Templesinindiainfo

Best Spiritual Website

Gaurigirisha Stotram Lyrics in Marathi

Gaurigirisha Stotram in Marathi:

॥ गौरीगिरीश स्तोत्रम ॥

चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 1 ॥

अन्योन्यार्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ
चन्द्रार्धांचितशेखरा प्रणमतामिष्टर्थदौ सत्वरम ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 2 ॥

सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ
राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 3 ॥

सिंहोक्षाग्र्यगती महोन्नतपदं संप्रापयन्तौ नता-
नंहोराशिनिवारणैकनिपुणौ ब्रह्मोग्रविष्ण्वर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 4 ॥

कस्तूरीघानसारचर्चिततनू प्रस्तूयमानौ सुरै-
रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतावङ्गावधूतेन्दुभौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 5 ॥

वाणीनिर्जितहंसकोकिलरवौ पाणीकृतांभोरुहौ
वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदो
कल्याणं तनुतां समस्तजगतां गौरीगिरिशौ मुदा ॥ 6 ॥

कामापत्तिविभूतिकारणदशौ सोमार्धभूषोज्ज्वलौ
सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ माणिक्यभूषान्वितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 7 ॥

दंभाहङ्कॄतिदोषशून्यपुरुषैः संभावनीयौ सदा
जंभारातिमुखामरेन्द्रविनुतौ कुंभात्मजाद्यर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 8 ॥

शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ
सोपानक्रमतोऽधिकारेभिरनुप्राप्यौ क्षमासागरौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 8 ॥

शोणांभोरुहतुल्यपादयुगळौ बाणार्चनातोषितौ
वीणाधृङ्मुनिगीयमानविभवौ बालारुणाभांबरौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ तुल्याधिकैर्वर्जितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 10 ॥

इति गौरीगिरीशस्तोत्रं संपूर्णम ॥

Also Read:

Gaurigirisha Stotram Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Gaurigirisha Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top