Templesinindiainfo

Best Spiritual Website

Janakipanchakam Lyrics in Hindi ॥ जानकीपञ्चकम् ॥

॥ जानकीपञ्चकम् ॥

मातृके सर्वविश्वैकधात्रीं क्षमां
त्वां सुधां शीतलां पुत्रपुत्रीनुताम् ।
स्नेहवात्सल्यधारायुतां जानकीं
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ १॥

नूपुरानन्ददां किङ्कणीमेखलां
शातकुम्भाङ्गदां हाररत्नाकराम् ।
कुण्डलाभूषणां मौलिहीरोज्ज्वलां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ २॥

मेघवृन्दालकां मन्दहासप्रभां
कान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् ।
रक्तबिम्बाधरां श्रीमुखीं सुन्दरीं
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ३॥

पद्ममालाधरां पद्मपुष्पारितां
पद्यवर्णाम्बरां पाणिपद्माश्रयाम् ।
पद्मपीठस्थितां पादपद्मावृतां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ४॥

भुक्तिमुक्तिप्रदां पुष्टितुष्टिप्रदां
ज्ञानविद्याददां पुष्कलानन्ददाम् ।
शुद्धिदां बुद्धिदां शक्तिदां सिद्धिदां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ५॥

इति जानकीपञ्चकं सम्पूर्णम् ।

Janakipanchakam Lyrics in Hindi ॥ जानकीपञ्चकम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top