Templesinindiainfo

Best Spiritual Website

Bhedabhanggaabhidhaana Stotram Lyrics in Marathi

Bhedabhanggaabhidhaana in Marathi:

॥ भेदभङ्गाभिधानस्तोत्रम ॥
चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम ।
मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥ 1 ॥

उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम ।
मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥ 2 ॥

सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम ।
जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥ 3 ॥

रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम ।
हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ 4 ॥

धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम ।
पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं द्रव्यदातारमीशानमीडे ॥ 5 ॥

प्रशस्तारुविद्यानिधानं सुधानं स्वभूस्वापपर्यङ्कतां सन्दधानम ।
अनन्तावतारच्छलेनाधिशीष शिवं भूमिधर्तारमीशानमीडे ॥ 6 ॥

अनेकक्रियारूपनामप्रकाशैर्निजं देवतापञ्चकं दर्शयन्तम ।
तथैवावतारान दशान्यांश्च लोके नटं वाखिलं दैवतं ज्योतिरीडे ॥ 7 ॥

श्रुतेर्नेह नानेति शब्दप्रमाणैर्मुनिम्यस्तदर्थावयवैः पुराणैः ।
निजामेकतां द्योतयन्तां सुधीम्यः सदासच्चिदात्मानमीशानमीडे ॥ 8 ॥

अजस्रेश्वराराधने दत्तचेता महात्माच्युताद्याश्रमान्तः परिव्राट ।
अकार्षीदिदं भेदभङ्गाभिधानं मुदे स्तोत्रमन्तर्भिदाभङ्गभाजाम ॥ 9 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदच्युताश्रमविरचितं भेदभङ्गाभिधानस्तोत्रं समाप्तम ॥

Also Read:

Bhedabhanggaabhidhaana StotramLyrics in Marathi | Bengali |  Kannada | Telugu | Malayalam | Gujarati

Bhedabhanggaabhidhaana Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top