Templesinindiainfo

Best Spiritual Website

Shiva Upanishad Lyrics in Sanskrit

Shiva Upanishads in Sanskrit:

॥ श्रीशिवोपनिषत् ॥
कैलासशिखरासीनमशेषामरपूजितम् ।
कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥ १-१ ॥

सम्पूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।
सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२ ॥

ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।
ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् ॥ १-३ ॥

एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।
मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४ ॥

महादेव उवाच
पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।
देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५ ॥

आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह ।
तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ १-६ ॥

ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।
सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७ ॥

सारादपि महासारं शिवोपनिषदं परम् ।
अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ १-८ ॥

शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः ।
उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९ ॥

अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।
यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१० ॥

गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।
भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११ ॥

पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् ।
पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२ ॥

सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।
मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ १-१३ ॥

षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।
सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४ ॥

यस्माच्छिवः सुसम्पूर्णः सर्वज्ञः सर्वगः प्रभुः ।
तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५ ॥

पशुपाशपरः शान्तः परमज्ञानदेशिकः ।
शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६ ॥

एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् ।
विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७ ॥

सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८ ॥

द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः ।
एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९ ॥

नामसंकीर्तणादेव शिवस्याशेषपातकैः ।
यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः ॥ १-२० ॥

यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् ।
एकाक्षरं वा सततं स याति परमं पदम् ॥ १-२१ ॥

मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् ।
अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥ १-२२ ॥

विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।
आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३ ॥

हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् ।
हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४ ॥

पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् ।
अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥ १-२५ ॥

कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् ।
पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६ ॥

धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।
प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥ १-२७ ॥

इति दिव्योपचारैश्च सम्पूज्य परमं शिवम् ।
जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८ ॥

ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।
मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९ ॥

तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् ।
शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥ १-३० ॥

ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् ।
भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१ ॥

तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।
सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२ ॥

स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् ।
ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३ ॥

विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।
ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥ १-३४ ॥

शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् ।
विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५ ॥

शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः ।
क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६ ॥

कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।
लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७ ॥

॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥

अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् ।
गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१ ॥

यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।
लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२ ॥

भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।
तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥ २-३ ॥

भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।
पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥ २-४ ॥

अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।
ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५ ॥

एत एव त्रयो लोका एत एव त्रयो गुणाः ।
एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६ ॥

नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।
विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥ २-७ ॥

गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।
गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥ २-८ ॥

प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।
भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९ ॥

मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् ।
गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥ २-१० ॥

गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् ।
गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११ ॥

जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।
प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२ ॥

मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।
प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥ २-१३ ॥

प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् ।
प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ २-१४ ॥

नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।
प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ २-१५ ॥

पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् ।
प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥ २-१६ ॥

स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् ।
तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ २-१७ ॥

स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् ।
कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ २-१८ ॥

शमीन्धनकुशस्थानमायुधानां च नैरृतम् ।
सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ २-१९ ॥

श्रीमदायतनं शम्भोर्योगिनां विजने वने ।
शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२० ॥

मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।
महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१ ॥

कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् ।
लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२ ॥

पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् ।
पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३ ॥

अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् ।
शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४ ॥

एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।
अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५ ॥

प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् ।
महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ २-२६ ॥

गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् ।
यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥ २-२७ ॥

दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् ।
सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥ २-२८ ॥

कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् ।
रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९ ॥

एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं श‍ृणु ।
कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३० ॥

कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।
विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।
तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥ २-३१ ॥

॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥

अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।
शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥ ३-१ ॥

गृहस्येशानदिग्भागे कार्यमुत्तरतो ऽपि वा ।
खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२ ॥

शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।
दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥ ३-३ ॥

हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् ।
चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥ ३-४ ॥

गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् ।
उदगर्वाक्च्छ्रितां(?) किंचिच्चतुःशीर्षकसंयुताम् ॥ ३-५ ॥

त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् ।
तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६ ॥

शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।
मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥ ३-७ ॥

शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।
स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥ ३-८ ॥

षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।
गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥ ३-९ ॥

त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।
सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥ ३-१० ॥

सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् ।
आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११ ॥

वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् ।
तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥ ३-१२ ॥

निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।
यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३ ॥

तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।
प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।
तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४ ॥

॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥

अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् ।
पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१ ॥

तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् ।
पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२ ॥

द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् ।
तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३ ॥

दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् ।
सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥ ४-४ ॥

द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् ।
अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५ ॥

गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् ।
धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६ ॥

आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।
ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७ ॥

शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।
चतुरश्रवेदि(kA) श्रीमन्मेखलात्रयभूषितम् ॥ ४-८ ॥

कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् ।
शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥ ४-९ ॥

जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् ।
बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ ४-१० ॥

ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् ।
चतुःप्रेगीवकोपेतम्(?) एकप्रेगीवकेन वा(?) ॥ ४-११ ॥

सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् ।
शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ ४-१२ ॥

बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।
तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३ ॥

कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।
द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४ ॥

अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।
दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५ ॥

रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।
सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ ४-१६ ॥

वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।
वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ ४-१७ ॥

अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।
व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८ ॥

प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् ।
पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ ४-१९ ॥

मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् ।
भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२० ॥

शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् ।
शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ ४-२१ ॥

ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।
धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२ ॥

गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।
अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥ ४-२३ ॥

इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् ।
अप्येकं दिवसं भक्त्या तस्य पुण्यफलं श‍ृणु ॥ ४-२४ ॥

कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।
कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥ ४-२५ ॥

नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।
हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६ ॥

ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।
इच्छया क्रीडते तावद्यावदाभूतसम्प्लवम् ॥ ४-२७ ॥

ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् ।
दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ ४-२८ ॥

ततः सम्पृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् ।
तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥ ४-२९ ॥

अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।
पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३० ॥

सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् ।
ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१ ॥

इत्येतदखिलं कार्यं फलमुक्तं समासतः ।
उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ ४-३२ ॥

सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् ।
कर्पासास्थिप्रमाणं च हुत्वाग्नौ श‍ृणुयात्फलम् ॥ ४-३३ ॥

यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।
तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४ ॥

एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् ।
वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥ ४-३५ ॥

यावत्केसरसंख्यानं कुसुमस्यानले हुतम् ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६ ॥

नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् ।
यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥ ४-३७ ॥

यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः ।
पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥ ४-३८ ॥

हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।
पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥ ४-३९ ॥

पलाशाङ्कुरजारिष्ट- पालाल्यः(?) समिधः शुभाः ।
पृषदाज्यप्लुता हुत्वा श‍ृणु यत्फलमाप्नुयात् ॥ ४-४० ॥

पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् ।
तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१ ॥

तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।
कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२ ॥

शमीसमित्फलं देयमब्दानपि च लक्षकम् ।
शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३ ॥

तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता(?) यावती भवेत् ।
तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४ ॥

यावत्सुरौषधीरज्ञस्(?) तिलतुल्यफलं स्मृतम् ।
इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥ ४-४५ ॥

लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।
दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६ ॥

पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् ।
क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् ॥ ४-४७ ॥

असमिद्धे सधूमे च होमकर्म निरर्थकम् ।
अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८ ॥

न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् ।
शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥ ४-४९ ॥

एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् ।
तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् ॥ ४-५० ॥

स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।
याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१ ॥

एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।
सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२ ॥

अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।
आभूतसम्प्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् ॥ ४-५३ ॥

ततश्च प्रलये प्राप्ते सम्प्राप्य ज्ञानमुत्तमम् ।
प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥ ४-५४ ॥

शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।
सो ऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥ ४-५५ ॥

शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।
ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६ ॥

शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।
ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७ ॥

पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् ।
होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८ ॥

सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम् ।
प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम्(?) ॥ ४-५९ ॥

इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् ।
दूर्वया बिल्वपत्त्रैर्वा समिधः सम्प्रकीर्तिताः ॥ ४-६० ॥

अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।
तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१ ॥

परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् ।
इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२ ॥

गोमयानामभावेन महत्यम्भसि होमयेत् ।
अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३ ॥

विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।
छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ ४-६४ ॥

स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।
अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५ ॥

आपत्काले ऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् ।
स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥ ४-६६ ॥

प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।
बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७ ॥

॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥

अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् ।
सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥ ५-१ ॥

अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् ।
भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥ ५-२ ॥

यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् ।
रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३ ॥

यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्(?) ।
अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४ ॥

आहारमर्धभुक्तं च कीटकेशादिदूषितम् ।
तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५ ॥

आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।
शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६ ॥

स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।
गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७ ॥

सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम्(duHkhopAr) ।
शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥ ५-८ ॥

भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।
मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९ ॥

पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् ।
शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥ ५-१० ॥

जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम् ।
पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः(?) ॥ ५-११ ॥

शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।
भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥ ५-१२ ॥

भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् ।
जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥ ५-१३ ॥

अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् ।
नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४ ॥

स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् ।
असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥ ५-१५ ॥

त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।
आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥ ५-१६ ॥

संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने ।
शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७ ॥

भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।
ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८ ॥

एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।
न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९ ॥

गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।
यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥ ५-२० ॥

शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् ।
हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१ ॥

गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।
शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥ ५-२२ ॥

संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।
यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं श‍ृनु ॥ ५-२३ ॥

शिवभस्मनि यावन्तः समेताः परमाणवः ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४ ॥

एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।
मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५ ॥

तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् ।
ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥ ५-२६ ॥

भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(?) ।
अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७ ॥

भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।
ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥ ५-२८ ॥

इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् ।
त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥ ५-२९ ॥

भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।
कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३० ॥

आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् ।
मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥ ५-३१ ॥

आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् ।
अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२ ॥

मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् ।
ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् ॥ ५-३३ ॥

गवां खुरपुटोत्खात- पवनोद्धूतरेणुना ।
कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४ ॥

व्यभ्रे ऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।
आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥ ५-३५ ॥

उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् ।
अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६ ॥

पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।
तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७ ॥

न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।
पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८ ॥

आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।
क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९ ॥

यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् ।
यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥ ५-४० ॥

ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।
निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥ ५-४१ ॥

मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।
नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२ ॥

एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् ।
अशुद्धभावः स्नातो ऽपि पूजयन्नाप्नुयात्फलम् ॥ ५-४३ ॥

जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।
ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥ ५-४४ ॥

अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् ।
तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५ ॥

यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।
तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(?) ॥ ५-४६ ॥

मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।
करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥ ५-४७ ॥

वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् ।
शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥ ५-४८ ॥

देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।
उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९ ॥

प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा ।
तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५० ॥

सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।
प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१ ॥

पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् ।
उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥ ५-५२ ॥

॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥

अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।
यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥ ६-१ ॥

यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् ।
शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२ ॥

यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् ।
गुरोर्वा होमयेद्वापि तस्य पुण्यफलं श‍ृणु ॥ ६-३ ॥

श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।
वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥ ६-४ ॥

कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५ ॥

एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।
वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६ ॥

एकं वटफलं पक्वं यः शिवाय निवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७ ॥

यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् ।
शिवाय गुरवे वापि तस्य पुण्यफलं श‍ृणु ॥ ६-८ ॥

यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् ।
तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९ ॥

द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् ।
भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं श‍ृणु ॥ ६-१० ॥

यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११ ॥

द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।
तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२ ॥

यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।
अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३ ॥

बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।
जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४ ॥

पनसं नारिकेलं वा शिवाय विनिवेदयेत् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५ ॥

पुरुषं च प्रियालं च मधूककुसुमानि च ।
जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६ ॥

निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।
दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७ ॥

क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् ।
वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८ ॥

वालुकात्रपुसादीनि यः फलानि निवेदयेत् ।
शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥ ६-१९ ॥

दशवर्षसहस्राणि रुद्रलोके महीयते ।
बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२० ॥

दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।
एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१ ॥

निवेदयति शर्वाय श‍ृणु यत्फलमाप्नुयात् ।
एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२ ॥

पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।
गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥ ६-२३ ॥

निवेदयीत शर्वाय तस्य पुण्यफलं श‍ृणु ।
यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥ ६-२४ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥ ६-२५ ॥

गुरवे वापि तद्भक्त्या तस्य पुण्यफलं श‍ृणु ।
इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६ ॥

साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् ।
निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७ ॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।
निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा ॥ ६-२८ ॥

रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।
गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥ ६-२९ ॥

अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।
खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥ ६-३० ॥

खण्डात्सहस्रगुणितं शर्कराया निवेदने ।
मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥ ६-३१ ॥

कल्पकोटिं नरः साग्रं शिवलोके महीयते ।
परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥ ६-३२ ॥

मासं निवेद्य शर्वाय श‍ृणु यत्फलमाप्नुयात् ।
अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥ ६-३३ ॥

तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।
पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४ ॥

निवेदयेत्तु शर्वाय तस्य पुण्यफलं श‍ृणु ।
कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५ ॥

पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।
दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥ ६-३६ ॥

सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं श‍ृणु ।
महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७ ॥

तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।
यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥ ६-३८ ॥

तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।
न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥ ६-३९ ॥

किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।
न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥ ६-४० ॥

पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् ।
सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥ ६-४१ ॥

अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् ।
तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२ ॥

तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।
यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥ ६-४३ ॥

नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् ।
यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४ ॥

तावद्वर्षसहस्राणि सुरलोके महीयते ।
पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५ ॥

दत्त्वा शिवाय गुरवे श‍ृणु यत्फलमाप्नुयात् ।
यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥ ६-४६ ॥

तावदब्दायुतानां स लोके भोगानवाप्नुयात् ।
यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥ ६-४७ ॥

तावन्ति वर्षलक्षाणि शिवलोके महीयते ।
यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥ ६-४८ ॥

ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं श‍ृणु ।
यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥ ६-४९ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥ ६-५० ॥

इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् ।
फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१ ॥

कामिकेन विमानेन क्रीडते स शिवे पुरे ।
त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२ ॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।
पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥ ६-५३ ॥

वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।
यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥ ६-५४ ॥

मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।
मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५ ॥

प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।
माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसम्पुटान् ॥ ६-५६ ॥

दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते ।
तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ ६-५७ ॥

वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् ।
पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥ ६-५८ ॥

मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् ।
यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥ ६-५९ ॥

दद्यादाधारपात्राणि शिवलोके स गच्छति ।
वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥ ६-६० ॥

इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् ।
यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥ ६-६१ ॥

वर्षकोटिं महाभागैः शिवलोके महीयते ।
यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥ ६-६२ ॥

शिवाय गुरवे वापि तस्य पुण्यफलं श‍ृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ६-६३ ॥

स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः ।
विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ ६-६४ ॥

भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः ।
मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥ ६-६५ ॥

गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् ।
यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥ ६-६६ ॥

शिवायगुरवे वापि तस्य पुण्यफलं श‍ृणु ।
कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-६७ ॥

यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् ।
घृततैलनदीयुक्तं तस्य पुण्यफलं श‍ृणु ॥ ६-६८ ॥

कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ।
समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ ६-६९ ॥

तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः ।
कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥ ६-७० ॥

घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् ।
निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥ ६-७१ ॥

द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् ।
अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥ ६-७२ ॥

मरिचाढेन कुर्वीत(?) मारीचं नाम पर्वतम् ।
दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥ ६-७३ ॥

दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् ।
पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥ ६-७४ ॥

कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते ।
कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ ६-७५ ॥

ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् ।
सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥ ६-७६ ॥

यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते ।
तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-७७ ॥

कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् ।
दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥ ६-७८ ॥

पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते ।
न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥ ६-७९ ॥

कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् ।
उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ ६-८० ॥

अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् ।
शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥ ६-८१ ॥

यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८२ ॥

मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् ।
आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥ ६-८३ ॥

पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् ।
कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥ ६-८४ ॥

कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः ।
पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥ ६-८५ ॥

यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८६ ॥

दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् ।
वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ ६-८७ ॥

गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् ।
निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥ ६-८८ ॥

हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् ।
निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ ६-८९ ॥

वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् ।
कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ ६-९० ॥

यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः ।
क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं श‍ृणु ॥ ६-९१ ॥

कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः ।
समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ ६-९२ ॥

तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः ।
आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ६-९३ ॥

यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः ।
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ ६-९४ ॥

जन्मकोटिसहस्राणि जन्मकोटिशतानि च ।
राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥ ६-९५ ॥

एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।
रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ ६-९६ ॥

दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् ।
शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६-९७ ॥

इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।
मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६-९८ ॥

मसूरमात्रमपि यः पद्मरागं सुशोभनम् ।
निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ ६-९९ ॥

निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् ।
भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६-१०० ॥

कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् ।
शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ ६-१०१ ॥

हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् ।
निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६-१०२ ॥

क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।
मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६-१०३ ॥

यथा यथा महारत्नं शोभनं च यथा यथा ।
तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ ६-१०४ ॥

भूमिभागे स(?)विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् ।
अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥ ६-१०५ ॥

तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् ।
अनेकशिखराकीर्णमशेषामरसंयुतम् ॥ ६-१०६ ॥

बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् ।
चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥ ६-१०७ ॥

चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः ।
चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥ ६-१०८ ॥

मेरुप्रासादमित्येवं हेमरत्नविभूषितम् ।
यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् ॥ ६-१०९ ॥

भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते ।
शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ ६-११० ॥

कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः ।
कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ ६-१११ ॥

आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः ।
यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ ६-११२ ॥

न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः ।
सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ ६-११३ ॥

यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(?) ।
तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ ६-११४ ॥

शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् ।
वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ ६-११५ ॥

शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् ।
ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥ ६-११६ ॥

त्रिशूलसव्यहस्तां च वरदाभयदायिकां ।
सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥ ६-११७ ॥

पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् ।
विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥ ६-११८ ॥

सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् ।
अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥ ६-११९ ॥

कुर्यादसंभवे हेम्नस्तारेण विमलेन च ।
आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥ ६-१२० ॥

अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् ।
कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ ६-१२१ ॥

एकां सपरिवारां वा पार्वतीं गणसंयुताम् ।
प्रतीहारसमोपेतां(?) कुर्यादेवाविकल्पतः ॥ ६-१२२ ॥

पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् ।
चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥ ६-१२३ ॥

पृथक्पृथगनेकानि कारयित्वा मुखानि तु ।
सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ ६-१२४ ॥

नानाभरणयुक्तानि हेमरौप्यकृतानि च ।
शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥ ६-१२५ ॥

उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् ।
कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥ ६-१२६ ॥

मातुः पितुः सहोपायैर्(?) दशभिर्दशभिः कुलैः ।
कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ ६-१२७ ॥

अयुतेन विमानानां सर्वकामयुतेन च ।
भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥ ६-१२८ ॥

मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् ।
अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥ ६-१२९ ॥

कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे ।
सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ ६-१३० ॥

धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे ।
क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ ६-१३१ ॥

एषामेकतमं पुण्यं कृत्वा पापविवर्जितः ।
शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥ ६-१३२ ॥

रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः ।
सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥ ६-१३३ ॥

रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् ।
यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥ ६-१३४ ॥

पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् ।
कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥ ६-१३५ ॥

पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् ।
चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ ६-१३६ ॥

लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् ।
बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥ ६-१३७ ॥

कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् ।
पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥ ६-१३८ ॥

महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् ।
ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ ६-१३९ ॥

मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् ।
पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥ ६-१४० ॥

चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् ।
दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥ ६-१४१ ॥

नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।
महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ ६-१४२ ॥

भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् ।
ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥ ६-१४३ ॥

अवधार्य जगद्धात्री प्रतिमामवतारयेत् ।
महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा ॥ ६-१४४ ॥

वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्(?) ।
वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥ ६-१४५ ॥

सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् ।
मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥ ६-१४६ ॥

कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः ।
उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥ ६-१४७ ॥

वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् ।
नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ ६-१४८ ॥

रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् ।
अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥ ६-१४९ ॥

कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः ।
आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥ ६-१५० ॥

कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् ।
तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥ ६-१५१ ॥

विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् ।
रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ ६-१५२ ॥

महापूजाविशेषैश्च कौतूहलसमन्वितम् ।
वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥ ६-१५३ ॥

तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः ।
ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ ६-१५४ ॥

महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् ।
ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥ ६-१५५ ॥

शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च ।
शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ ६-१५६ ॥

राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् ।
धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ ६-१५७ ॥

कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा ।
सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ ६-१५८ ॥

दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः ।
बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ ६-१५९ ॥

एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् ।
अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥ ६-१६० ॥

शिवमालां समादाय सदासीपरिचारिकः ।
फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥ ६-१६१ ॥

पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः ।
अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ ६-१६२ ॥

ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः ।
प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ ६-१६३ ॥

तोयं यथा घटीसंस्थमजस्रं क्षरते तथा ।
क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥ ६-१६४ ॥

यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् ।
तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥ ६-१६५ ॥

कलत्रपुत्रमित्राणि पिता माता च बान्धवाः ।
तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ ६-१६६ ॥

नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा ।
यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति ॥ ६-१६७ ॥

तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् ।
समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ ६-१६८ ॥

उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् ।
तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ ६-१६९ ॥

इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् ।
ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ ६-१७० ॥

येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी ।
प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ ६-१७१ ॥

ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः ।
गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥ ६-१७२ ॥

दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च ।
तर्पयेच्चानतान्(?) भक्त्या वादित्रध्वजवाहकान् ॥ ६-१७३ ॥

एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे ।
शोभया राजमार्गेण तस्य धर्मफलं श‍ृणु ॥ ६-१७४ ॥

समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।
शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ ६-१७५ ॥

तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः ।
कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥ ६-१७६ ॥

रथस्य यात्रां यः कुर्यादित्येवमुपशोभया ।
भक्षभोज्यप्रदानैश्च तत्फलं श‍ृनु यत्नतः ॥ ६-१७७ ॥

अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः ।
कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ ६-१७८ ॥

सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः ।
महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ ६-१७९ ॥

इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ।
ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ ६-१८० ॥

शिवस्य रथयात्रायामुपवासपरः क्षमी ।
पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं श‍ृणु ॥ ६-१८१ ॥

अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः ।
महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते᳚ ॥ ६-१८२ ॥

ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः ।
धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ ६-१८३ ॥

गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया ।
सम्पर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ ६-१८४ ॥

शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः ।
प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् ॥ ६-१८५ ॥

नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च ।
कुर्वीत रथयात्रायां रमते च विभूषिता ॥ ६-१८६ ॥

ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः ।
क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ ६-१८७ ॥

महता ज्ञानसङ्घेन तस्माच्छिवरथेन च ।
पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ ६-१८८ ॥

श्रीपर्वते महाकाले वाराणस्यां महालये ।
जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ ६-१८९ ॥

गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे ।
भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ ६-१९० ॥

एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः ।
जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ ६-१९१ ॥

प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् ।
श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥ ६-१९२ ॥

प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् ।
श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् ॥ ६-१९३ ॥

व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते ।
पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥ ६-१९४ ॥

तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः ।
कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ ६-१९५ ॥

तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् ।
क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥ ६-१९६ ॥

संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः ।
पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ ६-१९७ ॥

अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः ।
तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ ६-१९८ ॥

दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् ।
मोदते स शिवे लोके युगकोटिशतं नरः ॥ ६-१९९ ॥

आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् ।
अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं श‍ृणु ॥ ६-२०० ॥

यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-२०१ ॥

मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः ।
रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥ ६-२०२ ॥

गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः ।
सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ ६-२०३ ॥

निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः ।
संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०४ ॥

दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः ।
कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ ६-२०५ ॥

अपि योजनमात्राय शिबिकां परिकल्पयेत् ।
गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं श‍ृणु ॥ ६-२०६ ॥

विमानानां सहस्रेण सर्वकामयुतेन च ।
कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०७ ॥

छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् ।
बालक्रीडनकानेतानित्याद्यानपरानपि ॥ ६-२०८ ॥

निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् ।
भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ ६-२०९ ॥

मुसलोलूखलाद्यानि गृहोपकरणानि च ।
दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं श‍ृणु ॥ ६-२१० ॥

प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः ।
अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥ ६-२११ ॥

खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् ।
दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥ ६-२१२ ॥

प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् ।
कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ ६-२१३ ॥

सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः ।
कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥ ६-२१४ ॥

यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् ।
भोजयीत यथाशक्त्या शिवलोके महीयते ॥ ६-२१५ ॥

यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने ।
स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥ ६-२१६ ॥

यः समुद्धरते मार्गे मात्रोपकरणासनम् ।
शिवयोगप्रवृत्तस्य तस्य पुण्यफलं श‍ृणु ॥ ६-२१७ ॥

कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे ।
तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥ ६-२१८ ॥

अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः ।
कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥ ६-२१९ ॥

अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् ।
दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ ६-२२० ॥

पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् ।
तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ ६-२२१ ॥

नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् ।
राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥ ६-२२२ ॥

यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् ।
शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् ॥ ६-२२३ ॥

शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् ।
गवां लक्षप्रदानस्य सम्पूर्णं फलमाप्नुयात् ॥ ६-२२४ ॥

प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् ।
दूर्वां च बालवत्सानां(?) तस्य पुण्यफलं श‍ृणु ॥ ६-२२५ ॥

यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् ।
तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२२६ ॥

विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् ।
आभूतस्सम्प्लवं यावच्छिवलोके महीयते ॥ ६-२२७ ॥

दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः ।
त्रिः पृथ्वीं रत्नसम्पूर्णां यद्दत्त्वा तत्फलं लभेत् ॥ ६-२२८ ॥

विनयव्रतदानानि यानि सिद्धानि लोकतः ।
तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥ ६-२२९ ॥

निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।
प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥ ६-२३० ॥

पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये ।
सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥ ६-२३१ ॥

नासिकाशोधनं दद्यात्संदंशं शिवयोगिने ।
वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३२ ॥

नखच्छेदनकं दत्त्वा शिवलोके महीयते ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३३ ॥

दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने ।
भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥ ६-२३४ ॥

कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने ।
वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३५ ॥

दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् ।
वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ ६-२३६ ॥

निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् ।
वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ ६-२३७ ॥

दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३८ ॥

दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् ।
पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-२३९ ॥

शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः ।
क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥ ६-२४० ॥

शिवाश्रमोपभोगाय लोहोपकरणं महत् ।
यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं श‍ृणु ॥ ६-२४१ ॥

यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् ।
तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ ६-२४२ ॥

शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति ।
धनुःखड्गायुधादीनि तस्य पुण्यफलं श‍ृणु ॥ ६-२४३ ॥

एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् ।
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ ६-२४४ ॥

यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् ।
शिवाय गुरवे वापि तस्य पुण्यफलं श‍ृणु ॥ ६-२४५ ॥

यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः ।
वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ ६-२४६ ॥

नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् ।
शिवात्मकं शिवायैव तस्य पुण्यफलं श‍ृणु ॥ ६-२४७ ॥

यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६-२४८ ॥

देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः ।
न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥ ६-२४९ ॥

ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् ।
शिवात्मकं शिवायैव तस्य पुण्यफलं श‍ृणु ॥ ६-२५० ॥

यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६-२५१ ॥

स्नानसत्त्रोपभोगाय तस्य पुण्यफलं श‍ृणु ।
यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥ ६-२५२ ॥

पले पले वर्षकोटिं मोदते स शिवे पुरे ।
यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥ ६-२५३ ॥

तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् ।
दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥ ६-२५४ ॥

यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् ।
यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥ ६-२५५ ॥

स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् ।
यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥ ६-२५६ ॥

प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं श‍ृणु ।
तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ ६-२५७ ॥

तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ ६-२५८ ॥

चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं श‍ृणु ।
यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ ६-२५९ ॥

तावद्युगानि संभोगैः शिवलोके महीयते ।
शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥ ६-२६० ॥

प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं श‍ृणु ।
दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥ ६-२६१ ॥

कल्पकोट्ययुतं साग्रं शिवलोके महीयते ।
शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ ६-२६२ ॥

निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् ।
स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥ ६-२६३ ॥

शैलजानां तदर्धेन पात्राणां च तदर्धकम् ।
तालखर्जूरपात्राणां वंशजानां निवेदने ॥ ६-२६४ ॥

अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् ।
वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ ६-२६५ ॥

नानापर्णपुटाणां च साराणां वा फलार्धकम् ।
यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ ६-२६६ ॥

स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने ।
ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥ ६-२६७ ॥

भोजने भोजनाधारं गुरवे तत्फलं श‍ृणु ।
यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ ६-२६८ ॥

तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ ६-२६९ ॥

दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् ।
यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥ ६-२७० ॥

वंशजं दारुजं वापि तस्य पुण्यफलं श‍ृणु ।
दिव्यस्त्रीभोगसम्पन्नो विमाने महति स्थितः ॥ ६-२७१ ॥

चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे ।
भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥ ६-२७२ ॥

दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः ।
संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ ६-२७३ ॥

कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं श‍ृणु ।
तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ ६-२७४ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥ ६-२७५ ॥

यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा ।
एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥ ६-२७६ ॥

शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं श‍ृणु ।
यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ ६-२७७ ॥

तावच्चतुर्युगं देही शिवलोके महीयते ।
यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ ६-२७८ ॥

तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् ।
यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥ ६-२७९ ॥

स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति ।
कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ ६-२८० ॥

अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?) ।
अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥ ६-२८१ ॥

आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् ।
शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ ६-२८२ ॥

तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् ।
अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥ ६-२८३ ॥

शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः ।
सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् ।
दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ ६-२८४ ॥

॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥

अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः ।
सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥ ७-१ ॥

शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति ।
गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥ ७-२ ॥

नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः ।
अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥ ७-३ ॥

शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् ।
शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ ७-४ ॥

गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् ।
कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ ७-५ ॥

न विविक्तमनाचान्तम्(?) चङ्क्रमन्तं तथाकुलम् ।
समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ ७-६ ॥

व्याख्याने तत्समाप्तौ च सम्प्रश्ने स्नानभोजने ।
भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥ ७-७ ॥

ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् ।
सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ ७-८ ॥

पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् ।
शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ ७-९ ॥

शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् ।
प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ ७-१० ॥

पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् ।
आवार्य पदसम्प्राप्तौ पवित्रे चोपविग्रहे ॥ ७-११ ॥

उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् ।
पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥ ७-१२ ॥

हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् ।
पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ ७-१३ ॥

हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः ।
न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥ ७-१४ ॥

प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह ।
असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ ७-१५ ॥

अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः ।
न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ ७-१६ ॥

दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् ।
अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ ७-१७ ॥

न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् ।
न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ ७-१८ ॥

न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः ।
उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ ७-१९ ॥

गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ ।
पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥ ७-२० ॥

यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः ।
पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥ ७-२१ ॥

न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् ।
समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ ७-२२ ॥

स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् ।
गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ ७-२३ ॥

अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् ।
नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥ ७-२४ ॥

गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् ।
कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ ७-२५ ॥

मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् ।
पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥ ७-२६ ॥

भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः ।
आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥ ७-२७ ॥

गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् ।
कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥ ७-२८ ॥

पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् ।
गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥ ७-२९ ॥

यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः ।
अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ ७-३० ॥

नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् ।
आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥ ७-३१ ॥

पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् ।
क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥ ७-३२ ॥

अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् ।
गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ ७-३३ ॥

प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् ।
नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ ७-३४ ॥

स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् ।
तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥ ७-३५ ॥

गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् ।
अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ ७-३६ ॥

न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा ।
नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥ ७-३७ ॥

गुरुरेव पिता माता गुरुरेव परः शिवः ।
यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ ७-३८ ॥

आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः ।
तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥ ७-३९ ॥

यज्ञस्तपांसि नियमात्तानि वै विविधानि च ।
गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः ॥ ७-४० ॥

अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् ।
शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥ ७-४१ ॥

इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ७-४२ ॥

स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् ।
दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥ ७-४३ ॥

रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् ।
अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥ ७-४४ ॥

गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः ।
यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ ७-४५ ॥

धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते ।
प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ ७-४६ ॥

न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः ।
कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥ ७-४७ ॥

पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् ।
पात्रास्तरितपादश्च(?) नित्यं भुञ्जीत वाग्यतः ॥ ७-४८ ॥

न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते ।
शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥ ७-४९ ॥

न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च ।
न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ ७-५० ॥

केशास्थीनि कपालानि कार्पासास्थितुषाणि च ।
अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ ७-५१ ॥

न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् ।
न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥ ७-५२ ॥

एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् ।
न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ ७-५३ ॥

न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा ।
न नखांश्च नखैर्विद्यान्न कण्डूयेन्नखैस्तनुम् ॥ ७-५४ ॥

मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः ।
न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ ७-५५ ॥

सौवर्ण्यरौप्यताम्रैश्च श‍ृङ्गदन्तशलाकया ।
देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(?) ॥ ७-५६ ॥

न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् ।
न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥ ७-५७ ॥

न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः ।
चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ७-५८ ॥

न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति ।
लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥ ७-५९ ॥

न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् ।
न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥ ७-६० ॥

नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् ।
न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥ ७-६१ ॥

शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् ।
ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ ७-६२ ॥

कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः ।
शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः ॥ ७-६३ ॥

नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् ।
हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥ ७-६४ ॥

न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते ।
न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ ७-६५ ॥

देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि ।
प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् ॥ ७-६६ ॥

वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् ।
तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ ७-६७ ॥

देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु ।
नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ ७-६८ ॥

न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् ।
न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥ ७-६९ ॥

तृणकाष्ठादिगहने जन्तुभिश्च समाकुले ।
स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥ ७-७० ॥

अग्निं युगपदानीय धारयेत प्रयत्नतः ।
ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ ७-७१ ॥

शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् ।
शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ ७-७२ ॥

भोगान्ददाति विपुलान्लिङ्गे सम्पूजितः शिवः ।
अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ ७-७३ ॥

मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् ।
गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥ ७-७४ ॥

सर्वपर्वसु यत्नेन ह्येषु सम्पूजयेच्छिवम् ।
कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ ७-७५ ॥

नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते ।
संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥ ७-७६ ॥

अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् ।
भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ ७-७७ ॥

पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु ।
दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥ ७-७८ ॥

प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः ।
एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ ७-७९ ॥

छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् ।
इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥ ७-८० ॥

अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् ।
कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥ ७-८१ ॥

ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् ।
स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥ ७-८२ ॥

द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् ।
नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥ ७-८३ ॥

नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् ।
सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥ ७-८४ ॥

न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः ।
दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥ ७-८५ ॥

नाधार्मिकनृपाक्रान्ते न दंशमशकावृते ।
नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥ ७-८६ ॥

नासनं शयनं पानं नमस्काराभिवादनम् ।
सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥ ७-८७ ॥

आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि ।
वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥ ७-८८ ॥

यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् ।
शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥ ७-८९ ॥

उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् ।
आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥ ७-९० ॥

पालाशमासनं शय्यां पादुके दन्तधावनम् ।
वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥ ७-९१ ॥

संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् ।
स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥ ७-९२ ॥

यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः ।
क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं श‍ृणु ॥ ७-९३ ॥

यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ७-९४ ॥

कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने ।
क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥ ७-९५ ॥

नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति ।
करोति च परित्राणं तस्य पुण्यफलं श‍ृणु ॥ ७-९६ ॥

कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः ।
मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥ ७-९७ ॥

तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः ।
स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ७-९८ ॥

गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः ।
मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥ ७-९९ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥ ७-१०० ॥

अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः ।
अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ ७-१०१ ॥

दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः ।
योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ ७-१०२ ॥

न विन्दति नरो योगं पुत्रदारादिसंगतः ।
निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ ७-१०३ ॥

मोहात्कुटुम्बसंसक्तस्तृष्णया श‍ृङ्खलीकृतः ।
बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते ॥ ७-१०४ ॥

इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना ।
मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ ७-१०५ ॥

सम्पर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः ।
स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ ७-१०६ ॥

कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः ।
तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥ ७-१०७ ॥

येनैतद्योजितं गर्भे येन चैव विवर्धितम् ।
तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते ॥ ७-१०८ ॥

न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् ।
यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥ ७-१०९ ॥

येन यत्र कृतं कर्म स तत्रैव प्रजायते ।
पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ ७-११० ॥

न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च ।
करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ ७-१११ ॥

कर्मदायादसंबन्धादुपकारः परस्परम् ।
दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ ७-११२ ॥

ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ।
ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ ७-११३ ॥

द्वयं देवत्वमोक्षाय ममेति न ममेति च ।
ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ७-११४ ॥

द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ ७-११५ ॥

तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः ।
विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥ ७-११६ ॥

ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् ।
कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥ ७-११७ ॥

न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् ।
दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥ ७-११८ ॥

सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि ।
तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ ७-११९ ॥

स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् ।
याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥ ७-१२० ॥

यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् ।
कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥ ७-१२१ ॥

यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।
सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ ७-१२२ ॥

अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् ।
यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ ७-१२३ ॥

मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् ।
वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ ७-१२४ ॥

न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः ।
सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ ७-१२५ ॥

तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् ।
यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥ ७-१२६ ॥

तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् ।
संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥ ७-१२७ ॥

विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते ।
स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥ ७-१२८ ॥

ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु ।
विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ ७-१२९ ॥

विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् ।
न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ ७-१३० ॥

इति नामामृतं दिव्यं महाकालादवाप्तवान् ।
विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः(?) सुनिश्चितम् ॥ ७-१३१ ॥

प्रज्ञामथा विनिर्मथ्य(?) शिवज्ञानमहोदधिम् ।
ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥ ७-१३२ ॥

शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे ।
यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥ ७-१३३ ॥

त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् ।
तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥ ७-१३४ ॥

नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः ।
चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥ ७-१३५ ॥

एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः ।
सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ ७-१३६ ॥

तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः ।
व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ ७-१३७ ॥

ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् ।
ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ ७-१३८ ॥

ये समुत्थाय श‍ृण्वन्ति शिवधर्मं दिने दिने ।
ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ ७-१३९ ॥

शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् ।
ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ ७-१४० ॥

॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥

॥ इति शिवोपनिषत्समाप्ता ॥

Also Read:

Shiva Upanishad Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Upanishad Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top