Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu or Vasudeva | Sahasranama Stotram Lyrics in Hindi

Shri Vishnu or Vasudeva Sahasranamastotram Lyrics in Hindi:

॥ श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम् ॥
पद्मपुराणे उत्तरखण्डे – वासुदेवसहस्रनामस्तोत्रं
नारदपञ्चरात्रे विष्णुसहस्रनामं च
ब्रह्मनारद – पार्वतीशिवसंवादात्मकं

विनियोगः
ॐ अस्य श्रीविष्णोस्सहस्रनामस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः ।
अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं।
श्रीं शक्तिः । क्लीं कीलकम्।
धर्मार्थकाममोक्षप्राप्त्त्यर्थे नामपारायणे विनियोगः ।

करन्यासः ।
ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १ ॥

ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २ ॥

ॐ महावराह इति मध्यमाभ्यां नमः ॥ ३ ॥

सूर्यवंशध्वज इति अनामिकाभ्यां नमः ॥ ४ ॥

ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः ॥ ५ ॥

यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः ॥ ॐ नमो नारायणायेति दिग्बन्धः ॥

॥ ध्यानम् ॥

ॐ नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥

लमित्यादि पञ्चपूजा । ॐ नमो नारायणाय इति (२)
ॐ ह्रां ह्रीं ह्रूं हैं ह्रौं ह्रः
क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि ।
तन्नो देवः प्रचोदयात् इति ॥

क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् इति ॥

ॐ वासुदेवाय विद्महे देवकीसुताय धीमहि ।
तन्नः कृष्णः प्रचोदयात् इति ॥

ॐ ह्रां ह्रीं ह्रूं हैं ह्रौं ह्रः ।
क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा इति
वा मन्त्रं यथोचितं जप्त्वा ध्यायेत् ।

॥ ध्यानम् ॥

विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं
श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥

ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः ।
परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ १ ॥

परं शिवः परो ध्येयः परं ज्ञानं परा गतिः ।
परमार्थः परं श्रेयः परानन्दः परोदयः ॥ २ ॥

परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ३ ॥

निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः ।
निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ ४ ॥

अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः ।
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ ५ ॥

सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ ६ ॥

सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ ७ ॥

सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ ८ ॥

नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ ९ ॥

जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १० ॥

योगिप्रियो योगमयो भवबन्धैकमोचकः ।
पुराणः पुरुषः प्रत्यक्चैतन्यं पुरुषोत्तमः ॥ ११ ॥

वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः ।
ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ १२ ॥

सर्वोपेय उदासीनः प्रणवः सर्वतः समः ।
सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ १३ ॥

कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः ।
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ १४ ॥

अनुल्लङ्घ्यश्चित्रगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ १५ ॥

महामायो विश्वबीजं पराशक्तिसुखैकभुक् ।
सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ १६ ॥

अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः ।
निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ १७ ॥

ब्रह्म प्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ १८ ॥

अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः ।
योगिगम्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ १९ ॥

श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः ।
नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २० ॥

वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमन्दिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २१ ॥

श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् ।
पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ २२ ॥

जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः ।
जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ २३ ॥

सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ २४ ॥

शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ २५ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ २६ ॥

यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः ।
द्विजैकमानदो विप्रकुलदेवोऽसुरान्तकः ॥ २७ ॥

सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः ।
सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ २८ ॥

सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ २९ ॥

अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः ।
अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ ३० ॥

सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः ।
मयकोटिजगत्स्त्रष्टा वायुकोटिमहाबलः ॥ ३१ ॥

कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः ।
कन्दर्पकोटिलावण्यो दुर्गाकोटिविमर्दनः ॥ ३२ ॥

समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।
कुबेरकोटिलक्ष्मीवान् शक्रकोटिविलासवान् ॥ ३३ ॥

हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ३४ ॥

सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ३५ ॥

विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ३६ ॥

वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः ।
नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ ३७ ॥

दीनानाथैकशरणं विश्वैकव्यसनापहः ।
जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ ३८ ॥

योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेता प्रजापतिशताधिपः ॥ ३९ ॥

शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४० ॥

जगत्सेतुधर्मसेतुधरो विश्वधुरन्धरः ।
निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४१ ॥

वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः ।
सर्वश्रेयः पतिर्दिव्यानर्ध्यभूषणभूषितः ॥ ४२ ॥

सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा ।
समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ ४३ ॥

समस्तदेवकवचं सर्वदेवशिरोमणिः ।
समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ ४४ ॥

समस्तभयहृन्नामा भगवान्विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः ॥ ४५ ॥

सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मा शम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ४६ ॥

विराड् भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः ।
परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ ४७ ॥

सदानदः सदाभद्रः सदाशान्तः सदाशिवः ।
सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ ४८ ॥

सदापूतः पावनाग्रो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ४९ ॥

भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ ५० ॥

वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम् ॥ ५१ ॥

शिवत्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ।
नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ५२ ॥

आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालजितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ५३ ॥

आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः ॥ ५४ ॥

अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ ५५ ॥

अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः ।
आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ५६ ॥

ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ ५७ ॥

मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रदृक् ।
लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ५८ ॥

आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ५९ ॥

आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ।
हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६० ॥

समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।
हव्यकव्यैकभुक् हव्यकव्यैकफलदायकः ॥ ६१ ॥

रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ ६२ ॥

श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा ।
एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकम्भञ्जनः ॥ ६३ ॥

ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः ।
कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ ६४ ॥

मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ६५ ॥

हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः ।
कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ ६६ ॥

सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ६७ ॥

भैरवेशो हरार्तिघ्नः कालकल्पो दुरासदः ।
दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डवर्जितः ॥ ६८ ॥

स्मृतिमात्राखिलत्राताद्भुतरूपो महाहरिः ।
ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ ६९ ॥

द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ ७० ॥

वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः ।
क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ ७१ ॥

सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः ।
असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ७२ ॥

गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।
देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ ७३ ॥

समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ ७४ ॥

अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् ।
योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ ७५ ॥

रुद्रो नारायणो मेषरूपशङ्करवाहनः ।
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ७६ ॥

तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः ।
महाशिवः शिवारुढो भैरवैककपालधृक् ॥ ७७ ॥

भिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः ।
गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ७८ ॥

ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ७९ ॥

उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ।
बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः ॥ ८० ॥

उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः ।
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८१ ॥

ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः ।
var र्द्रुतकर्माद्रिधारणः
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ८२ ॥

राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः ।
पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ ८३ ॥

पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् ।
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ८४ ॥

वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः ॥ ८५ ॥

पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः ।
समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ ८६ ॥

अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः ।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ॥ ८७ ॥

मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः ।
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ८८ ॥

सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः ।
भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ ८९ ॥

शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ।
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् ॥ ९० ॥

अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ।
मनुः श्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् ॥ ९१ ॥

आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ।
पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्त्तिस्वयंवृतः ॥ ९२ ॥

जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् ।
सनकादिमुनिप्राप्यो भगवद्भक्तिवर्धनः ॥। ९३ ॥

वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ।
सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ ९४ ॥

काकुत्स्थो वीरराड् राजा राजधर्मधुरन्धरः ।
नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ॥। ९५ ॥

नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ।
सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥ ९६ ॥

जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः ।
समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ ९७ ॥

अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः ।
सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः ॥ ९८ ॥

पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ।
गुहादेशार्पितैश्वर्यः शिवस्पर्धी जटाधरः ॥। ९९ ॥

चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः ।
यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ १०० ॥

ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ।
ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ १०१ ॥

चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् ।
खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ १०२ ॥

जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ।
लीलाधनुःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ १०३ ॥

सप्ततालव्यधाकृष्टध्वजपातालदानवः ।
सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ १०४ ॥

हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ।
सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ १०५ ॥

सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ।
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ १०६ ॥

असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः ।
वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ १०७ ॥

रावणिघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा ।
रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ १०८ ॥

स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः ।
रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ १०९ ॥

नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः ।
सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत् ॥ ११० ॥

देवब्राह्मणनामैकधाता सर्वामरार्चितः ।
ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ १११ ॥

अयोध्याखिलराजन्यः सर्वभूतमनोहरः ।
स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ ११२ ॥

स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः ।
व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् ॥ ११३ ॥

पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित् ।
साक्षात्कुशलवच्छद्मेन्द्राग्नितातोऽपराजितः ॥ ११४ ॥

कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः ।
शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ ११५ ॥

ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ ११६ ॥

स्वर्नीतगर्दभाश्वादिः चिरायोध्यावनैककृत्त् ।
रामाद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित् ॥ ११७ ॥

विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः ।
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ ११८ ॥

शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः ।
नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ ११९ ॥

सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ।
छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ १२० ॥

विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः ।
वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १२१ ॥

श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् ।
विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ १२२ ॥

देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः ।
योगस्वमी ध्यानभङ्गसगरात्मजभस्मकृत् ॥ १२३ ॥

धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः ।
शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १२४ ॥

भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः ।
महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट् ॥ १२५ ॥

शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः ।
फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १२६ ॥

कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः ।
नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १२७ ॥

असन्तोषदृष्टिमात्रपातितैकदशाननः ।
बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १२८ ॥

मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः ।
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ १२९ ॥

देवकीवसुदेवाह्वकश्यपादितिनन्दनः ।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३० ॥

नराकृतिः परं ब्रह्म सव्यसाचीवरप्रदः ।
ब्रह्मादिकाम्यलालित्यजगदाश्चैर्यशैशवः ॥ १३१ ॥

पूतनाध्नः शकटभिद् यमलार्जुनभञ्जनः ।
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १३२ ॥

दामोदरो गोपदेवो यशोदाऽऽनन्दकारकः ।
कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ १३३ ॥

लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः ।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १३४ ॥

सद्यः कुवलयापीडघाती चाणूरमर्दनः ।
कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ १३५ ॥

सुधर्माङ्कितभूलोको जरासन्धबलान्तकः ।
त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १३६ ॥

सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
समस्तनारकित्राता सर्वभूपतिकोटिजित् ॥ १३७ ॥

रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः ।
समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ १३८ ॥

एकाकीजितरुद्रार्कमरुदाद्यखिलेश्वरः ।
देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १३९ ॥

बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् ।
लीलाजितमहादेवो महादैवेकपूजितः ॥ १४० ॥

इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् ।
काशीराजशिरस्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ १४१ ॥

विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः ।
शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः ॥ १४२ ॥

काशीशगणकोटिघ्नः लोकशिक्षाशिवार्चकः ।
युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १४३ ॥

शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः ।
शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १४४ ॥

महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा ।
स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् ॥ १४५ ॥

यमुनापतिरानीतपरिलीनशिवात्मजः ।
श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ १४६ ॥

दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः ।
आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत् ॥ १४७ ॥

अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः ।
सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ १४८ ॥

ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् ।
परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ १४९ ॥

गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः ।
पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत् ॥ १५० ॥

गर्भशापच्छलध्वस्तयादवोर्वीभयापहः ।
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ १५१ ॥

कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः ।
अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ १५२ ॥

पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः ।
उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १५३ ॥

चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः ।
चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ १५४ ॥

आश्रयात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् ।
महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ १५५ ॥

कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः ।
वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १५६ ॥

बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः ।
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ १५७ ॥

दैत्यवेदबहिःकर्ता वेदार्थश्रुतिगोपकः ।
शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ १५८ ॥

यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः ।
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १५९ ॥

पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः ।
कल्की विष्णुयशःपूत्रः कलिकालविलोपकः ॥ १६० ॥

समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् ।
सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६१ ॥

अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः ।
सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मवित् ॥ १६२ ॥

अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः ।
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १६३ ॥

आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः ।
भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १६४ ॥

कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट् शशी ।
नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ १६५ ॥

महर्षिराड् भृगुर्विष्णुरादित्येशो बलिः स्वराट् ।
वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड् गुरुः ॥ १६६ ॥

विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः ।
वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्यः श्रीश्च नारदः ॥ १६७ ॥

देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराट् ।
पवनः पवनेशानो वरुणो यादसां पतिः ॥ १६८ ॥

गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् ।
अन्नं सुदर्शनास्त्राग्र्यं वज्रं प्रहरणोत्तमम् ॥ १६९ ॥

उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः ।
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७० ॥

अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः ।
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ १७१ ॥

दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् ।
तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १७२ ॥

दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः ।
चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १७३ ॥

सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः ।
वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो नमो नमः ॥ १७४ ॥

इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् ।
सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १७५ ॥

अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् ।
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ॥ १७६ ॥

समस्तसुखदं सद्यः परनिर्वाणदायकम् ।
कामक्रोधादि निःशेषमनोमलविशोधनम् ॥ १७७ ॥

शान्तिदं पावनं नॄणां महापाताकिनामपि ।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १७८ ॥

समस्तविघ्नशमनं सर्वारिष्टविनाशनम् ।
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ॥ १७९ ॥

ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ॥ १८० ॥

तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ।
जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८१ ॥

राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् ।
वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ॥ १८२ ॥

भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् ।
मङ्गल्यं पुण्यमापुष्पं श्रवणात् पठनाज्जपात् ॥ १८३ ॥

नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः ।
नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ १८४ ॥

नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ।
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ॥ १८५ ॥

पार्वत्युवाच
धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ।
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ १८६ ॥

कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो ।
त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ॥ १८७ ॥

विष्णोः सहस्रनामैतत् प्रत्यहं वृषभध्वज ।
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ १८८ ॥

महादेव उवाच
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ १८९ ॥

॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे
श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read Vasudeva’s Sri Vishnu 1000 Names:

1000 Names of Sri Vishnu or Vasudeva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu or Vasudeva | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top