Templesinindiainfo

Best Spiritual Website

Vishvamoorti Stotram Lyrics in Marathi

Vishvamoorti Stotram in Marathi:

॥ विश्वमूर्ति स्तोत्रम ॥
अकारणायाखिलकारणाय नमो महाकारणकारणाय ।
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ 1 ॥

नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ।
वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 2 ॥

नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 3 ॥

कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते ।
हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 4 ॥

विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते ।
सूक्ष्मातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥ 5 ॥

अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे ।
नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते ॥ 6 ॥

सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय ।
समस्ततेजोनिधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 7 ॥

यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते ।
नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥ 8 ॥

इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम ।
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं ध्रुवम ॥ 9 ॥

अन्यच्च श्रृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम ।
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥ 10 ॥

ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम ।
निष्कल्मषा भविष्यन्ति सापराधा अपि ध्रुवम ॥ 11 ॥

इति दक्षकृतं विश्वमूर्तिस्तोत्रं संपूर्णम ॥

Also Read:

Vishvamoorti Stotram Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Vishvamoorti Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top