Templesinindiainfo

Best Spiritual Website

108 Names of Shri Lalita 2 | Ashtottara Shatanamavali Lyrics in Hindi

Sri Lalita 2 Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीललिताष्टोत्तरशतनामावलिः २ ॥

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-
तारानायकशेखरां स्मितममुखीम् आपीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीम्
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीम्
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कार-युक्तां सततमभयदां भक्तनम्रां भवानीम्
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

ॐ भूरूपसकलाधारायै नमः
ॐ बीजौषध्यन्नरूपिण्यै नमः ।
ॐ जरायुजाण्डजोद्भिज्ज-
स्वेदजादिशरीरिण्यै नमः ।
ॐ क्षेत्ररूपायै नमः ।
ॐ तीर्थरूपायै नमः ।
ॐ गिरिकाननरूपिण्यै नमः ।
ॐ जलरूपाखिलाप्यायायै नमः ।
ॐ तेजःपुञ्जस्वरूपिण्यै नमः ।
ॐ जगत्प्रकाशिकायै नमः ।
ॐ अज्ञानतमोहृद्भानुरूपिण्यै नमः । १० ।

ॐ वायुरूपायै नमः ।
ॐ अखिलव्याप्तायै नमः ।
ॐ उत्पत्यादिविधायिन्यै नमः ।
ॐ नभोरूपायै नमः ।
ॐ इन्दुसूर्यादि-
ज्योतिर्भूतावकाशदायै नमः ।
ॐ घ्राणरूपायै नमः ।
ॐ गन्धरूपायै नमः ।
ॐ गन्धग्रहणकारिण्यै नमः ।
ॐ रसनायै नमः ।
ॐ रसरूपायै नमः । २० ।

ॐ रसग्रहणकारिण्यै नमः ।
ॐ चक्षुरूपायै नमः ।
ॐ रूपरूपायै नमः ।
ॐ रूपग्रहणकारिण्यै नमः ।
ॐ त्वग्रूपायै नमः ।
ॐ स्पर्शरूपायै नमः ।
ॐ स्पर्शग्रहणकारिण्यै नमः ।
ॐ श्रोत्ररूपायै नमः ।
ॐ शब्दरूपायै नमः ।
ॐ शब्दग्रहणकारिण्यै नमः । ३० ।

ॐ वागिन्द्रियस्वरूपायै नमः ।
ॐ वाचावृत्तिप्रदायिन्यै नमः ।
ॐ पाणीन्द्रियस्वरूपायै नमः ।
ॐ क्रियावृत्तिप्रदायिन्यै नमः ।
ॐ पादेन्द्रियस्वरूपायै नमः ।
ॐ गतिवृत्तिप्रदायिन्यै नमः ।
ॐ पाय्विन्द्रियस्वरूपायै नमः ।
ॐ विसर्गार्थैककारिण्यै नमः ।
ॐ रहस्येन्द्रियरूपायै नमः ।
ॐ विषयानन्ददायिन्यै नमः । ४० ।

ॐ मनोरूपायै नमः ।
ॐ सङ्कल्पविकल्पादि-
स्वरूपिण्यै नमः ।
ॐ सर्वोपलब्धिहेतवे नमः ।
ॐ बुद्धिनिश्चयरूपिण्यै नमः ।
ॐ अहङ्कारस्वरूपायै नमः ।
ॐ अहङ्कर्तव्यवृत्तिदायै नमः ।
ॐ चेतनाचित्तरूपायै नमः ।
ॐ सर्वचैतन्यदायिन्यै नमः ।
ॐ गुणवैषम्यरूपाढ्य-
महत्तत्त्वाभिमानिन्यै नमः ।
ॐ गुणसाम्याव्यक्तमायामूल-
प्रकृतिसञ्चिकायै नमः । ५० ।

ॐ पञ्चीकृतमहाभूत-
सूक्ष्मभूतस्वरूपिण्यै नमः ।
ॐ विद्याऽविद्यात्मिकायै नमः ।
ॐ मायाबन्धमोचनकारिण्यै नमः ।
ॐ ईश्वरेच्छारागरूपायै नमः ।
ॐ प्रकृतिक्षोभकारिण्यै नमः ।
ॐ कालशक्त्यै नमः ।
ॐ कालरूपायै नमः ।
ॐ नियत्यादिनियामिकायै नमः ।
ॐ धूम्रादिपञ्चव्योमाख्यायै नमः ।
ॐ यन्त्रमन्त्रकलात्मिकायै नमः । ६० ।

ॐ ब्रह्मरूपायै नमः ।
ॐ विष्णुरूपायै नमः ।
ॐ रुद्ररूपायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ सदाशिवस्वरूपायै नमः ।
ॐ सर्वजीवमय्यै नमः ।
ॐ शिवायै नमः ।
ॐ श्रीवाणीलक्ष्म्युमारूपायै नमः ।
ॐ सदाख्यायै नमः ।
ॐ चित्कलात्मिकायै नमः । ७० ।

ॐ प्राज्ञतैजसविश्वाख्य-
विराट्सूत्रेश्वरात्मिकायै नमः ।
ॐ स्थूलदेहस्वरूपायै नमः ।
ॐ सूक्ष्मदेहस्वरूपिण्यै नमः ।
ॐ वाच्यवाचकरूपायै नमः ।
ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ।
ॐ कार्यकारणरूपायै नमः ।
ॐ तत्तत्तत्वाधिदेवतायै नमः ।
ॐ दशनादस्वरूपायै नमः ।
ॐ नाडीरूपाढ्यकुण्डल्यै नमः ।
ॐ अकारादिक्षकारान्तवैखरी-
वाक्स्वरूपिण्यै नमः । ८० ।

ॐ वेदवेदाङ्गरूपायै नमः ।
ॐ सूत्रशास्त्रादिरूपिण्यै नमः ।
ॐ पुराणरूपायै नमः ।
ॐ सद्धर्मशात्ररूपायै नमः ।
ॐ परात्परस्यै नमः ।
ॐ आयुर्वेदस्वरूपायै नमः ।
ॐ धनुर्वेदस्वरूपिण्यै नमः ।
ॐ गान्धर्वविद्यारूपायै नमः ।
ॐ अर्थशास्त्रादिरूपिण्यै नमः ।
ॐ चतुष्षष्टिकलारूपायै नमः । ९० ।

ॐ निगमागमरूपिण्यै नमः ।
ॐ काव्येतिहासरूपायै नमः ।
ॐ गानविद्यादिरूपिण्यै नमः ।
ॐ पदवाक्यस्वरूपायै नमः ।
ॐ सर्वभाषास्वरूपिण्यै नमः ।
ॐ पदवाक्यस्फोटरूपायै नमः ।
ॐ ज्ञानज्ञेयक्रियात्मिकायै नमः ।
ॐ सर्वतन्त्रमय्यै नमः ।
ॐ सर्वयन्त्रतन्त्रादिरूपिण्यै नमः ।
ॐ वेदमात्रे नमः । १०० ।

ॐ ललितायै नमः ।
ॐ महाव्याहृतिरूपिण्यै नमः ।
ॐ अव्याकृतपदानाद्यचिन्त्य-
शक्त्यै नमः ।
ॐ तमोमय्यै नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ परब्रह्मसाक्षात्कार-
स्वरूपिण्यै नमः ।
ॐ परब्रह्ममय्यै नमः ।
ॐ सत्यासत्यज्ञानसुधात्मिकायै नमः । १०८ ।

इति श्रीललिताष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sree Lalitha 2:

108 Names of Shri Lalita 2 | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Lalita 2 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top