Shiva Kesadi Padantha Varnana Stotram lyrics in Sanskrit
Siva Kesadi Padantha Varnana Stotram in Sanskrit: ॥ श्री शिव केशादिपादान्तवर्णन स्तोत्रम् ॥ देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य- त्प्राम्शुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ १ ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नाव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥ २ ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मस्तकं स्ता- दस्तोकापत्तिकृत्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ ३ […]