Templesinindiainfo

Best Spiritual Website

Paramatma Ashtakam Lyrics in Marathi

Paramatma Ashtakam in Marathi:

॥ परमात्माष्टकम ॥
परमात्मा अष्टकम ।

परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ 1 ॥

यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम ।
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ 2 ॥

भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।
तव स्मृति यदा याति तदा याति बहिर्मुखम ॥ 3 ॥

प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः ।
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥ 4 ॥

शोकमोहौ मानमदौ तवाज्ञानाद्भवन्ति वै ।
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥ 5 ॥

कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा ।
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम ॥ 6 ॥

मायया ते विमूढोऽस्मि न पश्यामि हिताहितम ।
संसारापारपाथोधौ पतितं मां समुद्धर ॥ 7 ॥

परमात्मंस्त्वयि सदा मम स्यान्निश्चला मतिः ।
संसारदुःखगहनात्त्वं सदा रक्षको मम॥ 8 ॥

परात्मन इदं स्तोत्रं मोहविच्छेदकारकम ।
ज्ञानदं च भवेन्नृणां योगानन्देन निर्मितम ॥ 9 ॥

इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं संपूर्णम ॥

Also Read:

Paramatma Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Marathi | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Paramatma Ashtakam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top