Templesinindiainfo

Best Spiritual Website

Bhrigupanchakastotra Lyrics in Hindi

श्री भृगुपञ्चकस्तोत्रम् Lyrics in Hindi:

द्विजेन्द्रवंशतारकं समस्तदुःखहारकं
दरिद्रताविदारकं स्वधर्मसेतुधारकम् ।
सदैव देवनन्दितं समस्त शास्त्रपण्डितं
भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ १॥

विरागरागनिर्झरं नमामि वै विदाम्वरं
परम्परारविन्दरेणुषट्पदं सिताम्बारम् ।
सदैव साधनापरं समाधिनिष्ठभूसुरं
भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ २॥

सनातनं च शाश्वतं समष्टिसौख्यसर्जकं
समुन्नतं सुमानसं शिवादिसङ्गसाधकम् ।
समर्धकं समर्पितं सदैव शान्तिशोधकं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ३॥

पठामि भार्गवोत्तमं लिखामि तं भृगुं विभु
भजामि तं महागुरुं स्पृशामि तं महाप्रभुम् ।
स्मरामि तं महामुनिं वदामि तं स्वयम्भुवं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ४॥

अबोधतां विनाशितुं दरिद्रतां विदारितुं
प्रबोधतां प्रवाहितु सुमेधतां सुसाधितुम् ।
विकासवीथि भासितुं भजामि वै भृगुं शिवं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ५॥

॥ इति श्री भृगुपञ्चकस्तोत्रम् ॥

Bhrigupanchakastotra Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top