घोरनादिन्यै नमः ।
ॐ घटस्थायै नमः ।
ॐ घटजसेव्यायै नमः ।
ॐ घनरूपायै नमः ।
ॐ घुणेश्वर्यै नमः ।
ॐ घनवाहनसेव्यायै नमः । ५२० ।

ॐ घकाराक्षरमातृकायै नमः ।
ॐ ङान्तायै नमः ।
ॐ ङवर्णनिलयायै नमः ।
ॐ ङाणुरूपायै नमः ।
ॐ ङणालयायै नमः ।
ॐ ङेशायै नमः ।
ॐ ङेन्तायै नमः ।
ॐ ङनाजाप्यायै नमः ।
ॐ ङवर्णाक्षरभूषणायै नमः ।
ॐ चामीकररुचये नमः ।
ॐ चान्द्र्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्ररागिण्यै नमः ।
ॐ चलायै नमः ।
ॐ चलञ्चलायै नमः ।
ॐ चेलायै नमः ।
ॐ चन्द्रायै नमः ।
ॐ चन्द्रकरायै नमः ।
ॐ चल्यै नमः ।
ॐ चञ्चुरीकस्वनालापायै नमः । ५४० ।

ॐ चमत्कारस्वरूपिण्यै नमः ।
ॐ चटुल्यै नमः ।
ॐ चाटुक्यै नमः ।
ॐ चार्व्यै नमः ।
ॐ चम्पायै नमः ।
ॐ चम्पकसन्निभायै नमः ।
ॐ चीनांशुकधरायै नमः ।
ॐ चाट्व्यै नमः ।
ॐ चकारार्णविभूषणायै नमः ।
ॐ छत्र्यै नमः ।
ॐ छत्रधरायै नमः ।
ॐ छिन्नायै नमः ।
ॐ छिन्नमस्तायै नमः ।
ॐ छटच्छवये नमः ।
ॐ छायासुतप्रियायै नमः ।
ॐ छायायै नमः ।
ॐ छवर्णामलमातृकायै नमः ।
ॐ जगदम्बायै नमः ।
ॐ जगज्ज्योतिषे नमः ।
ॐ ज्योतीरूपायै नमः । ५६० ।

ॐ जटाधरायै नमः ।
ॐ जयदायै नमः ।
ॐ जयकर्त्र्यै नमः ।
ॐ जयस्थायै नमः ।
ॐ जयहासिन्यै नमः ।
ॐ जगत्प्रियायै नमः ।
ॐ जगत्पूज्यायै नमः ।
ॐ जगत्कर्त्र्यै नमः ।
ॐ जरातुरायै नमः ।
ॐ ज्वरघ्न्यै नमः ।
ॐ जम्भदमन्यै नमः ।
ॐ जगत्प्राणायै नमः ।
ॐ जयावहायै नमः ।
ॐ जम्भारिवरदायै नमः ।
ॐ जैत्र्यै नमः ।
ॐ जीवनायै नमः ।
ॐ जीववाक्प्रदायै नमः ।
ॐ जाग्रत्यै नमः ।
ॐ जगन्निद्रायै नमः ।
ॐ जगद्योन्यै नमः । ५८० ।

ॐ जलन्धरायै नमः ।
ॐ जालन्धरधरायै नमः ।
ॐ जायायै नमः ।
ॐ जकाराक्षरमातृकायै नमः ।
ॐ झम्पायै नमः ।
ॐ झिञ्झेश्वर्यै नमः ।
ॐ झान्तायै नमः ।
ॐ झकाराक्षरमातृकायै नमः ।
ॐ ञाणुरूपायै नमः ।
ॐ ञिणावासायै नमः ।
ॐ ञकोरेश्यै नमः ।
ॐ ञणायुधायै नमः ।
ॐ ञवर्गबीजभूषाढ्यायै नमः ।
ॐ ञकाराक्षरमातृकायै नमः ।
ॐ टङ्कायुधायै नमः ।
ॐ टकाराढ्यायै नमः ।
ॐ टोटाक्ष्यै नमः ।
ॐ टसुकुन्तलायै नमः ।
ॐ टङ्कायुधायै नमः ।
ॐ टलीरूपायै नमः । ६०० ।

ॐ टकाराक्षरमातृकायै नमः ।
ॐ ठक्कुरायै नमः ।
ॐ ठक्कुरेशान्यै नमः ।
ॐ ठकारत्रितयेश्वर्यै नमः ।
ॐ ठःस्वरूपायै नमः ।
ॐ ठवर्णाढ्यायै नमः ।
ॐ ठकाराक्षरमातृकायै नमः ।
ॐ डक्कायै नमः ।
ॐ डक्केश्वर्यै नमः ।
ॐ डिम्भायै नमः ।
ॐ डवर्णाक्षरमातृकायै नमः ।
ॐ ढिण्यै नमः ।
ॐ ढेहायै नमः ।
ॐ ढिल्लहस्तायै नमः ।
ॐ ढकाराक्षरमातृकायै नमः ।
ॐ णेशायै नमः ।
ॐ णान्तायै नमः ।
ॐ णवर्गान्तायै नमः ।
ॐ णकाराक्षरभूषणायै नमः ।
ॐ तुर्यै नमः । ६२० ।

ॐ तुर्यायै नमः ।
ॐ तुलारूपायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ तामसप्रियायै नमः ।
ॐ तोतुलायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारायै नमः ।
ॐ सप्तविंशतिरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ ध्येयायै नमः ।
ॐ त्र्यम्बकेश्यै नमः ।
ॐ त्रिलोकधृते नमः ।
ॐ त्रिवर्गेश्यै नमः ।
ॐ त्रय्यै नमः ।
ॐ त्र्यक्ष्यै नमः ।
ॐ त्रिपदायै नमः ।
ॐ वेदरूपिण्यै नमः ।
ॐ त्रिलोकजनन्यै नमः ।
ॐ त्रात्रे नमः । ६४० ।

ॐ त्रिपुरेश्वरपूजितायै नमः ।
ॐ त्रिकोणस्थायै नमः ।
ॐ त्रिकोणेश्यै नमः ।
ॐ कोणत्रयनिवासिन्यै नमः ।
ॐ त्रिकोणपूजनतुष्टायै नमः ।
ॐ त्रिकोणपूजनश्रितायै नमः ।
ॐ त्रिकोणदानसंलग्नायै नमः ।
ॐ सर्वकोणशुभार्थदायै नमः ।
ॐ वसुकोणस्थितायै नमः ।
ॐ देव्यै नमः । –
ॐ वसुकोणार्थवादिन्यै नमः ।
ॐ वसुकोणपूजितायै नमः ।
ॐ षट्चक्रक्रमवासिन्यै नमः ।
ॐ नागपत्रस्थितायै नमः ।
ॐ शार्यै नमः ।
ॐ त्रिवृत्तपूजनार्थदायै नमः ।
ॐ चतुर्द्वाराग्रगायै नमः ।
ॐ चक्रबाह्यान्तरनिवासिन्यै नमः ।
ॐ तामस्यै नमः ।
ॐ तोमरप्रख्यायै नमः । ६६० ।

ॐ तुम्बुरुस्वननादिन्यै नमः ।
ॐ तुलाकोटिस्वनायै नमः ।
ॐ ताप्यै नमः ।
ॐ तपसां फलवर्धिन्यै नमः ।
ॐ तरलाक्ष्यै नमः ।
ॐ तमोहर्त्र्यै नमः ।
ॐ तारकासुरघातिन्यै नमः ।
ॐ तर्यै नमः ।
ॐ तरणिरूपायै नमः ।
ॐ तकाराक्षरमातृकायै नमः ।
ॐ स्थल्यै नमः ।
ॐ स्थविररूपायै नमः ।
ॐ स्थूलायै नमः ।
ॐ स्थाल्यै नमः ।
ॐ स्थलाब्जिन्यै नमः ।
ॐ स्थावरेशायै नमः ।
ॐ स्थूलमूख्यै नमः ।
ॐ थकाराक्षरमातृकायै नमः ।
ॐ दूतिकायै नमः ।
ॐ शिवदूत्यै नमः । ६८० ।

ॐ दण्डायुधधरायै नमः ।
ॐ द्युत्यै नमः ।
ॐ दयायै नमः ।
ॐ दीनानुकम्पायै नमः ।
ॐ दम्भोलिधरवल्लभायै नमः ।
ॐ देशानुचारिण्यै नमः ।
ॐ द्रेक्कायै नमः ।
ॐ द्राविडेश्यै नमः ।
ॐ दवीयस्यै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ द्रुमलतायै नमः ।
ॐ देवमात्रे नमः ।
ॐ अधिदेवतायै नमः ।
ॐ दधिजायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ देव्यै -? नमः ।
ॐ देवतायै नमः ।
ॐ परमाक्षरायै नमः ।
ॐ दामोदरसुपूज्यायै नमः ।
ॐ दामोदरवरप्रदायै नमः । ७०० ।

ॐ दनुपुत्र्यै नमः ।
ॐ विनाशायै नमः ।
ॐ दनुपुत्रकुलार्चितायै नमः ।
ॐ दण्डहस्तायै नमः ।
ॐ दण्डिपूज्यायै नमः ।
ॐ दमदायै नमः ।
ॐ दमस्थितायै नमः ।
ॐ दशधेनुसुरूपायै नमः ।
ॐ दकाराक्षरमातृकायै नमः ।
ॐ धर्म्यायै नमः ।
ॐ धर्मप्रसवे नमः ।
ॐ धन्यायै नमः ।
ॐ धनदायै नमः ।
ॐ धनवर्धिन्यै नमः ।
ॐ धृत्यै नमः ।
ॐ धूत्यै नमः ।
ॐ धूर्तायै नमः । –
ॐ धन्यवध्वै नमः ।
ॐ धकाराक्षरमातृकायै नमः ।
ॐ नलिन्यै नमः । ७२० ।

ॐ नालिकायै नमः ।
ॐ नाप्यायै नमः ।
ॐ नाराचायुधधारिण्यै नमः ।
ॐ नीपोपवनमध्यस्थायै नमः ।
ॐ नागरेश्यै नमः ।
ॐ नरोत्तमायै नमः ।
ॐ नरेश्वर्यै नमः ।
ॐ नृपाराध्यायै नमः ।
ॐ नृपपूज्यायै नमः ।
ॐ नृपार्थदायै नमः ।
ॐ नृपसेव्यायै नमः ।
ॐ नृपवन्द्यायै नमः ।
ॐ नरनारायणप्रसुवे नमः ।
ॐ नर्तक्यै नमः ।
ॐ नीरजाक्ष्यै नमः ।
ॐ नवर्णाक्षरभूषणायै नमः ।
ॐ पद्मेश्वर्यै नमः ।
ॐ पद्ममुख्यै नमः ।
ॐ पत्रयानायै नमः ।
ॐ परापरायै नमः । ७४० ।

ॐ पारावारसुतायै नमः ।
ॐ पाठायै नमः ।
ॐ परवर्गविमर्दिन्यै नमः ।
ॐ पुवे नमः ।
ॐ पुरारिवध्वै नमः ।
ॐ पम्पायै नमः ।
ॐ पत्न्यै नमः ।
ॐ पत्रीशवाहनायै नमः ।
ॐ पीवरांसायै नमः ।
ॐ पतिप्राणायै नमः ।
ॐ पीतलाक्ष्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ पीठायै नमः ।
ॐ पीठस्थितायै नमः ।
ॐ अपीठायै नमः ।
ॐ पीतालङ्कारभूषणायै नमः ।
ॐ पुरूरवःस्तुतायै नमः ।
ॐ पात्र्यै नमः ।
ॐ पुत्रिकायै नमः ।
ॐ पुत्रदायै नमः । ७६० ।

ॐ प्रजायै नमः ।
ॐ पुष्पोत्तंसायै नमः ।
ॐ पुष्पवत्यै नमः ।
ॐ पुष्पमालाविभूषणायै नमः ।
ॐ पुष्पमालातिशोभाढ्यायै नमः ।
ॐ पकाराक्षरमातृकायै नमः ।
ॐ फलदायै नमः ।
ॐ स्फीतवस्त्रायै नमः ।
ॐ फेरवारावभीषणायै नमः ।
ॐ फल्गुन्यै नमः ।
ॐ फल्गुतीर्थस्थायै नमः ।
ॐ फवर्णकृतमण्डलायै नमः ।
ॐ बलदायै नमः ।
ॐ बालखिल्यायै नमः ।
ॐ बालायै नमः ।
ॐ बलरिपुप्रियायै नमः ।
ॐ बाल्यावस्थायै नमः ।
ॐ बर्बरेश्यै नमः ।
ॐ बकाराकृतिमातृकायै नमः ।
ॐ भद्रिकायै नमः । ७८० ।

ॐ भीमपत्न्यै नमः ।
ॐ भीमायै नमः ।
ॐ भर्गशिखायै नमः ।
ॐ अभयायै नमः ।
ॐ भयघ्न्यै नमः ।
ॐ भीमनादायै नमः ।
ॐ भयानकमुखेक्षणायै नमः ।
ॐ भिल्लीश्वर्यै नमः ।
ॐ भीतिहरायै नमः ।
ॐ भद्रदायै नमः ।
ॐ भद्रकारिण्यै नमः ।
ॐ भद्रेश्वर्यै नमः ।
ॐ भद्रधरायै नमः ।
ॐ भद्राख्यायै नमः ।
ॐ भाग्यवर्धिन्यै नमः ।
ॐ भगमालायै नमः ।
ॐ भगावासायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवतारिण्यै नमः ।
ॐ भगयोन्यै नमः । ८०० ।

ॐ भगाकारायै नमः ।
ॐ भगस्थायै नमः ।
ॐ भगरूपिण्यै नमः ।
ॐ भगलिङ्गामृतप्रीतायै नमः ।
ॐ भकाराक्षरमातृकायै नमः ।
ॐ मान्यायै नमः ।
ॐ मानप्रदायै नमः ।
ॐ मीनायै नमः ।
ॐ मीनकेतनलालसायै नमः ।
ॐ मदोद्धतायै नमः ।
ॐ मदोद्धृतायै नमः । –
ॐ मनोन्मान्यायै नमः ।
ॐ मेनायै नमः ।
ॐ मैनाकवत्सलायै नमः ।
ॐ मधुमत्तायै नमः ।
ॐ मधुपूज्यायै नमः ।
ॐ मधुदायै नमः ।
ॐ मधुमाधव्यै नमः ।
ॐ मांसाहारायै नमः ।
ॐ मांसप्रीतायै नमः । ८२० ।

ॐ मांसभक्ष्यायै नमः ।
ॐ मांसदायै नमः ।
ॐ मारार्तायै नमः ।
ॐ मत्स्यरूपायै नमः ।
ॐ मत्स्यधात्रे नमः ।
ॐ महत्तरायै नमः ।
ॐ मेरुश‍ृङ्गाग्रतुङ्गास्यायै नमः ।
ॐ मोदकाहारपूजितायै नमः ।
ॐ मातङ्गिन्यै नमः ।
ॐ मधुमत्तायै नमः ।
ॐ मदमत्तायै नमः ।
ॐ मदेश्वर्यै नमः ।
ॐ मञ्जायै नमः ।
ॐ मज्जायै नमः । –
ॐ मुग्धाननायै नमः ।
ॐ मुग्धायै नमः ।
ॐ मकाराक्षरभूषणायै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ यतीशान्यै नमः ।
ॐ यत्नकर्त्र्यै नमः । ८४० ।

ॐ यजुःप्रियायै नमः ।
ॐ यज्ञधात्र्यै नमः ।
ॐ यज्ञफलायै नमः ।
ॐ यजुर्वेदऋचाम्फलायै नमः ।
ॐ यशोदायै नमः ।
ॐ यतिसेव्यायै नमः ।
ॐ यात्रायै नमः ।
ॐ यात्रिकवत्सलायै नमः ।
ॐ योगेश्वर्यै नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगेन्द्रजनवत्सलायै नमः ।
ॐ यदुपुत्र्यै नमः ।
ॐ यमघ्न्यै नमः ।
ॐ यकाराक्षरमातृकायै नमः ।
ॐ रत्नेश्वर्यै नमः ।
ॐ रमानाथसेव्यायै नमः ।
ॐ रथ्यायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ राज्यदायै नमः ।
ॐ राजराजेश्यै नमः । ८६० ।

ॐ रोगहर्त्र्यै नमः ।
ॐ रजोवत्यै नमः ।
ॐ रत्नाकरसुतायै नमः ।
ॐ रम्यायै नमः ।
ॐ रात्र्यै नमः ।
ॐ रात्रिपतिप्रभायै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ राक्षसेशान्यै नमः ।
ॐ रक्षोनाथसमर्चितायै नमः ।
ॐ रतिप्रियायै नमः ।
ॐ रतिमुख्यायै नमः ।
ॐ रकाराकृतिशेखरायै नमः ।
ॐ लम्बोदर्यै नमः ।
ॐ ललज्जिह्वायै नमः ।
ॐ लास्यतत्परमानसायै नमः ।
ॐ लूतातन्तुवितानास्यायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ लज्जायै नमः ।
ॐ लयालिन्यै नमः ।
ॐ लोकेश्वर्यै नमः । ८८० ।

ॐ लोकधात्र्यै नमः ।
ॐ लाटस्थायै नमः ।
ॐ लक्षणाकृत्यै नमः ।
ॐ लम्बायै नमः ।
ॐ लम्बकचोल्लासायै नमः ।
ॐ लकाराकारवर्धिन्यै नमः ।
ॐ लिङ्गेश्वर्यै नमः ।
ॐ लिङ्गलिङ्गायै नमः ।
ॐ लिङ्गमालायै नमः ।
ॐ लसद्द्युत्यै नमः ।
ॐ लक्ष्मीरूपायै नमः ।
ॐ रसोल्लासायै नमः ।
ॐ रामायै नमः ।
ॐ रेवायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ लयदायै नमः ।
ॐ लक्षणायै नमः ।
ॐ लोलायै नमः ।
ॐ लकाराक्षरमातृकायै नमः ।
ॐ वाराह्यै नमः । ९०० ।

ॐ वरदात्र्यै नमः ।
ॐ वीरसुवे नमः ।
ॐ वीरदायिन्यै नमः ।
ॐ वीरेश्वर्यै नमः ।
ॐ वीरजन्यायै नमः ।
ॐ वीरचर्वणचर्चितायै नमः ।
ॐ वरायुधायै नमः ।
ॐ वराकायै नमः ।
ॐ वामनायै नमः ।
ॐ वामनाकृतये नमः ।
ॐ वधूतायै नमः ।
ॐ वधकायै नमः ।
ॐ वध्यायै नमः ।
ॐ वध्यभुवे नमः ।
ॐ वाणिजप्रियायै नमः ।
ॐ वसन्तलक्ष्म्यै नमः ।
ॐ वटुक्यै नमः ।
ॐ वटुकायै नमः ।
ॐ वटुकेश्वर्यै नमः ।
ॐ वटुप्रियायै नमः । ९२० ।

ॐ वामनेत्रायै नमः ।
ॐ वामाचारैकलालसायै नमः ।
ॐ वार्तायै नमः ।
ॐ वाम्यायै नमः ।
ॐ वरारोहायै नमः ।
ॐ वेदमात्रे नमः ।
ॐ वसुन्धरायै नमः ।
ॐ वयोयानायै नमः ।
ॐ वयस्यायै नमः ।
ॐ वकाराक्षरमातृकायै नमः ।
ॐ शम्भुप्रियायै नमः ।
ॐ शरच्चर्यायै नमः ।
ॐ शाद्वलायै नमः ।
ॐ शशिवत्सलायै नमः ।
ॐ शीतद्युतये नमः ।
ॐ शीतरसायै नमः ।
ॐ शोणोष्ठ्यै नमः ।
ॐ शीकरप्रदायै नमः ।
ॐ श्रीवत्सलाञ्छनायै नमः ।
ॐ शर्वायै नमः । ९४० ।

ॐ शर्ववामाङ्गवासिन्यै नमः ।
ॐ शशाङ्कामललक्ष्म्यै नमः ।
ॐ शार्दूलतनवे नमः ।
ॐ अद्रिजायै नमः ।
ॐ शोषहर्त्र्यै नमः ।
ॐ शमीमूलायै नमः ।
ॐ शकाराकृतिशेखरायै नमः ।
ॐ षोडश्यै नमः ।
ॐ षोडशीरूपायै नमः ।
ॐ षढायै नमः ।
ॐ षोढायै नमः ।
ॐ षडाननायै नमः ।
ॐ षट्कूटायै नमः ।
ॐ षड्रसास्वादायै नमः ।
ॐ षडशीतिमुखाम्बुजायै नमः ।
ॐ षडास्यजनन्यै नमः ।
ॐ षष्ठायै नमः ।
ॐ षण्ठायै नमः । –
ॐ षवर्णाक्षरमातृकायै नमः ।
ॐ सारस्वतप्रसुवे नमः । ९६० ।

ॐ सर्वायै नमः ।
ॐ सर्वगायै नमः ।
ॐ सर्वतोमुखायै नमः ।
ॐ समायै नमः ।
ॐ सीतायै नमः ।
ॐ सत्यै नमः ।
ॐ मात्रे नमः ।
ॐ सागराभयदायिन्यै नमः ।
ॐ समस्तशापशमन्यै नमः ।
ॐ सालभञ्ज्यै नमः ।
ॐ सुदक्षिणायै नमः ।
ॐ सुषुप्त्यै नमः ।
ॐ सुरसायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सामगायै नमः ।
ॐ सामवेदजायै नमः ।
ॐ सत्यप्रियायै नमः ।
ॐ सोममुख्यै नमः ।
ॐ सूत्रस्थायै नमः ।
ॐ सूतवल्लभायै नमः । ९८० ।

ॐ सनकेश्यै नमः ।
ॐ सुनन्दायै नमः ।
ॐ स्ववर्गस्थायै नमः ।
ॐ सनातन्यै नमः ।
ॐ सेतुभूतायै नमः ।
ॐ समस्ताशायै नमः ।
ॐ सकाराक्षरवल्लभायै नमः ।
ॐ हालाहलप्रियायै नमः ।
ॐ हेलायै नमः ।
ॐ हाहारावविभूषणायै नमः ।
ॐ हाहाहूहूस्वरूपायै नमः ।
ॐ हलधात्र्यै नमः ।
ॐ हलिप्रियायै नमः ।
ॐ हरिनेत्रायै नमः ।
ॐ घोररूपायै नमः ।
ॐ हविष्याहुतिवल्लभायै नमः ।
ॐ हं क्षं लं क्षः स्वरूपायै नमः ।
ॐ सर्वमातृकपूजितायै नमः ।
ॐ ॐ ऐं सौः ह्रीं महाविद्यायै नमः ।
ॐ आं शां फ्रां हूं स्वरूपिण्यै नमः । १००० ।

इति श्रीशारिकासहस्रनामावलिः सम्पूर्णा ॥

इति श्रीशारिकादेव्या मन्त्रनामसहस्रकम् ॥

॥ फल श्रुति ॥

पुण्यं पुण्यजनस्तुत्यं नुत्यं वैष्णवपूजितम् ।
इदं यः पठते देवि श्रावयेद्यः श‍ृणोति च ॥ १ ॥

स एव भगवान् देवः सत्यं सत्यं सुरेश्वरि ।
एककालं द्विकालं वा त्रिकालं पठते नरः ॥ २ ॥

वामाचारपरो देवि तस्य पुण्यफलं श‍ृणु ।
मूकत्वं बधिरत्वं च कुष्ठं हन्याच्च श्वित्रिकाम् ॥ ३ ॥

वातपित्तकफान् गुल्मान् रक्तस्रावं विषूचिकाम् ।
सद्यः शमयते देवि श्रद्धया यः पठेन्निशि ॥ ४ ॥

अपस्मारं कर्णपीडां शूलं रौद्रं भगन्दरम् ।
मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम् ॥ ५ ॥

भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि ।
सद्यस्तस्य महेशानि शारिका वरदा भवेत् ॥ ६ ॥

चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिव्यत्यये ।
दत्त्वा बलिं सुरां मुद्रां मत्स्यं मांसं सभक्तकम् ॥ ७ ॥

वब्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविप्यति ।
यः पठेद्देवि लोलायां चितायां शवसन्निधौ ॥ ८ ॥

पायम्पायं त्रिवारं तु तस्य पुण्यफलं श‍ृणु ।
ब्रह्महत्यां गुरोर्हत्यां मद्यपानं च गोवधम् ॥ ९ ॥

महापातकसङ्घातं गुरुतल्पगतोद्भवम् ।
स्तेयं वा भ्रूणहत्यां वा नाशयेन्नात्र संशयः ॥ १० ॥

स एव हि रमापुत्रो यशस्वी लोकपूजितः ।
वरदानक्षमो देवि वीरेशो भूतवल्लभः ॥ ११ ॥

चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ ।
त्रिवारं श्रद्धया युक्तः स भवेद्भैरवेश्वरः ॥ १२ ॥

किङ्किं न लभते देवि साधको वीरसाधकः ।
पुत्रवान् धनवांश्चैव सत्याचारपरः शिवे ॥ १३ ॥

शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं परामयम् ।
इह लोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ १४ ॥

इति नामसहस्रं तु शारिकाया मनोरमम् ।
गुह्याद्गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ १५ ॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीशारिकायाः सहस्रनामावलिः समाप्ता ॥

Also Read 1000 Names of Sri Sharika Stotram:

Sri Sharika | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharika | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top