मातृपञ्चकम् Lyrics in Hindi:
सच्चिदानन्दतीर्थविरचितम्
मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन्
प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव ।
ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान्
यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥
ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै
तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ ।
तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती
पूज्यात्पूज्यतरां समर्थयति यां तस्यै जनन्यै नमः ॥ २॥
अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियां
या सूते प्रथमं क्व शक्तिरिह नो मातुस्तु शिक्षां विना ।
व्युत्पत्तिं क्रमशश्च सार्वजनिकीं तत्तत्पदार्थेषु या
ह्याधत्ते व्यवहारमप्यवकिलं तस्यै जनन्यै नमः ॥ ३॥
इष्टानिष्टहिताहितादिधिषणाहौना वयं शैशवे
कीटान् शष्कुलवित् करेण दधतो भक्ष्याशया बालिशाः ।
मात्रा वारितसाहसाः खलुततो भक्ष्याण्यभक्ष्याणि वा
व्यज्ञासिष्म हिताहिते च सुतरां तस्यै जनन्यै नमः ॥ ४॥
आत्मज्ञानसमार्जनोपकरणं यद्देहयन्त्रं विदुः
तद्रोगादिभयान्मृगोरगरिपुव्रातादवन्ती स्वयम् ।
पुष्णन्ती शिषुमादराद्गुरुकुलं प्रापय्य कालक्रमात्
या सर्वज्ञशिखामणिं वितनुते तस्यै जनन्यै नमः ॥ ५॥
इति श्रीमच्छृङ्गगिरिजगद्गुरुचरणसरोहसेवासमासदितसारस्वतविभवलेशस्य
श्रीशिवानन्दतीर्थस्वामिपूज्यपादशिष्यस्य श्रीसच्चिदानन्दतीर्थस्य
भाष्यस्वामिनः च कृतौ मातृपञ्चकम्
॥ ॐ तत्सत्॥