Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 2 Lyrics in Hindi

Shri Vasavi Devi Sahasranamastotram 2 Lyrics in Hindi:

॥ श्रीवासविदेवीसहस्रनामस्तोत्रम् २ ॥
ध्यानम् –
ओङ्कारबीजाक्षरीं ह्रीङ्कारीं श्रीमद्वासवी कन्यकापरमेश्वरीं
घनशैलपुराधीश्वरीं कुसुमाम्बकुसुमश्रेष्ठिप्रियकुमारीम् ।
विरूपाक्षदिव्यसोदरीं अहिंसाज्योतिरूपिणीं कलिकालुष्यहारिणीं
सत्यज्ञानानन्दशरीरिणीं मोक्षपथदर्शिनीं
नादबिन्दुकलातीतजगज्जननीं त्यागशीलव्रतां
नित्यवैभवोपेतां परदेवतां तां नमाम्यहम् सर्वदा ध्यायाम्यहम् ॥

अथ श्रीवासविदेवीसहस्रनामस्तोत्रम् ।

ॐ श्रीवासवी विश्वजननी विश्वलीलाविनोदिनी ।
श्रीमाता विश्वम्भरी वैश्यवंशोद्धारिणी ॥ १ ॥

कुसुमदम्पतिनन्दिनी कामितार्थप्रदायिनी ।
कामरूपा प्रेमदीपा कामक्रोधविनाशिनी ॥ २ ॥

पेनुगोण्डक्षेत्रनिलया पराशक्यवतारिणी ।
पराविद्या परञ्ज्योतिः देहत्रयनिवासिनी ॥ ३ ॥

वैशाखशुद्ददशमीभृगुवासरजन्मधारिणी ।
विरूपाक्षप्रियभगिनी विश्वरूपप्रदर्शिनी ॥ ४ ॥

पुनर्वसुतारायुक्तशुभलग्नावतारिणी ।
प्रणवरूपा प्रणवाकारा जीवकोटिशुभकारिणी ॥ ५ ॥

त्यागसिंहासनारूढा तापत्रयसुदूरिणी ।
तत्त्वार्थचिन्तनशीला तत्त्वज्ञानप्रबोधिनी ॥ ६ ॥

अध्यात्मज्ञानविज्ञाननिधिर्महत्साधनाप्रिया ।
अध्यात्मज्ञानविद्यार्थियोगक्षेमवहनप्रिया ॥ ७ ॥

साधकान्तःकरणमथनी रागद्वेषविदूरिणी ।
सर्वसाधकसञ्जीविनी सर्वदा मोदकारिणी ॥ ८ ॥

स्वतन्त्रधारिणी रम्या सर्वकालसुपूजिता ।
स्वस्वरूपानन्दमग्ना साधुजनसमुपासिता ॥ ९ ॥

विद्यादाता सुविख्याता ज्ञानिजनपरिषोषिणी ।
वैराग्योल्लासनप्रीता भक्तशोधनतोषिणी ॥ १० ॥

सर्वकार्यसिद्धिदात्री उपासकसङ्कर्षिणी ।
सर्वात्मिका सर्वगता धर्ममार्गप्रदर्शिनी ॥ ११ ॥

गुणत्रयमयी देवी सुराराध्यासुरान्तका ।
गर्वदूरा प्रेमाधारा सर्वमन्त्रतन्त्रात्मिका ॥ १२ ॥

विज्ञानतन्त्रसञ्चालितयन्त्रशक्तिविवर्धिनी ।
विज्ञानपूर्णवेदान्तसारामृताभिवर्षिणी ॥ १३ ॥

भवपङ्कनित्यमग्नसाधकसुखकारिणी ।
भद्रकर्तावेशशमनी त्यागयात्रार्थिपालिनी ॥ १४ ॥

बुधवन्द्या बुद्धिरूपा कन्याकुमारी श्रीकरी ।
भास्कराचार्याप्तशिष्या मौनव्रतरक्षाकरी ॥ १५ ॥

काव्यनाट्यगानशिल्पचित्रनटनप्रमोदिनी ।
कायक्लेशभयालस्यनिरोधिनी पथदर्शिनी ॥ १६ ॥

भावपुष्पार्चनप्रीता सुरासुरपरिपालिनी ।
बाह्यान्तरशुद्धिनिष्ठदेहस्वास्थ्यसंरक्षिणी ॥ १७ ॥

जन्ममृत्युजराजाड्यायातनापरिहारिणी ।
जीवजीवभेदभावदूरिणी सुममालिनी ॥ १८ ॥

चतुर्दशभुवनैकाधीश्वरी राजेश्वरी ।
चराचरजगन्नाटकसूत्रधारिणी कलाधरी ॥ १९ ॥

ज्ञाननिधिः ज्ञानदायी परापराविद्याकरी ।
ज्ञानविज्ञानानुभूतिकारिणी निष्ठाकरी ॥ २० ॥

चतुर्वैदज्ञानजननी चतुर्विद्याविनोदिनी ।
चतुष्षष्ठिकलापूर्णा रसिकसुजनाकर्षिणी ॥ २१ ॥

भूम्याकाशवायुरग्निजलेश्वरी माहेश्वरी ।
भव्यदेवालयप्रतिष्ठितचारुमूर्तिः अभयङ्करी ॥ २२ ॥

भूतग्रामसृष्टिकर्त्री शक्तिज्ञानप्रदायिनी ।
भोगैश्वर्यदाहहन्त्री नीतिमार्गप्रदर्शिनी ॥ २३ ॥

दिव्यगात्री दिव्यनेत्री दिव्यचक्षुदा शोभना ।
दिव्यमाल्याम्बरधरी दिव्यगन्धसुलेपना ॥ २४ ॥

सुवेषालङ्कारप्रीता सुप्रिया प्रभावती ।
सुमतिदाता सुमनत्राता सर्वदा तेजोवती ॥ २५ ॥

चाक्षुषज्योतिप्रकाशा ओजसज्योतिप्रकाशिनी ।
भास्वरज्योतिप्रज्ज्वलिनी तैजसज्योतिरूपिणी ॥ २६ ॥

अनुपमानन्दाश्रुकरी अतिलोकसौन्दर्यवती ।
असीमलावण्यवती निस्सीममहिमावती ॥ २७ ॥

तत्त्वाधारा तत्त्वाकारा तत्त्वमयी सद्रूपिणी ।
तत्त्वासक्ता तत्त्ववेत्ता चिदानन्दस्वरूपिणी ॥ २८ ॥

आपत्समयसन्त्राता आत्मस्थैर्यप्रदायिनी ।
आत्मज्ञानसम्प्रदाता आत्मबुद्धिप्रचोदिनी ॥ २९ ॥

जननमरणचक्रनाथा जीवोत्कर्षकारिणी ।
जगद्रूपा जगद्रक्षा जपतपध्यानतोषिणी ॥ ३० ॥

पञ्चयज्ञार्चिता वरदा स्वार्थवृक्षकुठारिका ।
पञ्चकोशान्तर्निकेतना पञ्चक्लेशाग्निशामका ॥ ३१ ॥

त्रिसन्ध्यार्चितगायत्री मानिनी त्रिमलनाशिनी ।
त्रिवासनारहिता सुमती त्रितनुचेतनकारिणी ॥ ३२ ॥

महावात्सल्यपुष्करिणी शुकपाणी सुभाषिणी ।
महाप्राज्ञबुधरक्षिणी शुकवाणी सुहासिनी ॥ ३३ ॥

द्युत्तरशतहोमकुण्डदिव्ययज्ञसुप्रेरका ।
ब्रह्मकुण्डादिसुक्षेत्रपरिवेष्टितपीठिका ॥ ३४ ॥

द्युत्तरशतलिङ्गान्वितज्येष्ठशैलपुरीश्वरी ।
द्युत्तरशतदम्पतीजनानुसृता निरीश्वरी ॥ ३५ ॥

त्रितापसन्त्रस्तावनी लताङ्गी तमध्वंसिनी ।
त्रिजगद्वन्द्यजननी त्रिदोषापहारिणी ॥ ३६ ॥

शब्दार्थध्वनितोषिणी काव्यकर्मविनोदिनी ।
शिष्टप्रिया दुष्टदमनी कष्टनष्टविदूरिणी ॥ ३७ ॥

जाग्रत्स्वप्नसृष्टिलीलामग्नचित्तज्ञानोदया ।
जन्मरोगवैद्योत्तमा सर्वमतकुलवर्णाश्रया ॥ ३८ ॥

कामपीडितविष्णुवर्धनमोहाक्रोशिनी विरागिणी ।
कृपावर्षिणी विरजा मोहिनी बालयोगिनी ॥ ३९ ॥

कवीन्द्रवर्णनावेद्या वर्णनातीतरूपिणी ।
कमनीया दयाहृदया कर्मफलप्रदायिनी ॥ ४० ॥

शोकमोहाधीनसाधकवृन्दनित्यपरिरक्षिणी ।
षोडशोपचारपूज्या ऊर्ध्वलोकसञ्चारिणी ॥ ४१ ॥

भीतिभ्रान्तिविनिर्मुक्ता ध्यानगम्या लोकोत्तरा ।
ब्रह्मविष्णुशिवस्वरूपसद्गुरुवचनतत्परा ॥ ४२ ॥

अवस्थात्रयनिजसाक्षिणी सद्योमुक्तिप्रसादिनी ।
अलौकिकमाधुर्ययुतसूक्तिपीयूषवर्षिणी ॥ ४३ ॥

धर्मनिष्ठा शीलनिष्ठा धर्माचरणतत्परा ।
दिव्यसङ्कल्पफलदात्री धैर्यस्थैर्यरत्नाकरा ॥ ४४ ॥

पुत्रकामेष्टियागानुग्रहसत्फलरूपिणी ।
पुत्रमित्रबन्धुमोहदूरिणी मैत्रिमोदिनी ॥ ४५ ॥

चारुमानुषविग्रहरूपधारिणी सुरागिणी ।
चिन्तामणिगृहवासिनी चिन्ताजाड्यप्रशमनी ॥ ४६ ॥

जीवकोटिरक्षणपरा विद्वज्ज्योतिप्रकाशिनी ।
जीवभावहरणचतुरा हंसिनी धर्मवादिनी ॥ ४७ ॥

भक्ष्यभोज्यलेह्यचोष्यनिवेदनसंहर्षिणी ।
भेदरहिता मोदसहिता भवचक्रप्रवर्तिनी ॥ ४८ ॥

हृदयगुहान्तर्यामिनी सहृदयसुखवर्धिनी ।
हृदयदौर्बल्यविनाशिनी समचित्तप्रसादिनी ॥ ४९ ॥

दीनाश्रया दीनपूज्या दैन्यभावविवर्जिता ।
दिव्यसाधनसम्प्राप्तदिव्यशक्तिसमन्विता ॥ ५० ॥

छलशक्तिदायिनी वन्द्या धीरसाधकोद्धारिणी ।
छलद्वेषवर्जितात्मा योगिमुनिसंरक्षिणी ॥ ५१ ॥

ब्रह्मचर्याश्रमपरा गृहस्थाश्रममोदिनी ।
वानप्रस्थाश्रमरक्षिणी सन्न्यासाश्रमपावनी ॥ ५२ ॥

महातपस्विनी शुभदा महापरिवर्तनाकरा ।
महत्वाकाङ्क्षप्रदात्री महाप्राज्ञाजितामरा ॥ ५३ ॥

योगाग्निशक्तिसम्भूता शोकशामकचन्द्रिका ।
योगमाया कन्या विनुता ज्ञाननौकाधिनायिका ॥ ५४ ॥

देवर्षिराजर्षिसेव्या दिविजवृन्दसम्पूजिता ।
ब्रह्मर्षिमहर्षिगणगम्या ध्यानयोगसंहर्षिता ॥ ५५ ॥

उरगहारस्तुतिप्रसन्ना उरगशयनप्रियभगिनी ।
उरगेन्द्रवर्णितमहिमा उरगाकारकुण्डलिनी ॥ ५६ ॥

परम्परासम्प्राप्तयोगमार्गसञ्चालिनी ।
परानादलोला विमला परधर्मभयदूरिणी ॥ ५७ ॥

पद्मशयनचक्रवर्तिसुतराजराजेन्द्रश्रिता ।
पञ्चबाणचेष्टदमनी पञ्चबाणसतिप्रार्थिता ॥ ५८ ॥

सौम्यरूपा मधुरवाणी महाराज्ञी निरामयी ।
सुज्ञानदीपाराधिता समाधिदर्शितचिन्मयी ॥ ५९ ॥

सकलविद्यापारङ्गता अध्यात्मविद्याकोविदा ।
सर्वकलाध्येयान्विता श्रीविद्याविशारदा ॥ ६० ॥

ज्ञानदर्पणात्मद्रष्टा कर्मयोगिद्रव्यार्चिता ।
यज्ञशिष्टाशिनपावनी यज्ञतपोऽनवकुण्ठिता ॥ ६१ ॥

सृजनात्मकशक्तिमूला काव्यवाचनविनोदिनी ।
रचनात्मकशक्तिदाता भवननिकेतनशोभिनी ॥ ६२ ॥

ममताहङ्कारपाशविमोचनी धृतिदायिनी ।
महाजनसमावेष्टितकुसुमश्रेष्ठिहितवादिनी ॥ ६३ ॥

स्वजनानुमोदसहितत्यागक्रान्तियोजनकरी ।
स्वधर्मनिष्ठासिध्यर्थकृतकर्मशुभङ्करी ॥ ६४ ॥

कुलबान्धवजनाराध्या परन्धामनिवासिनी ।
कुलपावनकरत्यागयोगदर्शिनी प्रियवादिनी ॥ ६५ ॥

धर्मजिज्ञासानुमोदिन्यात्मदर्शनभाग्योदया ।
धर्मप्रिया जया विजया कर्मनिरतज्ञानोदया ॥ ६६ ॥

नित्यानन्दासनासीना शक्तिभक्तिवरदायिनी ।
निग्रहापरिग्रहशीला आत्मनिष्ठाकारिणी ॥ ६७ ॥

तारतम्यभेदरहिता सत्यसन्धा नित्यव्रता ।
त्रैलोक्यकुटुम्बमाता सम्यग्दर्शनसंयुता ॥ ६८ ॥

अहिंसाव्रतदीक्षायुता लोककण्टकदैत्यापहा ।
अल्पज्ञानापायहारिणी अर्थसञ्चयलोभापहा ॥ ६९ ॥

प्रेमप्रीता प्रेमसहिता निष्कामसेवाप्रिया ।
प्रेमसुधाम्बुधिलीनभक्तचित्तनित्यालया ॥ ७० ॥

मोघाशादुःखदायी अमोघज्ञानदायिनी ।
महाजनबुद्दिभेदजनकबोधक्रमवारिणी ॥ ७१ ॥

सात्त्विकान्तःकरणवासा राजसहृत्क्षोभिणी ।
तामसजनशिक्षणेष्टा गुणातीता गुणशालिनी ॥ ७२ ॥

गौरवबालिकावृन्दनायिका षोडशकलात्मिका ।
गुरुशुश्रूषापरायणनित्यध्येया त्रिगुणात्मिका ॥ ७३ ॥

जिज्ञासातिशयज्ञाता अज्ञानतमोनाशिनी ।
विज्ञानशास्त्रातीता ज्ञातृज्ञेयस्वरूपिणी ॥ ७४ ॥

सर्वाधिदेवताजननी नैष्कर्म्यसिद्धिकारिणी ।
सर्वाभीष्टदा सुनयनी नैपुण्यवरदायिनी ॥ ७५ ॥

गुणकर्मविभागानुसारवर्णविधायिनी ।
गुरुकारुण्यप्रहर्षिता नलिनमुखी निरञ्जनी ॥ ७६ ॥

जातिमतद्वेषदूरा मनुजकुलहितकामिनी ।
ज्योतिर्मयी जीवदायी प्रज्ञाज्योतिस्वरूपिणी ॥ ७७ ॥

कर्मयोगमर्मवेत्ता भक्तियोगसमुपाश्रिता ।
ज्ञानयोगप्रीतचित्ता ध्यानयोगसुदर्शिता ॥ ७८ ॥

स्वात्मार्पणसन्तुष्टा शरणभृङ्गसुसेविता ।
स्वर्णवर्णा सुचरितार्था करणसङ्गत्यागव्रता ॥ ७९ ॥

आद्यन्तरहिताकारा अध्ययनलग्नमानसा ।
असदृशमहिमोपेता अभयहस्ता मृदुमानसा ॥ ८० ॥

उत्तमोत्तमगुणाःपूर्णा उत्सवोल्लासरञ्जनी ।
उदारतनुविच्छिन्नप्रसुप्तसंस्कारतारिणी ॥ ८१ ॥

गुणग्रहणाभ्यासमूला एकान्तचिन्तनप्रिया ।
गहनब्रह्मतत्त्वलोला एकाकिनी स्तोत्रप्रिया ॥ ८२ ॥

वसुधाकुटुम्बरक्षिणी सत्यरूपा महामतिः ।
वर्णशिल्पिनी निर्भवा भुवनमङ्गलाकृतिः ॥ ८३ ॥

शुद्धबुद्दिस्वयंवेद्या शुद्धचित्तसुगोचरा ।
शुद्धकर्माचरणनिष्ठसुप्रसन्ना बिम्बाधरा ॥ ८४ ॥

नवग्रहशक्तिदा गूढतत्त्वप्रतिपादिनी ।
नवनवानुभावोदया विश्वज्ञा श‍ृतिरूपिणी ॥ ८५ ॥

आनुमानिकगुणातीता सुसन्देशबोधाम्बुधिः ।
आनृण्यजीवनदात्री ज्ञानैश्वर्यमहानिधिः ॥ ८६ ॥

वाग्वैखरीसंयुक्ता दयासुधाभिवर्षिणी ।
वाग्रूपिणी वाग्विलासा वाक्पटुत्वप्रदायिनी ॥ ८७ ॥

इन्द्रचापसदृशभूः दाडिमीद्विजशोभिनी ।
इन्द्रियनिग्रहछलदा सुशीला स्तवरागिणी ॥ ८८ ॥

षट्चक्रान्तरालस्था अरविन्ददललोचना ।
षड्वैरिदमनबलदा माधुरी मधुरानना ॥ ८९ ॥

अतिथिसेवापरायणधनधान्यविवर्धिनी ।
अकृत्रिममैत्रिलोला वैष्णवी शास्त्ररूपिणी ॥ ९० ॥

मन्त्रक्रियातपोभक्तिसहितार्चनाह्लादिनी ।
मल्लिकासुगन्धराजसुममालिनी सुरभिरूपिणी ॥ ९१ ॥

कदनप्रियदुष्टमर्दिनी वन्दारुजनवत्सला ।
कलहाक्रोशनिवारिणी खिन्ननाथा निर्मला ॥ ९२ ॥

अङ्गपूजाप्रियद्युतिवर्धिनी पावनपदद्वयी ।
अनायकैकनायिका लतासदृशभुजद्वये ॥ ९३ ॥

श‍ृतिलयबद्दगानज्ञा छन्दोबद्धकाव्याश्रया ।
श‍ृतिस्मृतिपुराणेतिहाससारसुधाव्यया ॥ ९४ ॥

उत्तमाधमभेददूरा भास्कराचार्यसन्नुता ।
उपनयनसंस्कारपरा स्वस्था महात्मवर्णिता ॥ ९५ ॥

षड्विकारोपेतदेहमोहहरा सुकेशिनी ।
षडैश्वर्यवती ज्यैष्ठा निर्द्वन्द्वा द्वन्द्वहारिणी ॥ ९६ ॥

दुःखसंयोगवियोगयोगाभ्यासानुरागिणी ।
दुर्व्यसनदुराचारदूरिणी कौसुम्भिनन्दिनी ॥ ९७ ॥

मृत्युविजयकातरासुरशिक्षकी शिष्टरक्षकी ।
मायापूर्णविश्वकर्त्री निवृत्तिपथदर्शकी ॥ ९८ ॥

प्रवृत्तिपथनिर्दैशकी पञ्चविषयस्वरूपिणी ।
पञ्चभूतात्मिका श्रेष्ठा तपोनन्दनचारिणी ॥ ९९ ॥

चतुर्युक्तिचमत्कारा राजप्रासादनिकेतना ।
चराचरविश्वाधारा भक्तिसदना क्षमाघना ॥ १०० ॥

किङ्कर्तव्यमूढसुजनोद्दारिणी कर्मचोदिनी ।
कर्माकर्मविकर्मानुसारबुद्धिप्रदायिनी ॥ १०१ ॥

नवविधभक्तिसम्भाव्या नवद्वारपुरवासिनी ।
नवरात्यार्चनप्रीता जगद्धात्री सनातनी ॥ १०२ ॥

विषसममादकद्रव्यसेवनार्थिभयङ्करी ।
विवेकवैराग्ययुक्ता हीङ्कारकल्पतरुवल्लरी ॥ १०३ ॥

निमन्त्रणनियन्त्रणकुशला प्रीतियुक्तश्रमहारिणी ।
निश्चिन्तमानसोपेता क्रियातन्त्रप्रबोधिनी ॥ १०४ ॥

रसिकरञ्जककलाह्लादा शीलराहित्यद्देषिणी ।
त्रिलोकसाम्राज्ञी स्फुरणशक्तिसंवर्धिनी ॥ १०५ ॥

चित्तस्थैर्यकरी महेशी शाश्वती नवरसात्मिका ।
चतुरन्तःकरणज्योतिरूपिणी तत्त्वाधिका ॥ १०६ ॥

सर्वकालाद्वैतरूपा शुद्धचित्तप्रसादिनी ।
सर्वावस्थान्तर्साक्षिणी परमार्थसन्न्यासिनी ॥ १०७ ॥

आबालगोपसमर्चिता हृत्सरोवरहंसिका ।
अदम्यलोकहितनिरता जङ्गमस्थवरात्मिका ॥ १०८ ॥

ह्रीङ्कारजपसुप्रीता दीनमाताधीनेन्द्रिया ।
ह्रीमयी दयाधना आर्यवैश्ययशोदया ॥ १०९ ॥

स्थितप्रज्ञा विगतस्पृहा पराविद्यास्वरूपिणी ।
सर्वावस्थास्मरणप्रदा सगुणनिर्गुणरूपिणी ॥ ११० ॥

अष्टैश्वर्यसुखदात्री कृतपुण्यफलदायिनी ।
अष्टकष्टनष्टहन्त्री भक्तिभावतरङ्गिणी ॥ १११ ॥

ऋणमुक्तदानप्रिया ब्रह्मविद्या ज्ञानेश्वरी ।
पूर्णत्वाकाङ्क्षिसम्भाव्या तपोदानयज्ञेश्वरी ॥ ११२ ॥

त्रिमूर्तिरूपसद्गुरुभक्तिनिष्ठा ब्रह्माकृतिः ।
त्रितनुबन्धपरिपालिनी सत्यशिवसुन्दराकृतिः ॥ ११३ ॥

अस्त्रमन्त्ररहस्यज्ञा भैरवी शस्त्रवर्षिणी ।
अतीन्द्रियशक्तिप्रपूर्णा उपासकबलवर्धिनी ॥ ११४ ॥

अङ्गन्यासकरन्याससहितपारायणप्रिया ।
आर्षसंस्कृतिसंरक्षणव्रताश्रया महाभया ॥ ११५ ॥

साकारा निराकारा सर्वानन्दप्रदायिनी ।
सुप्रसन्ना चारुहासा नारीस्वातन्त्र्यरक्षिणी ॥ ११६ ॥

निस्वार्थसेवासन्निहिता कीर्तिसम्पत्पदायिनी ।
निरालम्बा निरुपाधिका निराभरणभूषिणी ॥ ११७ ॥

पञ्चक्लेशाधीनसाधकरक्षणशिक्षणतत्परा ।
पाञ्चभौतिकजगन्मूला अनन्यभक्तिसुगोचरा ॥ ११८ ॥

पञ्चज्ञानेन्द्रियभाव्या परात्परा परदेवता ।
पञ्चकर्मेन्द्रियबलदा कन्यका सुगुणसुमार्चिता ॥ ११९ ॥

चिन्तनव्रता मन्थनरता अवाङ्मानसगोचरा ।
चिन्ताहारिणी चित्प्रभा सप्तर्षिध्यानगोचरा ॥ १२० ॥

हरिहरब्रह्मप्रसूः जननमरणविवर्जिता ।
हासस्पन्दनलग्नमानसस्नेहभावसम्भाविता ॥ १२१ ॥

पद्मवेदवरदाभयमुद्राधारिणी श्रितावनी ।
परार्थविनियुक्तबलदा ज्ञानभिक्षाप्रदायिनी ॥ १२२ ॥

विनता सङ्कल्पयुता अमला विकल्पवर्जिता ।
वैराग्यज्ञानविज्ञानसम्पद्दानविराजिता ॥ १२३ ॥

स्त्रीभूमिसुवर्णदाहतप्तोपरतिशमापहा ।
सामरस्यसंहर्षिता सरसविरससमदृष्टिदा ॥ १२४ ॥

ज्ञानवह्निदग्धकर्मब्रह्मसंस्पर्शकारिणी ।
ज्ञानयोगकर्मयोगनिष्ठाद्वयसमदर्शिनी ॥ १२५ ॥

महाधन्या कीर्तिकन्या कार्यकारणरूपिणी ।
महामाया महामान्या निर्विकारस्वरूपिणी ॥ १२६ ॥

निन्दास्तुतिलाभनष्टसमदर्शित्वप्रदायिनी ।
निर्ममा मनीषिणी सप्तधातुसंयोजनी ॥ १२७ ॥

नित्यपुष्टा नित्यतुष्टा मैत्रिबन्धोल्लासिनी ।
नित्यैश्वर्या नित्यभोगा स्वाध्यायप्रोल्लासिनी ॥ १२८ ॥

प्रारब्दसञ्चितागामीकर्मराशिदहनकरी ।
प्रातःस्मरणीयानुत्तमा फणिवेणी कनकाम्बरी ॥ १२९ ॥

सप्तधातुर्मयशरीररचनकुशला निष्कला ।
सप्तमातृकाजनयित्री निरपाया निस्तुला ॥ १३० ॥

इन्द्रियचाञ्चल्यदूरा जितात्मा ब्रह्मचारिणी ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनियन्त्रिणी ॥ १३१ ॥

धर्मावलम्बनमुदिता धर्मकार्यप्रचोदिनी ।
द्वेषरहिता द्वेषदूरा धर्माधर्मविवेचनी ॥ १३२ ॥

ऋतशक्तिः ऋतुपरिवर्तिनी भुवनसुन्दरी शीतला ।
ऋषिगणसेविताङ्घ्री ललितकलावनकोकिला ॥ १३३ ॥

सर्वसिद्धसाध्याराध्या मोक्षरूपा वाग्देवता ।
सर्वस्वरवर्णमाला समस्तभाषाधिदेवता ॥ १३४ ॥

वामपथगामीसाधकहिंसाहारिणी नन्दिता ।
दक्षिणपथगामीसाधकदयागुणपरिसेविता ॥ १३५ ॥

नामपारायणतुष्टा आत्मबलविवर्धिनी ।
नादजननी नादलोला दशनादमुददायिनी ॥ १३६ ॥

शास्त्रोक्तविधिपरिपालिनी भक्तिभुक्तिपथदर्शिनी ।
शास्त्रप्रमाणानुसारिणी शाम्भवी ब्रह्मवादिनी ॥ १३७ ॥

श्रवणमनननिधिध्यासनिरतसन्निहिताजरा ।
श्रीकान्तब्रह्मशिवरूपा भुवनैकदीपाङ्कुरा ॥ १३८ ॥

विद्वज्जनधीप्रकाशा सप्तलोकसञ्चारिणी ।
विद्वन्मणी द्युतिमती दिव्यस्फुरणसौधामिनी ॥ १३९ ॥

विद्यावर्धिनी रसज्ञा विशुद्धात्मासेवार्चिता ।
ज्ञानवर्धिनी सर्वज्ञा सर्वविद्याक्षेत्राश्रिता ॥ १४० ॥

विधेयात्यायोगमार्गदर्शिनी धृतिवर्धिनी ।
विविधयज्ञदानतपोकारिणी पुण्यवर्धिनी ॥ १४१ ॥

अनन्यभक्तिक्षिप्रवश्या उदयभानुकोटिप्रभा ।
अष्टाङ्गयोगानुरक्ता अद्वैता स्वयम्प्रभा ॥ १४२ ॥

गोष्ठिप्रिया वैरजडताहारिणी विनतावनी ।
गुह्यतमसमाधिमग्नयोगिराजसम्भाषिणी ॥ १४३ ॥

सर्वलोकसम्भाविता सदाचारप्रवर्तिनी ।
सर्वपुण्यतीर्थात्मिका सत्कर्मफलदायिनी ॥ १४४ ॥

कर्तृतन्त्रपूजाश्रिता वस्तुतन्त्रतत्त्वात्मिका ।
करणत्रयशुद्धिप्रदा सर्वभूतव्यूहाम्बिका ॥ १४५ ॥

मोहालस्यदीर्घसूत्रतापहा सत्त्वप्रदा ।
मानसाश्ववेगरहितजपयज्ञमोदास्पदा ॥ १४६ ॥

जाग्रत्स्वप्नसुषुप्तिस्था विश्वतैजसप्राज्ञात्मिका ।
जीवन्मुक्तिप्रसादिनी तुरीया सार्वकालिका ॥ १४७ ॥

शब्दस्पर्शरूपगन्धरसविषयपञ्चकव्यापिनी ।
सोहंमन्त्रयुतोच्छवासनिश्वासानन्दरूपिणी ॥ १४८ ॥

भूतभविष्यद्वर्तमानज्ञा पुराणी विश्वाधिका ।
ब्राह्मीस्थितिप्राप्तिकरी आत्मरूपाभिज्ञापका ॥ १४९ ॥

योगिजनपर्युपास्या अपरोक्षज्ञानोदया ।
यक्षकिम्पुरुषसम्भाव्या विश‍ृङ्खला धर्मालया ॥ १५० ॥

अस्वस्थदेहिसंस्मरणप्रसन्ना वरदायिनी ।
अस्वस्थचित्तशान्तिदायी समत्वबुद्दिवरदायिनी ॥ १५१ ॥

प्रासानुप्रासविनोदिनी सृजनकर्मविलासिनी ।
पञ्चतन्मात्राजननी कल्पनासुविहारिणी ॥ १५२ ॥

ओङ्कारनादानुसन्धाननिष्ठाकरी प्रतिभान्विता ।
ओङ्कारबीजाक्षररूपा मनोलयप्रहर्षिता ॥ १५३ ॥

ध्यानजाह्नवी वणिक्कन्या महापातकध्वंसिनी ।
दुर्लभा पतितोद्धारा साध्यमौल्यप्रबोधिनी ॥ १५४ ॥

वचनमधुरा हृदयमधुरा वचनवेगनियन्त्रिणी ।
वचननिष्ठा भक्तिजुष्टा तृप्तिधामनिवासिनी ॥ १५५ ॥

नाभिहृत्कण्ठसदना अगोचरनादरूपिणी ।
परानादस्वरूपिणी वैखरीवाग्रञ्जिनी ॥ १५६ ॥

आर्द्रा आन्ध्रावनिजाता गोप्या गोविन्दभगिनी ।
अश्विनीदेवताराध्या अश्वत्ततरुरूपिणी ॥ १५७ ॥

प्रत्यक्षपराशक्तिमूर्तिः भक्तस्मरणतोषिणी ।
पट्टाभिषिक्तविरूपाक्षत्यागव्रतप्रहर्षिणी ॥ १५८ ॥

ललिताश्रितकामधेनुः अरुणचरणकमलद्वयी ।
लोकसेवापरायणसंरक्षिणी तेजोमयी ॥ १५९ ॥

नगरेश्वरदेवालयप्रतिष्ठिता नित्यार्चिता ।
नवावरणचक्रेश्वरी योगमायाकन्यानुता ॥ १६० ॥

नन्दगोपपुत्री दुर्गा कीर्तिकन्या कन्यामणी ।
निखिलभुवनसम्मोहिनी सोमदत्तप्रियनन्दिनी ॥ १६१ ॥

समाधिमुनिसम्प्रार्थितसपरिवारमुक्तिदायिनी ।
सामन्तराजकुसुमश्रेष्ठिपुत्रिका धीशालिनी ॥ १६२ ॥

प्राभातसगोत्रजाता उद्वाहुवंशपावनी ।
प्रज्ञाप्रमोदप्रगुणदायिनी गुणशोभिनी ॥ १६३ ॥

सालङ्कायनऋषिस्तुता सच्चारित्र्यसुदीपिका ।
सद्भक्तमणिगुप्तादिवैश्यवृन्दहृच्चन्द्रिका ॥ १६४ ॥

गोलोकनायिका देवी गोमठान्वयरक्षिणी ।
गोकर्णनिर्गतासमस्तवैश्यऋषिक्षेमकारिणी ॥ १६५ ॥

अष्टादशनगरस्वामिगणपूज्यपरमेश्वरी ।
अष्टादशनगरकेन्द्रपञ्चक्रोशनगरेश्वरी ॥ १६६ ॥

आकाशवाण्युक्ता“वासवी”कन्यकानामकीर्तिता ।
अष्टादशशक्तिपीठरूपिणी यशोदासुता ॥ १६७ ॥

कुण्डनिर्मातृमल्हरवह्निप्रवेशानुमतिप्रदा ।
कर्मवीरलाभश्रेष्ठि-अग्निप्रवेशानुज्ञाप्रदा ॥ १६८ ॥

सेनानिविक्रमकेसरिदुर्बुद्दिपरिवर्तिनी ।
सैन्याधिपतिवंशजवीरमुष्टिसम्पोषिणी ॥ १६९ ॥

तपोव्रतराजराजेन्द्रभक्तिनिष्ठासाफल्यदा ।
तप्तविष्णुवर्धननृपमोहदूरा मुक्तिप्रदा ॥ १७० ॥

महावक्ता महाशक्ता पराभवदुःखापहा ।
मूढश्रद्धापहारिणी संशयात्मिकबुद्ध्यापहा ॥ १७१ ॥

दृश्यादृश्यरूपधारिणी यतदेहवाङ्मानसा ।
दैवीसम्पत्प्रदात्री दर्शनीया दिव्यचेतसा ॥ १७२ ॥

योगभ्रष्टसमुद्धरणविशारदा निजमोददा ।
यमनियमासनप्राणायामनिष्ठशक्तिप्रदा ॥ १७३ ॥

धारणध्यानसमाधिरतशोकमोहविदूरिणी ।
दिव्यजीवनान्तर्ज्योतिप्रकाशिनी यशस्विनी ॥ १७४ ॥

योगीश्वरी यागप्रिया जीवेश्वरस्वरूपिणी ।
योगेश्वरी शुभ्रज्योत्स्ना उन्मत्तजनपावनी ॥ १७५ ॥

लयविक्षेपसकषायरसास्वादातीताजिता ।
लोकसङ्ग्रहकार्यरता सर्वमन्त्राधिदेवता ॥ १७६ ॥

विचित्रयोगानुभवदा अपराजिता सुस्मिता ।
विस्मयकरशक्तिप्रदा द्रव्ययज्ञनित्यार्चिता ॥ १७७ ॥

आत्मसंयमयज्ञकरी असङ्गशस्त्रदायिनी ।
अन्तर्मुखसुलभवेद्या तल्लीनताप्रदायिनी ॥ १७८ ॥

धर्मार्थकाममोक्षचतुर्पुरुषार्थसाधना ।
दुःखनष्टापजयव्याजमनोदौर्बल्यवारणा ॥ १७९ ॥

वचनवस्त्रप्रीतहृदया जन्मधैयप्रकाशिनी ।
व्याधिग्रस्तकठिणचित्तकारुण्यरसवाहिनी ॥ १८० ॥

चित्प्रकाशलाभदायी धेयमूर्तिः ध्यानसाक्षिणी ।
चारुवदना यशोदायी पञ्चवृत्तिनिरोधिनी ॥ १८१ ॥

लोकक्षयकारकास्त्रशक्तिसञ्चयमारका ।
लोकबन्धनमोक्षार्थिनित्यक्लिष्टपरीक्षका ॥ १८२ ॥

सूक्ष्मसंवेदनाशीला चिरशान्तिनिकेतना ।
सूक्ष्मग्रहणशक्तिमूला पञ्चप्राणान्तर्चेतना ॥ १८३ ॥

प्रयोगसहितज्ञानज्ञा सम्मूढसमुद्वारिणी ।
प्राणव्यापारसदाधीनभीत्याकुलपरिरक्षिणी ॥ १८४ ॥

दैवासुरसम्पद्विभागपण्डिता लोकशासका ।
देवसद्गुरुसाधुदूषकसन्मार्गप्रवर्तिका ॥ १८५ ॥

पश्चात्तापतप्तसुखदा जीवधर्मप्रचारिणी ।
प्रायश्चित्तकृतितोषिता कीर्तिकारककृतिहर्षिणी ॥ १८६ ॥

गृहकृत्यलग्नसाधकस्मरणमात्रप्रमुदिता ।
गृहस्थजीवनद्रष्टा सेवायुतसुधीर्विदिता ॥ १८७ ॥

संयमीमुनिसन्दृश्या ब्रह्मनिर्वाणरूपिणी ।
सुदुर्दर्शा विश्वत्राता क्षेत्रक्षेत्रज्ञपालिनी ॥ १८८ ॥

वेदसाहित्यकलानिधिः ऋगैदजातवैश्यजननी ।
वैश्यवर्णमूलगुरु-अपरार्कस्तवमोदिनी ॥ १८९ ॥

रागनिधिः स्वरशक्तिः भावलोकविहारिणी ।
रागलोला रागरहिता अङ्गरागसुलेपिनी ॥ १९० ॥

ब्रह्मग्रन्थिविष्णुग्रन्थिरुदग्रन्थिविभेदिनी ।
भक्तिसाम्राज्यस्थापिनी श्रद्धाभक्तिसंवर्धिनी ॥ १९१ ॥

हंसगमना तितिक्षासना सर्वजीवोत्कर्षिणी ।
हिंसाकृत्यसर्वदाघ्नी सर्वद्वन्द्वविमोचनी ॥ १९२ ॥

विकृतिमयविश्वरक्षिणी त्रिगुणक्रीडाधामेश्वरी ।
विविक्तसेव्यानिरुद्धा चतुर्दशलोकेश्वरी ॥ १९३ ॥

भवचक्रव्यूहरचनविशारदा लीलामयी ।
भक्तोन्नतिपथनिर्देशनकोविदा हिरण्मयी ॥ १९४ ॥

भगवद्दर्शनार्थपरिश्रमानुकूलदायिनी ।
बुद्धिव्यवसायवीक्षणी देदीप्यमानरूपिणी ॥ १९५ ॥

बुद्धिप्रधानशास्त्रज्योतिः महाज्योतिः महोदया ।
भावप्रधानकाव्यगेया मनोज्योतिः दिव्याश्रया ॥ १९६ ॥

अमृतसमसूक्तिसरिता पञ्चऋणविवर्जिता ।
आत्मसिंहासनोपविष्टा सुदती धीमन्ताश्रिता ॥ १९७ ॥

सुषुम्रानाडिगामिनी रोमहर्षस्वेदकारिणी ।
स्पर्शज्योतिशब्दद्वाराब्रह्मसंस्पर्शकारिणी ॥ १९८ ॥

बीजाक्षरीमन्त्रनिहिता निग्रहशक्तिवर्धिनी ।
ब्रह्मनिष्ठरूपव्यक्ता ज्ञानपरिपाकसाक्षिणी ॥ १९९ ॥

अकाराख्या उकारेज्या मकारोपास्योज्ज्वला ।
अचिन्त्याऽपरिच्छेद्या एकभक्तिःह्रूतप्रज्ज्वला ॥ २०० ॥

अशोष्या मृत्युञ्जया देशसेवकनित्याश्रया ।
अक्लेद्या नव्याच्छेद्या आत्मज्योतिप्रभोदया ॥ २०१ ॥

दयागङ्गाधरा धीरा गीतसुधापानमोदिनी ।
दर्पणोपममृदुकपोला चारुचुबुकविराजिनी ॥ २०२ ॥

नवरसमयकलातृप्ता शास्त्रातीतलीलाकरी ।
नयनाकर्षकचम्पकनासिका सुमनोहरी ॥ २०३ ॥

लक्षणशास्त्रमहावेत्ता विरूपभक्तवरप्रदा ।
ज्योतिष्शास्त्रमर्मवेत्ता नवग्रहशक्तिप्रदा ॥ २०४ ॥

अनङ्गभस्मसञ्जातभण्डासुरमर्दिनी ।
आन्दोलिकोल्लासिनी महिषासुरमर्दिनी ॥ २०५ ॥

भण्डासुररूपचित्रकण्ठगन्धर्वध्वंसिनी ।
भ्रात्रार्चिता विश्वख्याता प्रमुदिता स्फुरद्रूपिणी ॥ २०६ ॥

कीर्तिसम्पत्प्रदा उत्सवसम्भ्रमहर्षिणी ।
कर्तृत्वभावरहिता भोक्तृभावसुदूरिणी ॥ २०७ ॥

नवरत्नखचितहेममकुटधरी गोरक्षिणी ।
नवऋषिजननी शान्ता नव्यमार्गप्रदर्शिनी ॥ २०८ ॥

विविधरूपवर्णसहितप्रकृतिसौन्दर्यप्रिया ।
वामगात्री नीलवेणी कृषिवाणिज्यमहाश्रया ॥ २०९ ॥

कुङ्कुमतिलकाङ्कितललाटा वज्रनासाभरणभूषिता ।
कदम्बाटवीनिलया कमलकुट्मलकरशोभिता ॥ २१० ॥

योगिहृत्कवाटपाटना चतुरादम्मचेतना ।
योगयात्रार्थिस्फूर्तिदा षड्डर्शनसम्प्रेरणा ॥ २११ ॥

अन्धभक्तनेत्रदात्री अन्धभक्तिसुदूरिणी ।
मूकभक्तवाक्प्रदा भक्तिमहिमोत्कर्षिणी ॥ २१२ ॥

पराभक्तसेवितविषहारिणी सञ्जीविनी ।
पुरजनौघपरिवेष्टिता स्वात्मार्पणपथगामिनी ॥ २१३ ॥

भवान्यनावृष्टिव्याजजलमौल्यप्रबोधिका ।
भयानकातिवृष्टिव्याजजलशक्तिप्रदर्शिका ॥ २१४ ॥

रामायणमहाभारतपञ्चाङ्गश्रवणप्रिया ।
रागोपेतकाव्यनन्दिता भागवत्कथाप्रिया ॥ २१५ ॥

धर्मसङ्कटपरम्पराशुहारिणी मधुरस्वरा ।
धीरोदात्ता माननीया ध्रुवा पल्लवाधरा ॥ २१६ ॥

परापराप्रकृतिरूपा प्राज्ञपामरमुदालया ।
पञ्चकोशाध्यक्षासना प्राणसञ्चारसुखाश्रया ॥ २१७ ॥

शताशापाशसम्बद्ददुष्टजनपरिवर्तिनी ।
शतावधानीधीज्योतिप्रकाशिनी भवतारिणी ॥ २१८ ॥

सर्ववस्तुसृष्टिकारणान्तर्मर्मवेत्ताम्बिका ।
स्थूलबुद्धिदुर्विज्ञेया सृष्टिनियमप्रकाशिका ॥ २१९ ॥

नामाकारोद्देशसहितस्थूलसूक्ष्मसृष्टिपालिनी ।
नाममन्त्रजपयज्ञसद्योसाफल्यदायिनी ॥ २२० ॥

आत्मतेजोंशसम्भवाचार्योपासनसुप्रिया ।
आचार्याभिगामिशुभकारिणी निराश्रया ॥ २२१ ॥

क्षुत्तृषानिद्रामैथुनविसर्जनधर्मकारिणी ।
क्षयवृद्धिपूर्णद्रव्यसञ्चयाशाविदूरिणी ॥ २२२ ॥

नवजातशिशुसंपोषकक्षीरसुधासूषणा ।
नवभावलहर्योदया ओजोवती विचक्षणा ॥ २२३ ॥

धर्मश्रेष्ठिसुपुत्रार्थकृततपोसाफल्यदा ।
धर्मनन्दननामभक्तसमाराधिता मोददा ॥ २२४ ॥

धर्मनन्दनप्रियाचार्यच्यवनऋषिसम्पूजिता ।
धर्मनन्दनरसातललोकगमनकारिणी ॥ २२५ ॥

आङ्गीरसरक्षकार्यकचूडामणिसूनुरक्षिणी ।
आदिशेषबोधलग्नधर्मनन्दनगुप्तावनी ॥ २२६ ॥

वीणावादनतल्लीना स्नेहबान्धव्यरागिणी ।
वज्रकर्णकुण्डलधरी प्रेमभावप्रोल्लासिनी ॥ २२७ ॥

श्रीकारी श्रितपारिजाता वेणुनादानुरागिणी ।
श्रीप्रदा शास्त्राधारा नादस्वरनादरञ्जनी ॥ २२८ ॥

विविधविभूतिरूपधरी मणिकुण्डलशोभिनी ।
विपरीतनिमित्तक्षोभितस्थैर्यधैर्योद्दीपिनी ॥ २२९ ॥

संवित्सागरी मनोन्मणी सर्वदेशकालात्मिका ।
सर्वजीवात्मिका श्रीनिधिः अध्यात्मकल्पलतिका ॥ २३० ॥

अखण्डरूपा सनातनी आदिपराशक्तिदेवता ।
अभूतपूर्वसुचरिता आदिमध्यान्तरहिता ॥ २३१ ॥

समस्तोपनिषत्सारा समाध्यवस्थान्तर्गता ।
सङ्कल्पयुतयोगवित्तमध्यानावस्थाप्रकटिता ॥ २३२ ॥

आगमशास्त्रमहावेत्ता सगुणसाकारपूजिता ।
अन्नमयकोशाभिव्यक्ता वैश्वानरनिवेदिता ॥ २३३ ॥

प्राणमयकोशचालिनी देहत्रयपरिपालिनी ।
प्राणव्यापारनियन्त्रिणी धनऋणशक्तिनियोजनी ॥ २३४ ॥

मनोमयकोशसञ्चारिणी दशेन्द्रियबुद्दिव्यापिनी ।
विज्ञानमयकोशवासिनी व्यष्टिसमष्टिभेदप्रदर्शिनी ॥ २३५ ॥

आनन्दमयकोशवासिनी चित्ताहङ्कारनियन्त्रिणी ।
अनन्तवृत्तिधारासाक्षिणी वासनात्रयनाशिनी ॥ २३६ ॥

निर्दोषा प्रज्ञानम्ब्रह्ममहावाक्यश्रवणालया ।
निर्वैरा तत्त्वमसीतिगुरुवाक्यमननाश्रया ॥ २३७ ॥

अयमात्माब्रह्मेतिमहावाक्यार्थप्रबोधिनी ।
अहम्ब्रह्मास्मिस्वानुभवाधिष्टात्री दिव्यलोचनी ॥ २३८ ॥

अव्याहतस्फूर्तिस्रोता नित्यजीवनसाक्षिणी ।
अव्याजकृपासिन्धुः आत्मब्रह्मैक्यकारिणी ॥ २३९ ॥

फलश‍ृतिः –
पूर्वदिगभिमुखोपास्का सर्वसम्पत्वदायिनी ।
पश्चिमाभिमुखाराध्या रोगदुःखनिवारिणी ॥ १ ॥

उत्तराभिमुखोपास्या ज्ञानरत्नप्रदायिनी ।
दक्षिणाभिमुखाराध्या कामितार्थप्रदायिनी ॥ २ ॥

मूलाधारचक्रसेव्या ज्ञानारोग्यप्रदायिनी ।
स्वाधिष्ठानाम्बुजेष्या काव्ययोगवरदायिनी ॥ ३ ॥

मणिपूरजलरुहार्चिता विज्ञानशक्तिविवर्धिनी ।
अनाहताब्दसिंहासना प्रभुत्वविवेकप्रदायिनी ॥ ४ ॥

विशुद्धचक्रनित्यधेया वाक्यक्तिज्ञानदायिनी ।
विषयोन्मुखत्वापहा क्षत्नपानियन्त्रिणी ॥ ५ ॥

आज्ञाचक्रनिकेतना शब्दविजयप्रदायिनी ।
सहस्रारान्तराराध्या मुदरूपा मोक्षकारिणी ॥ ६ ॥

सोमवासरसम्पूज्या सौम्यचित्तप्रसादिनी ।
मङ्गलवासरसंसेव्या सर्वकार्यसिद्धिकारिणी ॥ ७ ॥

बुधवासरसम्भाविता बुद्धिशक्तिप्रवर्धिनी ।
गुरुवासरसमाश्रिता श्रद्धाभक्तिपरितोषिणी ॥ ८ ॥

ॐ भृगुवासर पूजनीयाख्यै नमः । ॐ सर्वैश्वर्यप्रदायै नमः ।
ॐ शनिवासरोपासनीयाख्यै नमः । ॐ ग्रहदोषनिवारिणै नमः ॥ ९ ॥

ॐ भानुवासरदर्शनीयाख्यै नमः । ॐ नवरसास्वादकारिणै नमः ।
ॐ सर्वकालस्मरणीयाय्कै नमः । ॐ आत्मानन्दप्रदायिनै नमः ॥ १० ॥

इति गीतसुधाविरचित अव्याहतस्फूर्तिदायिनि श्रीवासविकन्यकापरमेश्वरी
देव्यासि सहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॐ तत् सत् ।

रचनैः श्रीमति राजेश्वरिगोविन्दराज्
संस्थापकरुः ललितसुधा ज्ञानपीठ, बैङ्गलूरु वासवी सहस्रनामस्तोत्रम्
सुरेश गुप्त, संस्कृत विद्वान्, बैङ्गलूरु

Also Read 1000 Names of Sri Vasavi Devi 2:

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top