Templesinindiainfo

Best Spiritual Website

Shiva Sahasranamam Lyrics in Marathi

Shivasahasranamam in Marathi:

|| शिवसहस्रनाम ||

.. ॐ ..

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः .
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 ||

जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः .
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः || 2 ||

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः .
श्मशानचारी भगवान.ह खचरो गोचरो.अर्दनः || 3 ||

अभिवाद्यो महाकर्मा तपस्वी भूत भावनः .
उन्मत्तवेश्हप्रच्च्हन्नः सर्वलोकप्रजापतिः || 4 ||

महारूपो महाकायो वृश्हरूपो महायशाः .
महा.अ.अत्मा सर्वभूतश्च विरूपो वामनो मनुः || 5 ||

लोकपालो.अन्तर्हितात्मा प्रसादो हयगर्दभिः .
पवित्रश्च महांश्चैव नियमो नियमाश्रयः || 6 ||

सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः .
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः || 7 ||

चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः .
अद्रिरद{}र्यालयः कर्ता मृगबाणार्पणो.अनघः || 8 ||

महातपा घोर तपा.अदीनो दीनसाधकः .
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः || 9 ||

योगी योज्यो महाबीजो महारेता महातपाः .
सुवर्णरेताः सर्वघ्य़ः सुबीजो वृश्हवाहनः || 10 ||

दशबाहुस्त्वनिमिश्हो नीलकण्ठ उमापतिः .
विश्वरूपः स्वयं श्रेश्ह्ठो बलवीरो.अबलोगणः || 11 ||

गणकर्ता गणपतिर्दिग्वासाः काम एव च .
पवित्रं परमं मन्त्रः सर्वभाव करो हरः || 12 ||

कमण्डलुधरो धन्वी बाणहस्तः कपालवान.ह .
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान.ह || 13 ||

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः .
उश्ह्णिश्ही च सुवक्त्रश्चोदग्रो विनतस्तथा || 14 ||

दीर्घश्च हरिकेशश्च सुतीर्थः कृश्ह्ण एव च .
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः || 15 ||

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि .
उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः || 16 ||

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः .
अहश्चरो.अथ नक्तं च तिग्ममन्युः सुवर्चसः || 17 ||

गजहा दैत्यहा लोको लोकधाता गुणाकरः .
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः || 18 ||

कालयोगी महानादः सर्ववासश्चतुश्ह्पथः .
निशाचरः प्रेतचारी भूतचारी महेश्वरः || 19 ||

बहुभूतो बहुधनः सर्वाधारो.अमितो गतिः .
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः || 20 ||

घोरो महातपाः पाशो नित्यो गिरि चरो नभः .
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः || 27 ||

अमर्श्हणो मर्श्हणात्मा यघ्य़हा कामनाशनः .
दक्शयघ्य़ापहारी च सुसहो मध्यमस्तथा || 22 ||

तेजो.अपहारी बलहा मुदितो.अर्थो.अजितो वरः .
गंभीरघोश्हो गंभीरो गंभीर बलवाहनः || 23 ||

न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः .
सुदीक्श्णदशनश्चैव महाकायो महाननः || 24 ||

विश्ह्वक्सेनो हरिर्यघ्य़ः संयुगापीडवाहनः .
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवित.ह || 25 ||

विश्ह्णुप्रसादितो यघ्य़ः समुद्रो वडवामुखः .
हुताशनसहायश्च प्रशान्तात्मा हुताशनः || 26 ||

उग्रतेजा महातेजा जयो विजयकालवित.ह .
ज्योतिश्हामयनं सिद्धिः संधिर्विग्रह एव च || 27 ||

शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली .
वैणवी पणवी ताली कालः कालकटंकटः || 28 ||

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयो.अगमः .
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः || 29 ||

विमोचनः सुरगणो हिरण्यकवचोद्भवः .
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा || 30 ||

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः .
व्यालरूपो बिलावासी हेममाली तरंगवित.ह || 31 ||

त्रिदशस्त्रिकालधृक.ह कर्म सर्वबन्धविमोचनः .
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः || 32 ||

सांख्यप्रसादो सुर्वासाः सर्वसाधुनिश्हेवितः .
प्रस्कन्दनो विभागश्चातुल्यो यघ्य़भागवित.ह || 33 ||

सर्वावासः सर्वचारी दुर्वासा वासवो.अमरः .
हेमो हेमकरो यघ्य़ः सर्वधारी धरोत्तमः || 34 ||

लोहिताक्शो महा.अक्शश्च विजयाक्शो विशारदः .
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः || 35 ||

मुख्यो.अमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः .
सर्वकामप्रसादश्च सुबलो बलरूपधृक.ह || 36 ||

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः .
आकाशनिधिरूपश्च निपाती उरगः खगः || 37 ||

रौद्ररूपों.अशुरादित्यो वसुरश्मिः सुवर्चसी .
वसुवेगो महावेगो मनोवेगो निशाचरः || 38 ||

सर्वावासी श्रियावासी उपदेशकरो हरः .
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः || 39 ||

पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः .
उन्मादो मदनाकारो अर्थार्थकर रोमशः || 40 ||

वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः .
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः || 41 ||

भिक्शुश्च भिक्शुरूपश्च विश्हाणी मृदुरव्ययः .
महासेनो विशाखश्च श्हश्ह्टिभागो गवांपतिः || 42 ||

वज्रहस्तश्च विश्ह्कंभी चमूस्तंभनैव च .
ऋतुरृतु करः कालो मधुर्मधुकरो.अचलः || 43 ||

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः .
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित.ह || 44 ||

ईशान ईश्वरः कालो निशाचारी पिनाकधृक.ह .
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः || 45 ||

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः .
भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः || 46 ||

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च .
लिंगाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः || 47 ||

बीजाध्यक्शो बीजकर्ता.अध्यात्मानुगतो बलः .
इतिहास करः कल्पो गौतमो.अथ जलेश्वरः || 48 ||

दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः .
लोक कर्ता पशु पतिर्महाकर्ता महौश्हधिः || 49 ||

अक्शरं परमं ब्रह्म बलवान.ह शक्र एव च .
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः || 50 ||

बहुप्रसादः स्वपनो दर्पणो.अथ त्वमित्रजित.ह .
वेदकारः सूत्रकारो विद्वान.ह समरमर्दनः || 51 ||

महामेघनिवासी च महाघोरो वशीकरः .
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः || 52 ||

वृश्हणः शंकरो नित्यो वर्चस्वी धूमकेतनः .
नीलस्तथा.अंगलुब्धश्च शोभनो निरवग्रहः || 53 ||

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः .
उत्संगश्च महांगश्च महागर्भः परो युवा || 54 ||

कृश्ह्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम.ह .
महापादो महाहस्तो महाकायो महायशाः || 55 ||

महामूर्धा महामात्रो महानेत्रो दिगालयः .
महादन्तो महाकर्णो महामेढ्रो महाहनुः || 56 ||

महानासो महाकंबुर्महाग्रीवः श्मशानधृक.ह .
महावक्शा महोरस्को अन्तरात्मा मृगालयः || 57 ||

लंबनो लंबितोश्ह्ठश्च महामायः पयोनिधिः .
महादन्तो महादंश्ह्ट्रो महाजिह्वो महामुखः || 58 ||

महानखो महारोमा महाकेशो महाजटः .
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः || 59 ||

स्नेहनो.अस्नेहनश्चैवाजितश्च महामुनिः .
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः || 60 ||

मण्डली मेरुधामा च देवदानवदर्पहा .
अथर्वशीर्श्हः सामास्य ऋक.ह्सहस्रामितेक्शणः || 61 ||

यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा .
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः || 62 ||

उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः .
नाभिर्नन्दिकरो भाव्यः पुश्ह्करस्थपतिः स्थिरः || 63 ||

द्वादशस्त्रासनश्चाद्यो यघ्य़ो यघ्य़समाहितः .
नक्तं कलिश्च कालश्च मकरः कालपूजितः || 64 ||

सगणो गण कारश्च भूत भावन सारथिः .
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः || 65 ||

अगणश्चैव लोपश्च महा.अ.अत्मा सर्वपूजितः .
शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिश्हेवितः || 66 ||

आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः .
शाखो विशाखस्ताम्रोश्ह्ठो ह्यमुजालः सुनिश्चयः || 67 ||

कपिलो.अकपिलः शूरायुश्चैव परो.अपरः .
गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्य़ेयः सुसारथिः || 68 ||

परश्वधायुधो देवार्थ कारी सुबान्धवः .
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः || 69 ||

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः .
सर्वांगरूपो मायावी सुहृदो ह्यनिलो.अनलः || 70 ||

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः .
सयघ्य़ारिः सकामारिः महादंश्ह्ट्रो महा.अ.अयुधः || 71 ||

बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरो.अधनः .
अमरेशो महादेवो विश्वदेवः सुरारिहा || 72 ||

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा .
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः || 73 ||

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा .
धाता शक्रश्च विश्ह्णुश्च मित्रस्त्वश्ह्टा ध्रुवो धरः || 74 ||

प्रभावः सर्वगो वायुरर्यमा सविता रविः .
उदग्रश्च विधाता च मान्धाता भूत भावनः || 75 ||

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः .
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः || 76 ||

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी .
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः || 77 ||

सर्वाशयो दर्भशायी सर्वेश्हां प्राणिनांपतिः .
देवदेवः मुखो.असक्तः सदसत.ह सर्वरत्नवित.ह || 78 ||

कैलास शिखरावासी हिमवद.ह गिरिसंश्रयः .
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः || 79 ||

वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्च्हदः .
सारग्रीवो महाजत्रु रलोलश्च महौश्हधः || 80 ||

सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः .
सिंहनादः सिंहदंश्ह्ट्रः सिंहगः सिंहवाहनः || 81 ||

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः .
सारंगो नवचक्रांगः केतुमाली सभावनः || 82 ||

भूतालयो भूतपतिरहोरात्रमनिन्दितः || 83 ||

वाहिता सर्वभूतानां निलयश्च विभुर्भवः .
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः || 84 ||

धृतिमान.ह मतिमान.ह दक्शः सत्कृतश्च युगाधिपः .
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः || 85 ||

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम.ह .
प्रतिश्ह्ठायी महाहर्श्हो जितकामो जितेन्द्रियः || 86 ||

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः .
महागीतो महानृत्तोह्यप्सरोगणसेवितः || 87 ||

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः .
आवेदनीय आवेशः सर्वगन्धसुखावहः || 88 ||

तोरणस्तारणो वायुः परिधावति चैकतः .
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः || 89 ||

नित्यात्मसहायश्च देवासुरपतिः पतिः .
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः || 90 ||

आश्हाढश्च सुश्हाडश्च ध्रुवो हरि हणो हरः .
वपुरावर्तमानेभ्यो वसुश्रेश्ह्ठो महापथः || 91 ||

शिरोहारी विमर्शश्च सर्वलक्शण भूश्हितः .
अक्शश्च रथ योगी च सर्वयोगी महाबलः || 92 ||

समाम्नायो.असमाम्नायस्तीर्थदेवो महारथः .
निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः || 93 ||

रत्न प्रभूतो रक्तांगो महा.अर्णवनिपानवित.ह .
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः || 94 ||

आरोहणो निरोहश्च शलहारी महातपाः .
सेनाकल्पो महाकल्पो युगायुग करो हरिः || 95 ||

युगरूपो महारूपो पवनो गहनो नगः .
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः || 96 ||

बहुमालो महामालः सुमालो बहुलोचनः .
विस्तारो लवणः कूपः कुसुमः सफलोदयः || 97 ||

वृश्हभो वृश्हभांकांगो मणि बिल्वो जटाधरः .
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः || 98 ||

निवेदनः सुधाजातः सुगन्धारो महाधनुः .
गन्धमाली च भगवान.ह उत्थानः सर्वकर्मणाम.ह || 99 ||

मन्थानो बहुलो बाहुः सकलः सर्वलोचनः .
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः || 100 ||

च्हत्रं सुच्च्हत्रो विख्यातः सर्वलोकाश्रयो महान.ह .
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः || 101 ||

हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपात.ह .
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः || 102 ||

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत.ह .
पवित्रं त्रिमधुर्मन्त्रः कनिश्ह्ठः कृश्ह्णपिंगलः || 103 ||

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक.ह .
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः || 104 ||

गभस्तिर्ब्रह्मकृद.ह ब्रह्मा ब्रह्मविद.ह ब्राह्मणो गतिः .
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः || 105 ||

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः .
चन्दनी पद्ममाला.अग{}र्यः सुरभ्युत्तरणो नरः || 106 ||

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक.ह .
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः || 107 ||

वरो वराहो वरदो वरेशः सुमहास्वनः .
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः || 108 ||

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक.ह .
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः || 109 ||

चराचरात्मा सूक्श्मात्मा सुवृश्हो गो वृश्हेश्वरः .
साध्यर्श्हिर्वसुरादित्यो विवस्वान.ह सविता.अमृतः || 110 ||

व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः .
ऋतुः संवत्सरो मासः पक्शः संख्या समापनः || 111 ||

कलाकाश्ह्ठा लवोमात्रा मुहूर्तो.अहः क्शपाः क्शणाः .
विश्वक्शेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः || 112 ||

सदसद.ह व्यक्तमव्यक्तं पिता माता पितामहः .
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविश्ह्टपम.ह || 113 ||

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः .
देवासुरविनिर्माता देवासुरपरायणः || 114 ||

देवासुरगुरुर्देवो देवासुरनमस्कृतः .
देवासुरमहामात्रो देवासुरगणाश्रयः || 115 ||

देवासुरगणाध्यक्शो देवासुरगणाग्रणीः .
देवातिदेवो देवर्श्हिर्देवासुरवरप्रदः || 116 ||

देवासुरेश्वरोदेवो देवासुरमहेश्वरः .
सर्वदेवमयो.अचिन्त्यो देवता.अ.अत्मा.अ.अत्मसंभवः || 117 ||

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजो.अंबरः .
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्श्हभः || 118 ||

विबुधाग्रवरः श्रेश्ह्ठः सर्वदेवोत्तमोत्तमः .
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः || 119 ||

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः .
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः || 120 ||

अभिरामः सुरगणो विरामः सर्वसाधनः .
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः || 121 ||

स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः .
सिद्धार्थः सर्वभूतार्थो.अचिन्त्यः सत्यव्रतः शुचिः || 122 ||

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः .
विमुक्तो मुक्ततेजाश्च श्रीमान.ह श्रीवर्धनो जगत.ह || 123 ||

श्रीमान.ह श्रीवर्धनो जगत.ह ॐ नम इति ||

Also Read:

Shiva Sahasranamam Lyrics in Marathi | English

Shiva Sahasranamam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top