Templesinindiainfo

Best Spiritual Website

Shiva Ashtottara Shatanama Stotram Lyrics in Marathi

Shiva Ashtottara Shatanama Stotram in Marathi:

॥ शिव अष्टोत्तर शतनाम स्तोत्रम ॥
शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥

भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ 3 ॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्की वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥

कृत्तिवासाः पुरारातिर्भगवान प्रमथाधिपः ।
मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्ताणुरहिर्बुध्न्यो दिगम्बरः ॥ 10 ॥

अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः ।
शाश्वतः खण्डपरशू रजःपाशविमोचनः ॥ 11 ॥

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ 13 ॥

इति श्रीशिवाष्टोत्तरशतनामावळिस्तोत्रं संपूर्णम ॥

Also Read:

Shri Shiva Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Marathi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Ashtottara Shatanama Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top