Gita - Geetaa

Ishvaragita from Kurmapurana Lyrics in Hindi

Ishvara Geetaa from Kurmapurana in Hindi:

॥ ईश्वरगीता कूर्मपुराणे ॥
प्रथमोऽध्यायः
ऋषय ऊचुः
भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः ।
ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१ ॥

तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः ।
ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२ ॥

तद्वदाशेषसंसारदुःखनाशमनुत्तमम् ।
ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३ ॥

त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो ।
अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४ ॥

श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् ।
सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५ ॥

अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।
आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६ ॥

तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् ।
व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७ ॥

पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः ।
प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८ ॥

पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् ।
समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ १.९ ॥

अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः ।
कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१० ॥

ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् ।
ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११ ॥

इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः ।
शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२ ॥

ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् ।
मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१३ ॥

३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४ ॥

व्यास उवाच
वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।
सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५ ॥

सनत्कुमारः सनकस्तथैव च सनन्दनः ।
अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६ ॥

कणादः कपिलो योगी वामदेवो महामुनिः ।
शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७ ॥

परस्परं विचार्यैते संशयाविष्टचेतसः ।
तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८ ॥

अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् ।
नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९ ॥

संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।
प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२० ॥

विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् ।
प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१ ॥

अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् ।
साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२ ॥

वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३ ॥

त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः ।
नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४ ॥

नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् ।
शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५ ॥

किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।
कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६ ॥

कः संसारपतीशानः को वा सर्वं प्रपश्यति ।
किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७ ॥

एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।
विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८ ॥

विभ्राजमानं विमलं प्रभामण्डलमण्डितम् ।
श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९ ॥

शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् ।
न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३० ॥

तदन्तरे महादेवः शशाङ्काङ्कितशेखरः ।
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१ ॥

निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।
तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२ ॥

जयेश्वर महादेव जय भूतपते शिव ।
जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३ ॥

सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक ।
जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४ ॥

सहस्रचरणेशान शंभो योगीन्द्रवन्दित ।
जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५ ॥

संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।
समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६ ॥

किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः ।
इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७ ॥

आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः ।
प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८ ॥

इमे हि मुनयो देव तापसाः क्षीणकल्पषाः ।
अभ्यागतानां शरणं सम्यग्दर्शनकाङ्क्षिणाम् ॥ १.३९ ॥

यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् ।
सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४० ॥

त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव ।
ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१ ॥

एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् ।
प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२ ॥

संदर्शनान्महेशस्य शंकरस्याथ शूलिनः ।
कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३ ॥

द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् ।
ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४ ॥

निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् ।
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५ ॥

अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् ।
किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्बभौ ॥ १.४६ ॥

तत्राससाद योगात्मा विष्णुना सह विश्वकृत् ।
तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७ ॥

ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः ।
विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८ ॥

यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा ।
अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९ ॥

यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते ।
तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५० ॥

यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् ।
सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१ ॥

प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः ।
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२ ॥

तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः ।
प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः
ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१ ॥

इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२ ॥

गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३ ॥

आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४ ॥

सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।
स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५ ॥

अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६ ॥

न चाप्ययं संसरति न च संसारमयः प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७ ॥

न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८ ॥

न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ २.९ ॥

न माया नैव च प्राणा चैतन्यं परमार्थतः ।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ॥ २.१० ॥

तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
छायातपौ यथा लोके परस्परविलक्षणौ ॥ २.११ ॥

तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।
तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ॥ २.१२ ॥

नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।
पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ॥ २.१३ ॥

विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।
अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः ॥ २.१४ ॥

सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।
वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ॥ २.१५ ॥

भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥ २.१६ ॥

अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।
नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ॥ २.१७ ॥

अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।
पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ॥ २.१८ ॥

प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।
तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ॥ २.१९ ॥

स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ॥ २.२० ॥

रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ॥ २.२१ ॥

तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ॥ २.२२ ॥

एकः स भिद्यते शक्त्या मायया न स्वभावतः ।
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ॥ २.२३ ॥

भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।
यथा हि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ॥ २.२४ ॥

अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ॥ २.२५ ॥

उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।
ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ॥ २.२६ ॥

अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ॥ २.२७ ॥

दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।
यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ॥ २.२८ ॥

रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।
तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ॥ २.२९ ॥

उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ २.३० ॥

योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ।
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ २.३१ ॥

सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ।
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ २.३२ ॥

एकीभूतः परेणासौ तदा भवति केवलम् ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ २.३३ ॥

तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।
यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ २.३४ ॥

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।
यदा पश्यति चात्मानं केवलं परमार्थतः ॥ २.३५ ॥

मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६ ॥

यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७ ॥

यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८ ॥

तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९ ॥

तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।
अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४० ॥

एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१ ॥

योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२ ॥

यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३ ॥

अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४ ॥

यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५ ॥

एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६ ॥

सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७ ॥

अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः श‍ृणोम्यहम् ॥ २.४८ ॥

वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९ ॥

पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५० ॥

यन्न देवा विजानन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता यूयं श‍ृणुध्वं ब्रह्मवादिनः ॥ २.५१ ॥

नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।
प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२ ॥

यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३ ॥

तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४ ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५ ॥

तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।
मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः
ईश्वर उवाच
अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ।
तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१ ॥

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२ ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३ ॥

सर्वोपमानरहितं प्रमाणातीतगोचरम् ।
निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४ ॥

अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ।
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५ ॥

स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ।
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६ ॥

मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७ ॥

प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् ।
तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८ ॥

त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ।
तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९ ॥

महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ।
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१० ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् ।
अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११ ॥

आद्यो विकारः प्रकृतेर्महानिति च कथ्यते ।
विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२ ॥

एक एव महानात्मा सोऽहंकारोऽभिधीयते ।
स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३ ॥

तेन वेदयते सर्वं सुखं दुः खं च जन्मसु ।
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४ ॥

तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु ।
स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५ ॥

कालः सृजति भूतानि कालः संहरति प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६ ॥

सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ।
प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७ ॥

सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।
मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८ ॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९ ॥

प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः ।
सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२० ॥

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१ ॥

सोऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२ ॥

मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः
ईश्वर उवाच ।
वक्ष्ये समाहिता यूयं श‍ृणुध्वं ब्रह्मवादिनः ।
माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१ ॥

नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२ ॥

अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३ ॥

यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः ।
सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४ ॥

न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः ।
ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५ ॥

गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६ ॥

सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७ ॥

अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसम्प्लुतः ॥ ४.८ ॥

मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९ ॥

ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१० ॥

अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११ ॥

न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२ ॥

यो वै निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३ ॥

पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४ ॥

अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५ ॥

अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६ ॥

अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७ ॥

अहमेव हि संहर्त्ता संस्रष्टा परिपालकः ।
मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८ ॥

ममैव च परा शक्तिर्या सा विद्यते गीयते ।
नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९ ॥

अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः ।
आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२० ॥

एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१ ॥

अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२ ॥

तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३ ॥

ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४ ॥

सर्वेषामेव भक्तानामिष्टः प्रियतमो मम ।
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५ ॥

अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः ।
तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६ ॥

मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं चित्तं मया सम्प्रेर्यते जगत् ॥ ४.२७ ॥

नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८ ॥

पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः ।
करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९ ॥

योगः सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३० ॥

महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः ।
प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१ ॥

यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२ ॥

सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३ ॥

इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः
व्यास उवाच ।
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ ५.१ ॥

तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२ ॥

यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३ ॥

यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४ ॥

यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५ ॥

यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६ ॥

योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८ ॥

सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८ ॥

वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९ ॥

ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१० ॥

अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।
सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११ ॥

महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२ ॥

पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३ ॥

उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४ ॥

शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५ ॥

आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।
योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ ॥

क्षणेन जगतो योनिं नारायणमनामयम् ॥ ५.१६ ॥

ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ।
दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८ ॥

सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च ।
रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८ ॥

दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् ।
ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु
शिरः सु भूयः ॥ ५.१९ ॥

ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् ।
समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२० ॥

मुनय ऊचुः
त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् ।
नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१ ॥

त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् ।
ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२ ॥

त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।
अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३ ॥

हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।
संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४ ॥

त्वत्तो वेदाः सकलाः सम्प्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते ।
पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५ ॥

त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः ।
नमामस्त्वां शरणं सम्प्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६ ॥

पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः ।
सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८ ॥

ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् ।
तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८ ॥

स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः ।
शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९ ॥

एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।
वंन्द्यं त्वां ये शरणं सम्प्रपन्ना-स्तेषां शान्तिः शाश्वती
नेतरेषाम् ॥ ५.३० ॥

भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।
स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१ ॥

एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् ।
त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ ५.३२ ॥

त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् ।
इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३ ॥

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४ ॥

त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।
त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं
परमेश्वरोऽसि ॥ ५.३५ ॥

त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।
चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं
च ॥ ५.३६ ॥

यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।
किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८ ॥

योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् ।
नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८ ॥

त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति ।
मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९ ॥

नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् ।
नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४० ॥

ततः स भगवान् प्रीतः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१ ॥

ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२ ॥

भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३ ॥

भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४ ॥

इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर ।
भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५ ॥

स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः
ईश्वर उवाच ।
श‍ृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः ।
वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१ ॥

सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२ ॥

सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः ।
मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३ ॥

भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४ ॥

सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५ ॥

ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च ।
सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६ ॥

एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः ।
संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.७ ॥

आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः ।
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८ ॥

ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् ।
महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९ ॥

यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः ।
हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१० ॥

तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ।
दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११ ॥

स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२ ॥

स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ।
भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३ ॥

योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।
ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४ ॥

योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ।
मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५ ॥

हव्यं वहति देवानां कव्यं कव्याशिनामपि ।
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६ ॥

भुक्तमाहारजातं च पचते तदहर्निशम् ।
वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१७ ॥

योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।
सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८ ॥

योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः ।
मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९ ॥

योऽपि संजीवनो नॄणां देवानाममृताकरः ।
सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२० ॥

यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा ।
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१ ॥

योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।
यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२ ॥

यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह ।
यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३ ॥

योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ।
सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४ ॥

यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।
मन्नियोगादसौ देवो वर्त्तते निरृतिः सदा ॥ ६.२५ ॥

वेतालगणभूतानां स्वामी भोगफलप्रदः ।
ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६ ॥

यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ।
रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२७ ॥

यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः ।
विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८ ॥

योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः ।
स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९ ॥

ये च प्रजानां पतयो मरीच्याद्या महर्षयः ।
सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३० ॥

या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् ।
पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१ ॥

वाचं ददाति विपुलां या च देवी सरस्वती ।
साऽपीश्वरनियोगेन चोदिता सम्प्रवर्त्तते ॥ ६.३२ ॥

याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति ।
सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३ ॥

पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ।
याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४ ॥

योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः ।
दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५ ॥

योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः ।
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६ ॥

ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः ।
पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३७ ॥

आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ ।
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८ ॥

गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः ।
यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९ ॥

कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः ।
ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४० ॥

युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ।
पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१ ॥

चतुर्विधानि बूतानि स्थावराणि चराणि च ।
नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२ ॥

पातालानि च सर्वाणि भुवनानि च शासनात् ।
ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३ ॥

अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया ।
प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४ ॥

ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।
वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५ ॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६ ॥

योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् ।
माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४७ ॥

यो वै देहभृतां देवः पुरुषः पठ्यते परः ।
आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८ ॥

विधूय मोहकलिलं यया पश्यति तत् पदम् ।
साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९ ॥

बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ॥

मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५० ॥

अहं हि भगवानीशः स्वयं ज्योतिः सनातनः ।
परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१ ॥

इत्येतत् परमं ज्ञानं युष्माकं कथितं मया ।
ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६ ॥

सप्तमोऽध्यायः
ईश्वर उवाच ।
श‍ृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१ ॥

परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् ।
नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२ ॥

अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः ।
मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३ ॥

योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा ।
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४ ॥

रुद्राणां शंकरश्चाहं गरुडः पततामहम् ।
ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५ ॥

ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः ।
शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६ ॥

मुनीनामप्यहं व्यासो गणानां च विनायकः ।
वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७ ॥

पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।
वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८ ॥

अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।
आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९ ॥

महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् ।
कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१० ॥

प्रजापतीनां दक्षोऽहं निरृतिः सर्वरक्षसाम् ।
वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११ ॥

मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।
वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२ ॥

सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् ।
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३ ॥

सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् ।
ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४ ॥

विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् ।
भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५ ॥

पाशानामस्म्यहं माया कालः कलयतामहम् ।
गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६ ॥

यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् ।
तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७ ॥

आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः ।
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८ ॥

मायापाशेन बध्नामि पशूनेतान् स्वलीलया ।
मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९ ॥

मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।
मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२० ॥

चतुर्विशतितत्त्वानि माया कर्म गुणा इति ।
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१ ॥

मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः ।
एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२ ॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।
पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४ ॥

चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।
अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५ ॥

सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् ।
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६ ॥

सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् ।
गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७ ॥

धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ ।
मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८ ॥

अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् ।
क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९ ॥

एतेषामेव पाशानां माया कारणमुच्यते ।
मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३० ॥

स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च ।
विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१ ॥

स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव ।
स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः
ईश्वर उवाच ।
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१ ॥

अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२ ॥

मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३ ॥

प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४ ॥

ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५ ॥

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६ ॥

यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७ ॥

यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८ ॥

ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९ ॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१० ॥

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११ ॥

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२ ॥

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३ ॥

तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि ।
या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४ ॥

या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः ।
तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५ ॥

ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः ।
एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६ ॥

तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः ।
अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७ ॥

एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८ ॥

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८ ॥

नवमोऽध्यायः
ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ ९.१ ॥

ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ॥ ९.२ ॥

अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ॥ ९.३ ॥

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ९.४ ॥

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ॥ ९.५ ॥

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ९.६ ॥

अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ९.७ ॥

याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ९.८ ॥

पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ॥ ९.९ ॥

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ ९.१० ॥

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ९.११ ॥

यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ ९.१२ ॥

वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
तद् विज्ञाय परिमुच्येत विद्वान्
नित्यानन्दी भवति ब्रह्मभूतः ॥ ९.१३ ॥

यस्मात् परं नापरमस्ति किञ्चित्
यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।
तदेवात्मानं मन्यमानोऽथ विद्वा-
नात्मनन्दी भवति ब्रह्मभूतः ॥ ९.१४ ॥

तदप्ययं कलिलं गूढदेहं
ब्रह्मानन्दममृतं विश्वधामा ।
वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा
यत्र गत्वा न निवर्त्तेत भूयः ॥ ९.१५ ॥

हिरण्मये परमाकाशतत्त्वे
यदर्चिषि प्रविभातीव तेजः ।
तद्विज्ञाने परिपश्यन्ति धीरा
विभ्राजमानं विमलं व्योम धाम ॥ ९.१६ ॥

ततः परं परिपश्यन्ति धीरा
आत्मन्यात्मानमनुभूय साक्षात् ।
स्वयंप्रभुः परमेष्ठी महीयान्
ब्रह्मानन्दी भगवानीश एषः ॥ ९.१७ ॥

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
तमेवैकं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ ९.१८ ॥

सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ ९.१९ ॥

इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ ९.२० ॥

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) नवमोऽध्यायः ॥ ९ ॥

दशमोऽध्यायः
ईश्वर उवाच ।
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१ ॥

अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२ ॥

तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३ ॥

अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४ ॥

एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५ ॥

यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।
ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६ ॥

येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७ ॥

ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८ ॥

साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९ ॥

भजन्ते परमानन्दं सर्वगं जगदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१० ॥

एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११ ॥

तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२ ॥

न तत्र सूर्यः प्रविभातीह चन्द्रो
नक्षत्राणां गणो नोत विद्युत् ।
तद्भासितं ह्यखिलं भाति विश्वं
अतीवभासममलं तद्विभाति ॥ १०.१३ ॥

विश्वोदितं निष्कलं निर्विकल्पं
शुद्धं बृहन्तं परमं यद्विभाति ।
अत्रान्तरे ब्रह्मविदोऽथ नित्यं
पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४ ॥

नित्यानन्दममृतं सत्यरूपं
शुद्धं वदन्ति पुरुषं सर्ववेदाः ।
तमोमिति प्रणवेनेशितारं
धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५ ॥

न भूमिरापो न मनो न वह्निः
प्राणोऽनिलो गगनं नोत बुद्धिः ।
न चेतनोऽन्यत् परमाकाशमध्ये
विभाति देवः शिव एव केवलः ॥ १०.१६ ॥

इत्येतदुक्तं परमं रहस्यं
ज्ञानामृतं सर्ववेदेषु गूढम् ।
जानाति योगी विजनेऽथ देशे
युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) दशमोऽध्यायः ॥ १० ॥

एकादशोऽध्यायः
ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ ११.१ ॥

योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ ११.२ ॥

योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ११.३ ॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ॥ ११.४ ॥

योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ११.५ ॥

शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ११.६ ॥

यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।
मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ११.७ ॥

ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ११.८ ॥

यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।
सर्वेषामेव योगानां स योगः परमो मतः ॥ ११.९ ॥

सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः ।
न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ ११.१० ॥

प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११.११ ॥

मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।
तत्साधनानि चान्यानि युष्माकं कथितानि तु ॥ ११.१२ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ ११.१३ ॥

कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ॥ ११.१४ ॥

अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ॥ ११.१५ ॥

सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ ११.१६ ॥

परद्रव्यापहरणं चौर्यादऽथ बलेन वा ।
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ ११.१७ ॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ ११.१८ ॥

द्रव्याणामप्यनादानमापद्यपि तथेच्छया ।
अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ॥ ११.१९ ॥

तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् ।
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ ११.२० ॥

उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ ११.२१ ॥

वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।
सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ ११.२२ ॥

स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ ११.२३ ॥

यः शब्दबोधजननः परेषां श‍ृण्वतां स्फुटम् ।
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ ११.२४ ॥

ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् ।
उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ॥ ११.२५ ॥

यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ ११.२६ ॥

यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।
प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ॥ ११.२७ ॥

बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।
मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ॥ ११.२८ ॥

स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्मभिः ।
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ ११.२९ ॥

यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत ।
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ११.३० ॥

उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः ।
य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ ११.३१ ॥

मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः ।
मध्यमः प्राणसंरोधः षट्त्रिंशान्मात्रिकोत्तमः ॥ ११.३२ ॥

यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् ।
मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ११.३३ ॥

सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।
एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ११.३४ ॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ११.३५ ॥

रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ११.३६ ॥

रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः ।
साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ११.३७ ॥

इन्द्रियाणां विचरतां विषयेषु स्वबावतः ।
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ११.३८ ॥

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके ।
एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ११.३९ ॥

देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः ।
वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ॥ ११.४० ॥

एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।
प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ११.४१ ॥

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ११.४२ ॥

आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ।
साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ११.४३ ॥

ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।
समासीनात्मनः पद्ममेतदासनमुत्तमम् ॥ ११.४४ ॥

एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः ।
आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ॥ ११.४५ ॥

उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ११.४६ ॥

अदेशकाले योगस्य दर्शनं हि न विद्यते ।
अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ॥ ११.४७ ॥

जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।
सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ॥ ११.४८ ॥

अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।
नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ ११.४९ ॥

सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।
नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ११.५० ॥

गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।
युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ११.५१ ॥

नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ११.५२ ॥

आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा ।
नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ११.५३ ॥

कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।
स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ११.५४ ॥

शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाऽथ पङ्कजम् ।
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ११.५५ ॥

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।
चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ११.५६ ॥

सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।
ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ११.५७ ॥

चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।
तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ११.५८ ॥

ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।
तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ॥ ११.५९ ॥

एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।
चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ११.६० ॥

आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् ।
मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ११.६१ ॥

चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।
ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ११.६२ ॥

अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।
तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ११.६३ ॥

ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।
विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ११.६४ ॥

संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।
प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ११.६५ ॥

मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् ।
तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥ ११.६६ ॥

चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ।
एष पाशुपतो योगः पशुपाशविमुक्तये ॥ ११.६७ ॥

सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ।
एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ॥ ११.६८ ॥

द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ।
ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ॥ ११.६९ ॥

संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ।
एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ॥ ११.७० ॥

तस्मादात्मुगुणोपेतो मद्व्रतं वोढुमर्हति ।
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥ ११.७१ ॥

बहवोऽनेन योगेन पूता मद्भावमागताः ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ ११.७२ ॥

ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ।
अथवा भक्तियोगेन वैराग्येण परेण तु ॥ ११.७३ ॥

चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ।
सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ॥ ११.७४ ॥

प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ॥ ११.७५ ॥

निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ।
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ॥ ११.७६ ॥

मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ॥ ११.७७ ॥

हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ११.७८ ॥

सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ।
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ॥ ११.७९ ॥

अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ।
सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ॥ ११.८० ॥

मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ।
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥ ११.८१ ॥

निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ।
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥ ११.८२ ॥

कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते ।
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥ ११.८३ ॥

शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ।
यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ॥ ११.८४ ॥

कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ।
मन्मना मन्नमस्कारो मद्याजी मत्परायणः ॥ ११.८५ ॥

मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् ।
मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ॥ ११.८६ ॥

कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ।
एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ॥ ११.८७ ॥

नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ।
मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ॥ ११.८८ ॥

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।
येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ॥ ११.८९ ॥

तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ।
ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ॥ ११.९० ॥

मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः ।
तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ॥ ११.९१ ॥

मामेव संश्रयेदीशं स याति परमं पदम् ।
त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ॥ ११.९२ ॥

यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् ।
येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ॥ ११.९३ ॥

एकेन जन्मना तेषां ददामि परमैश्वरम् ।
परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ॥ ११.९४ ॥

ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ।
ये चान्ये नियता भक्ता भावयित्वा विधानतः ॥ ११.९५ ॥

यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ।
जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ॥ ११.९६ ॥

रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ।
सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ॥ ११.९७ ॥

तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ।
अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ॥ ११.९८ ॥

काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् ।
यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ॥ ११.९९ ॥

यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ।
अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ॥ ११.१०० ॥

एकाकी यतचित्तात्मा स याति परमं पदम् ।
वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ॥ ११.१०१ ॥

सोऽपीश्वरप्रसादेन याति तत् परमं पदम् ।
तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ॥ ११.१०२ ॥

ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् ।
वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ॥ ११.१०३ ॥

तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ।
येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ॥ ११.१०४ ॥

सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ।
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ॥ ११.१०५ ॥

धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ।
एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ॥ ११.१०६ ॥

धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ।
व्यास उवाच ।
इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ॥ ११.१०७ ॥

व्याजहार समासीनं नारायणमनामयम् ।
मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ॥ ११.१०८ ॥

दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ।
उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ॥ ११.१०९ ॥

हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ।
भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ॥ ११.११० ॥

उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ।
अयं नारायणो योऽहमीश्वरो नात्र संशयः ॥ ११.१११ ॥

नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ।
ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ॥ ११.११२ ॥

सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ।
ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ॥ ११.११३ ॥

ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः ।
ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ॥ ११.११४ ॥

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ।
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ ११.११५ ॥

मामेव सम्प्रपश्यध्वं पूजयध्वं तथैव हि ।
येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ॥ ११.११६ ॥

ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः ।
मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ॥ ११.११७ ॥

मोचयामि श्वपाकं वा न नारायणनिन्दकम् ।
तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ॥ ११.११८ ॥

अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ।
एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ॥ ११.११९ ॥

अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् ।
नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ॥ ११.१२० ॥

जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ।
ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ॥ ११.१२१ ॥

साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् ।
गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ॥ ११.१२२ ॥

प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ।
इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ॥ ११.१२३ ॥

विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ।
एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ॥ ११.१२४ ॥

नारायणो महायोगी जगामादर्शनं स्वयम् ।
तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ॥ ११.१२५ ॥

नारायणं च भूतादिं स्वानि स्थानानि लेभिरे ।
सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ॥ ११.१२६ ॥

दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ।
सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ॥ ११.१२७ ॥

प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ।
अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ॥ ११.१२८ ॥

जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ।
पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ॥ ११.१२९ ॥

लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ।
ममोवाच पुरा देवः सतीदेहभवाङ्गजः ॥ ११.१३० ॥

वामदेवो महायोगी रुद्रः किल पिनाकधृक् ।
नारायणोऽपि भगवान् देवकीतनयो हरिः ॥ ११.१३१ ॥

अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ।
यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ॥ ११.१३२ ॥

विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ।
शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ॥ ११.१३३ ॥

भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ।
भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ॥ ११.१३४ ॥

प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् ।
वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ॥ ११.१३५ ॥

पूजयध्वं महादेव गोपतिं व्यालभूषणम् ।
एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ॥ ११.१३६ ॥

प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ।
अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ॥ ११.१३७ ॥

साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् ।
भवत्प्रसादादचला शरण्ये गोवृषध्वजे ॥ ११.१३८ ॥

इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ।
कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ॥ ११.१३९ ॥

येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।
त्वत्संनिधावेव सूतः श‍ृणोतु भगवद्वचः ॥ ११.१४० ॥

तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् ।
यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ॥ ११.१४१ ॥

पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ।
श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ॥ ११.१४२ ॥

मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः ।
य इमं पठते नित्यं संवादं कृत्तिवाससः ॥ ११.१४३ ॥

सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ।
श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ॥ ११.१४४ ॥

यो वा विचारयेदर्थं स याति परमां गतिम् ।
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ॥ ११.१४५ ॥

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।
तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ॥ ११.१४६ ॥

श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ ११.१४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) एकादशोऽध्यायः ॥ ११ ॥

Also Read:

Ishvaragita from Kurmapurana in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Add Comment

Click here to post a comment