Templesinindiainfo

Best Spiritual Website

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in Sanskrit

Dvatrimsat Ganapathi Dhyana Slokah in Sanskrit:

॥ द्वात्रिंशद्गणपति ध्यान श्लोकाः ॥
१। श्री बालगणपतिः
करस्थ कदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यमिमं वन्दे देवं बालगणाधिपम् ॥ १ ॥

२। श्री तरुणगणपतिः
पाशाङ्कुशापूपकपित्थजम्बू-
-स्वदन्तशालीक्षुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मांस्तरुणो गणेशः ॥ २ ॥

३। श्री भक्तगणपतिः
नारिकेलाम्रकदलीगुडपायसधारिणम् ।
शरच्चन्द्राभवपुषं भजे भक्तगणाधिपम् ॥ ३ ॥

४। श्री वीरगणपतिः
बेतालशक्तिशरकार्मुकचक्रखड्ग-
-खट्वाङ्गमुद्गरगदाङ्कुशनागपाशान् ।
शूलं च कुन्तपरशुं ध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि ॥ ४ ॥

५। श्री शक्तिगणपतिः
आलिङ्ग्य देवीं हरिताङ्गयष्टिं
परस्पराश्लिष्टकटिप्रदेशम् ।
सन्ध्यारुणं पाशसृणी वहन्तं
भयापहं शक्तिगणेशमीडे ॥ ५ ॥

६। श्री द्विजगणपतिः
यं पुस्तकाक्ष गुणदण्डकमण्डलु श्री-
-विद्योतमानकरभूषणमिन्दुवर्णम् ।
स्तम्बेरमाननचतुष्टयशोभमानं
त्वां यः स्मरेत् द्विजगणाधिपते स धन्यः ॥ ६ ॥

७। श्री सिद्धगणपतिः
पक्वचूतफलपुष्पमञ्जरी-
-रिक्षुदण्डतिलमोदकैः सह ।
उद्वहन् परशुमस्तु ते नमः
श्रीसमृद्धियुत हेमपिङ्गलः ॥ ७ ॥

८। श्री उच्छिष्टगणपतिः
नीलाब्जदाडिमीवीणाशालीगुञ्जाक्षसूत्रकम् ।
दधदुच्छिष्टनामायं गणेशः पातु मेचकः ॥ ८ ॥

९। श्री विघ्नगणपतिः
शङ्खेक्षुचापकुसुमेषुकुठारपाश-
-चक्रस्वदन्तसृणिमञ्जरिकाशरौघैः ।
पाणिश्रितैः परिसमीहितभूषणश्री-
-र्विघ्नेश्वरो विजयते तपनीयगौरः ॥ ९ ॥

१०। श्री क्षिप्रगणपतिः
दन्तकल्पलतापाशरत्नकुंभाङ्कुशोज्ज्वलम् ।
बन्धूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ १० ॥

११। श्री हेरम्बगणपतिः
अभयवरदहस्तः पाशदन्ताक्षमाला-
सृणिपरशु दधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पञ्चमातङ्गवक्त्रो
गणपतिरतिगौरः पातु हेरम्बनामा ॥ ११ ॥

१२। श्री लक्ष्मीगणपतिः
बिभ्राणः शुकबीजपूरकमिलन्माणिक्यकुंभाकुशान्
पाशं कल्पलतां च खड्गविलसज्ज्योतिस्सुधानिर्झरः ।
श्यामेनात्तसरोरुहेण सहितं देवीद्वयं चान्तिके
गौराङ्गो वरदानहस्तसहितो लक्ष्मीगणेशोऽवतात् ॥ १२ ॥

१३। श्री महागणपतिः
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-
-दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदेक्षुकार्मुकलसच्छक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥ १३ ॥

१४। श्री विजयगणपतिः
पाशाङ्कुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नः सर्वं रक्तवर्णो विनायकः ॥ १४ ॥

१५। श्री नृत्तगणपतिः
पाशाङ्कुशापूपकुठारदन्त-
-चञ्चत्कराक्लुप्तवराङ्गुलीकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तोपपदं गणेशम् ॥ १५ ॥

१६। श्री ऊर्ध्वगणपतिः
कल्हारशालिकमलेक्षुकचापबाण-
दन्तप्ररोहकगदी कनकोज्ज्वलाङ्गः ।
आलिङ्गनोद्यतकरो हरिताङ्गयष्ट्या
देव्या करोतु शुभमूर्ध्वगणाधिपो मे ॥ १६ ॥

१७। श्री एकाक्षरगणपतिः
रक्तो रक्ताङ्गरागाङ्कुशकुसुमयुतस्तुन्दिलश्चन्द्रमौलिः
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरं दधानः ।
हस्ताग्राक्लप्त पाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः ॥ १७ ॥

१८। श्री वरगणपतिः
सिन्दूराभमिभाननं त्रिनयनं हस्ते च पाशाङ्कुशौ
बिभ्राणं मधुमत्कपालमनिशं साध्विन्दुमौलिं भजे ।
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहित पाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ १८ ॥

१९। श्री त्र्यक्षरगणपतिः
गजेन्द्रवदनं साक्षाच्चलत्कर्णसुचामरं
हेमवर्णं चतुर्बाहुं पाशाङ्कुशधरं वरम् ।
स्वदन्तं दक्षिणे हस्ते सव्ये त्वाम्रपलं तथा
पुष्करे मोदकं चैव धारयन्तमनुस्मरेत् ॥ १९ ॥

२०। श्री क्षिप्रप्रसादगणपतिः
धृतपाशाङ्कुशकल्पलता स्वदन्तश्च बीजपूरयुतः
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणश्च गजवदनः ।
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः
विघ्नपयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै ॥ २० ॥

२१। श्री हरिद्रागणपतिः
हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम्
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।
भक्ताभयप्रदातारं वन्दे विघ्नविनाशनम् ॥ २१ ॥

२२। श्री एकदन्तगणपतिः
लम्बोदरं श्यामतनुं गणेशं
कुठारमक्षस्रजमूर्ध्वगात्रम् ।
सलड्डुकं दन्तमधः कराभ्यां
वामेतराभ्यां च दधानमीडे ॥ २२ ॥

२३। श्री सृष्टिगणपतिः
पाशाङ्कुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नः शोणः सृष्टिदक्षो विनायकः ॥ २३ ॥

२४। श्री उद्दण्डगणपतिः
कल्हाराम्बुजबीजपूरकगदादन्तेक्षुचापं सुमं
बिभ्राणो मणिकुंभशालिकलशं पाशं सृणिं चाब्जकम् ।
गौराङ्ग्या रुचिरारविन्दकरया देव्या समालिङ्गतः
शोणाङ्गः शुभमातनोतु भजतामुद्दण्डविघ्नेश्वरः ॥ २४ ॥

२५। श्री ऋणमोचक गणपतिः
पाशाङ्कुशौ दन्तजम्बु दधानः स्फाटिकप्रभः ।
रक्तांशुको गणपतिर्मुदे स्यादृणमोचकः ॥ २५ ॥

२६। श्री ढुण्ढिगणपतिः
अक्षमालां कुठारं च रत्नपात्रं स्वदन्तकम् ।
धत्ते करैर्विघ्नराजो ढुण्ढिनामा मुदेऽस्तु नः ॥ २६ ॥

२७। श्री द्विमुखगणपतिः
स्वदन्तपाशाङ्कुशरत्नपात्रं
करैर्दधानो हरिनीलगात्रः ।
रक्तांशुको रत्नकिरीटमाली
भूत्यै सदा मे द्विमुखो गणेशः ॥ २७ ॥

२८। श्री त्रिमुखगणपतिः
श्रीमत्तीक्ष्णशिखाङ्कुशाक्षवरदान् दक्षे दधानः करैः
पाशं चामृतपूर्णकुंभमभयं वामे दधानो मुदा ।
पीठे स्वर्णमयारविन्दविलसत्सत्कर्णिकाभासुरे
स्वासीनस्त्रिमुखः पलाशरुचिरो नागाननः पातु नः ॥ २८ ॥

२९। श्री सिंहगणपतिः
वीणां कल्पलतामरिं च वरदं दक्षे विदत्ते करै-
-र्वामे तामरसं च रत्नकलशं सन्मञ्जरीं चाभयम् ।
शुण्डादण्डलसन्मृगेन्द्रवदनः शङ्खेन्दुगौरः शुभो
दीव्यद्रत्ननिभांशुको गणपतिः पायादपायत् स नः ॥ २९ ॥

३०। श्री योगगणपतिः
योगारूढो योगपट्‍टाभिरामो
बालार्काभश्चेन्द्रनीलांशुकाढ्यः ।
पाशेक्ष्वक्षान् योगदण्डं दधानो
पायान्नित्यं योगविघ्नेश्वरो नः ॥ ३० ॥

३१। श्री दुर्गागणपतिः
तप्तकाञ्चनसङ्काशश्चाष्टहस्तो महत्तनुः
दीप्ताङ्कुशं शरं चाक्षं दन्तु दक्षे वहन् करैः ।
वामे पाशं कार्मुकं च लतां जम्बु दधत्करैः
रक्तांशुकः सदा भूयाद्दुर्गागणपतिर्मुदे ॥ ३१ ॥

३२। श्री सङ्कटहरगणपतिः
बालार्कारुणकान्तिर्वामे बालां वहन्नङ्के
लसदिन्दीवरहस्तां गौराङ्गीं रत्नशोभाढ्याम् ।
दक्षेऽङ्कुशवरदानं वामे पाशं च पायसं पात्रं
नीलांशुकलसमानः पीठे पद्मारुणे तिष्ठन् ॥ ३२ ॥

सङ्कटहरणः पायात् सङ्कटपूगाद्गजाननो नित्यम् ।

——

श्री वल्लभगणपति ध्यानम् –
बीजापूर गदेक्षुकार्मुकभुजाचक्राब्ज पाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥

श्री सिद्धिदेवी ध्यानम् –
पीतवर्णां द्विनेत्रां तामेकवक्त्राम्बुजद्वयां
नवरत्नकिरीटां च पीताम्बरसुधारिणीम् ।
वामहस्ते महापद्मं दक्षे लम्बकरान्वितां
जाजीचम्पकमालां च त्रिभङ्गीं ललिताङ्गिकाम् ॥

गणेशदक्षिणे भागे गुरुः सिद्धिं तु भावयेत् ॥

श्री बुद्धिदेवी ध्यानम् –
द्विहस्तां च द्विनेत्रां तामेकवक्त्रां त्रिभङ्गिकां
मुक्तामणिकिरीटां च दक्षे हस्ते महोत्पलम् ।
वामे प्रलम्बहस्तां च दिव्याम्बरसुधारिणीं
श्यामवर्णनिभां भास्वत्सर्वाभरणभूषिताम् ॥

पारिजातोत्पलामाल्यां गणेशो वामपार्श्वके
ध्यात्वा बुद्धिं सुरूपां समर्चयेद्देशिकोत्तमः ॥

Also Read:

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top