Templesinindiainfo

Best Spiritual Website

Anaadi Kalpeshvara Stotram Lyrics in Marathi

Anaadi Kalpeshvara Stotram in Marathi:

॥ अनादि कल्पेश्वर स्तोत्रम ॥
अनादिकल्पेश्वरस्तोत्रम ।

कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावरः सः ।
सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥ 1 ॥

कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी ।
काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥ 2 ॥

त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी ।
कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ ॥ 3 ॥

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः ।
विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥ 4 ॥

लिङ्गं परिच्छेत्तुमधोगतस्य नाराणश्चोपरि लोकनाथः ।
बभूवतुस्तावपि नो समर्थो योऽनादिकल्पेश्वर एव सोऽसौ ॥ 5 ॥

यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्व सोऽत्र ।
कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥ 6 ॥

सकृच्च धाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम ।
देवेन्द्रसंपत्त्यविकाङ्गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥ 7 ॥

गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य ।
श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥ 8 ॥

अनादि कल्पेश उमेश एतत स्तवाष्टकं यः पठति त्रिकालम ।
सधौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत ॥ 9 ॥

इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं संपूर्णम ॥

Also Read:

Anaadi Kalpeshwara Stotram Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Anaadi Kalpeshvara Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top