Templesinindiainfo

Best Spiritual Website

Paramatma Ashtakam Lyrics in Hindi | Hindi Shlokas

Paramatma Ashtakam in Hindi:

॥ परमात्माष्टकम् ॥
श्रीगणेशाय नमः ॥

परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ १ ॥

यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् ।
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ २ ॥

भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।
तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम् ॥ ३ ॥

प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः ।
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥ ४ ॥

शोकमोहौ मानमदौ तवाज्ञ्नाद्भवन्ति वै ।
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥ ५ ॥

कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा ।
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम् ॥ ६ ॥

मायया ते विमूढोऽस्मि न पश्यामि हिताहितम् ।
संसारपारपाथोधौ पतितं मां समुद्धर ॥ ७ ॥

परमात्मँस्त्वयि सदा मम स्यान्निश्चला मतिः ।
संसारदुःखगहनात्त्वं सदा रक्षको मम ॥ ८ ॥

परमात्मन इदं स्तोत्रं मोहविच्छेदकारकम् ।
ज्ञानदं च भवेन्नॄणां योगानन्देन निर्मितम् ॥ ९ ॥

इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम् ॥

Also Read:

Paramatma Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Marathi | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Paramatma Ashtakam Lyrics in Hindi | Hindi Shlokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top