Templesinindiainfo

Best Spiritual Website

Kamalapaty Ashtakam Lyrics in Hindi | कमलापत्यष्टकम्

कमलापत्यष्टकम् Lyrics in Hindi:

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १॥

अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् ।
जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥ २॥

किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
किमुत शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३॥

मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम् ।
विषयलंपटतामपहाय वै भजत रे मनुजाः कमलापतिम् ॥ ४॥

न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५॥

सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६॥

विविधरोगयुतं क्षणभङ्गुरं परवशं नवमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७॥

मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम् ॥ ८॥

हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् ।
पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं॥

Kamalapaty Ashtakam Lyrics in Hindi | कमलापत्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top