Templesinindiainfo

Best Spiritual Website

108 Shri Ramana Maharshi Mother Names | Ashtottara Shatanamavali Lyrics in Hindi

Ashtottarashatanamavali for mother of Shri Ramana Maharshi Lyrics in Hindi:

॥ मातृभूतेश्वराष्टोत्तरशतनामावलिः ॥

ॐ श्रीमातृभूतेश्वररूपिण्यै नमः ।
ॐ श्रीरमणजनन्यै नमः ।
ॐ आवर्तपुरवासिन्यै नमः ।
ॐ अलगम्मानाम्न्यै नमः ।
ॐ सुन्दरार्य सहधर्मिणीभूतायै नमः ।
ॐ श्रीजीवन्मुक्तपुत्रकृतार्थीकृतजीवनायै नमः ।
ॐ श्रीयोगाम्बिकास्वरूपिण्यै नमः ।
ॐ श्रीचक्राङ्कित श्रीविद्यास्वरूपिण्यै नमः ।
ॐ लोकमात्रे नमः ।
ॐ विश्ववन्द्यायै नमः । १० ।

ॐ स्कन्दमात्रे नमः ।
ॐ धन्यायै नमः ।
ॐ स्वगृहनिर्गतपुत्राकुलचित्तायै नमः ।
ॐ पुत्रान्वेषणनियुक्तबन्धुजनायै नमः ।
ॐ निराकृतस्वगृहवैभवायै नमः ।
ॐ स्वेच्छास्वीकृतदैन्यजीवनायै नमः ।
ॐ स्वीकृतारुणाचलवासायै नमः ।
ॐ पुत्रप्रत्यागमनार्थकृतव्यर्थप्रयत्नायै नमः ।
ॐ भूमिनाथप्रसादोपलब्धसन्तत्यै नमः ।
ॐ योगाम्बासमेतारुणाचलेश्वरकृपापात्रायै नमः । २० ।

ॐ तपस्विन्यै नमः ।
ॐ पुत्रशिक्षित वैराग्यायै नमः ।
ॐ इतरमतस्थसमदर्शनायै नमः ।
ॐ पुत्रोपदेशनिर्मुक्तस्पृश्यास्पृश्यादि
सङ्कुचितपुरातनाचारायै नमः ।
ॐ पुत्रोपदेशप्राप्तस्वरूपज्ञानायै नमः ।
ॐ श्रीरमणरचित अप्पलगीतमूलकारणायै नमः ।
ॐ श्रीरमणप्रीतिकरभोजनरचनाकुशलायै नमः ।
ॐ विदितरमणप्रभावायै नमः ।
ॐ विविधवेदान्तपरद्राविडभाषागीतज्ञायै नमः ।
ॐ कपिलोपदेशकृतार्थीकृतदेवहूतिसमानायै नमः । ३० ।

ॐ श्रीरमणस्तुतितुष्टारुणाचलेश्वरकृपाविगतज्वरायै नमः ।
ॐ श्रीरमणकृपास्पदायै नमः ।
ॐ श्रीरमणार्पितप्राणायै नमः ।
ॐ श्रीरमणपदानुगायै नमः ।
ॐ श्रीरमणसेवातत्परायै नमः ।
ॐ श्रीरमणोपदेशश्रवणशुद्धीकृतचित्तायै नमः ।
ॐ श्रीरमणहस्तप्रापितमोक्षसाम्राज्याय नमः ।
ॐ श्रीरमणानुरक्तहृदयायै नमः ।
ॐ श्रीरमणहस्तप्रतिष्ठापितमहामेरुयन्त्रस्वरूपिण्यै नमः ।
ॐ श्रीरमणज्ञानाग्निदग्धकल्मषायै नमः । ४० ।

ॐ श्रीरमणभक्तजनप्रियायै नमः ।
ॐ श्रीभगवत्सङ्गविनष्टाहङ्कारायै नमः ।
ॐ श्रीरमणाश्रितायै नमः ।
ॐ श्रीरमणयशोगानहर्षितायै नमः ।
ॐ श्रीरमणस्मरणरतायै नमः ।
ॐ श्रीरमणहस्तस्पर्शमुक्तदेहायै नमः ।
ॐ श्रीरमणमहिमालब्धमोक्षायै नमः ।
ॐ श्रीरमणचरणशरणायै नमः ।
ॐ श्रीरमणनिकटवासशान्ततापायै नमः ।
ॐ श्रीरमणदर्शनमात्रसन्तुष्टमानसाय नमः । ५० ।

ॐ श्रीमद्रमणकरुणाकटाक्षनिरस्ताज्ञानान्धकारायै नमः ।
ॐ श्रीबाह्याडम्बरविवर्जितायै नमः ।
ॐ अनवद्यायै नमः ।
ॐ मृदुभाषिण्यै नमः ।
ॐ सरलस्वभावायै नमः ।
ॐ श्रीस्वमैत्रीवशीकृतसर्वजनायै नमः ।
ॐ निःस्पृहायै नमः ।
ॐ मितभाषिण्यै नमः ।
ॐ त्यक्तसर्वैषणायै नमः ।
ॐ नैसर्गिकभगवद्भक्तियुतायै नमः । ६० ।

ॐ निर्ममायै नमः ।
ॐ निरहङ्कारायै नमः ।
ॐ तितिक्षापूर्णायै नमः ।
ॐ सत्त्वगुणान्वितायै नमः ।
ॐ कीर्तनीयतमायै नमः ।
ॐ सर्वे देवीस्वरूपिण्यै नमः ।
ॐ ध्येयायै नमः ।
ॐ निर्विकारायै नमः ।
ॐ निष्कलङ्कायै नमः ।
ॐ प्रशान्तमुखमण्डलायै नमः । ७० ।

ॐ तेजोवत्यै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ काषायाम्बरधरायै नमः ।
ॐ आभूषणविरहितायै नमः ।
ॐ स्वसुखनिरभिलाषायै नमः ।
ॐ संसारपाशनिर्मुक्तायै नमः ।
ॐ पूर्वजन्मसञ्चितपुण्यपुञ्जायै नमः ।
ॐ शुभकर्मप्राप्तजीवन्मुक्तपुत्रायै नमः ।
ॐ रमणीयगुणान्विताय नमः ।
ॐ रागद्वेषादिदोषविरहितायै नमः । ८० ।

ॐ शान्तिनिलयायै नमः ।
ॐ काव्यकण्ठगणपतिमुनिवर्णित-
बुद्धरामचन्द्राद्यवतारजनन्यपेक्षा-
श्रेष्ठतरवैभवायै नमः । extra
ॐ स्वकुलाचारानुष्ठानरतायै नमः ।
ॐ सौभाग्यशालिन्यै नमः ।
ॐ वात्सल्यपरिपूरितायै नमः ।
ॐ दक्षिणामूर्तिस्तोत्रप्रियायै नमः ।
ॐ तुलसी अम्मा लब्धमहावाक्यदीक्षायै नमः ।
ॐ श्रीरमणकृपानिरस्तमायाजालायै नमः ।
ॐ विमलायै नमः ।
ॐ वीतहर्षशोकादिद्वन्द्वायै नमः ।
ॐ रमणमहर्षिमान्यायै नमः । ९० ।

ॐ महाशक्तिस्वरूपिण्यै नमः ।
ॐ अन्तिमकालानुभवक्षीणवासनासमूहायै नमः ।
ॐ अनघायै नमः ।
ॐ अरुणाचलकृताधिवासायै नमः ।
ॐ कलिदोषविवर्जितायै नमः ।
ॐ मङ्गलदात्र्यै नमः ।
ॐ रमणमङ्गलायै नमः ।
ॐ चापल्यरहितायै नमः ।
ॐ श्रीरमणकरुणावलम्बनायै नमः ।
ॐ भीषणभुजगमालाविभूषितशिवरूपदर्शितपुत्रायै नमः । १०० ।

ॐ सद्गुरुरमणलब्धोपदेशायै नमः ।
ॐ श्रीरमणलब्धपौत्रप्राप्तिवरायै नमः ।
ॐ श्रीरमणहस्ताभिषिक्तजलस्नातायै नमः ।
ॐ उदारहृदयायै नमः ।
ॐ एचम्माकृतसत्कारायै नमः ।
ॐ क्षणार्धभगवद्विरहनिरपेक्षायै नमः ।
ॐ श्रीनिरञ्जनानन्दस्वामिकृत-श्रद्धायुक्त-प्रयत्न
बहुल-फलस्वरूपनिर्मितमातृभूतेश्वराधिष्ठित-
समाधिमन्दिरायै नमः । extra
ॐ मातृगौरव विशेषादर निरपेक्षायै नमः ।
ॐ श्रीभगवद्रमणज्योतिलीनायै नमः । १०८

ॐ सर्वं श्रीरमणार्पणमस्तु ॥

Also Read 108 Names of Shri Ramana Maharshi’s Mother:

108 Shri Ramana Maharshi Mother Names | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Shri Ramana Maharshi Mother Names | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top