Hinduism Perspective Marathi Stotras Shiva Stotram

Shiva Upanishad lyrics in Marathi

Shiva Upanishads in Marathi:

॥ शिव उपनिषद ॥
कैलासशिखरासीनमशेषामरपूजितम ।
कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम ॥ १-१ ॥

संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।
सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२ ॥

ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।
ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात ॥ १-३ ॥

एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।
मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४ ॥

महादेव उवाच
पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।
देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५ ॥

आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य न‍ईणामिह ।
तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम ॥ १-६ ॥

ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।
सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७ ॥

सारादपि महासारं शिवोपनिषदं परम ।
अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम ॥ १-८ ॥

शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः ।
उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९ ॥

अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।
यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१० ॥

गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।
भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११ ॥

पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम ।
पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२ ॥

सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।
मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात ॥ १-१३ ॥

षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।
सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४ ॥

यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः ।
तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५ ॥

पशुपाशपरः शान्तः परमज्ञानदेशिकः ।
शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६ ॥

एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम ।
विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७ ॥

सकृदुच्चारितं येन शिव इत्यक्षरद्वयम ।
बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८ ॥

द्व्यक्षरः शिवमन्त्रो .अयं शिवोपनिषदि स्मृतः ।
एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९ ॥

नामसंकीर्तणादेव शिवस्याशेषपातकैः ।
यतः प्रमुच्यते क्षिप्रं मन्त्रो .अयं द्व्यक्षरः परः ॥ १-२० ॥

यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत ।
एकाक्षरं वा सततं स याति परमं पदम ॥ १-२१ ॥

मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम ।
अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम ॥ १-२२ ॥

विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।
आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३ ॥

हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम ।
हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४ ॥

पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम ।
अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम ॥ १-२५ ॥

कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम ।
पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६ ॥

धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।
प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम ॥ १-२७ ॥

इति दिव्योपचारैश्च संपूज्य परमं शिवम ।
जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८ ॥

ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।
मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९ ॥

तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम ।
शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात ॥ १-३० ॥

ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम ।
भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१ ॥

तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।
सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२ ॥

स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम ।
ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३ ॥

विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।
ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत ॥ १-३४ ॥

शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम ।
विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५ ॥

शिवयोगी शिवज्ञानी शिवजापी तपो.अधिकः ।
क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६ ॥

कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।
लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७ ॥

॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥

अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत ।
गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१ ॥

यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।
लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२ ॥

भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।
तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम ॥ २-३ ॥

भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।
पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम ॥ २-४ ॥

अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।
ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५ ॥

एत एव त्रयो लोका एत एव त्रयो गुणाः ।
एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६ ॥

नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।
विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम ॥ २-७ ॥

गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।
गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम ॥ २-८ ॥

प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।
भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९ ॥

मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत ।
गर्भादर्धेन विस्तारमायामं च सुशोभनम ॥ २-१० ॥

गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत ।
गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११ ॥

जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।
प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२ ॥

मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।
प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम ॥ २-१३ ॥

प्राकारं तत्समन्ताच्च गुपुरादालभूषितम ।
प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम ॥ २-१४ ॥

नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।
प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम ॥ २-१५ ॥

पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत ।
प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम ॥ २-१६ ॥

स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम ।
तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम ॥ २-१७ ॥

स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम ।
कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम ॥ २-१८ ॥

शमीन्धनकुशस्थानमायुधानां च नैरृतम ।
सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत ॥ २-१९ ॥

श्रीमदायतनं शम्भोर्योगिनां विजने वने ।
शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२० ॥

मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।
महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१ ॥

कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम ।
लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२ ॥

पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत ।
पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३ ॥

अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम ।
शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४ ॥

एवं मध्ये .अवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।
अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५ ॥

प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात ।
महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत ॥ २-२६ ॥

गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम ।
यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम ॥ २-२७ ॥

दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत ।
सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम ॥ २-२८ ॥

कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत ।
रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९ ॥

एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३० ॥
कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।
विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।
तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात ॥ २-३१ ॥

॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥

अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।
शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम ॥ ३-१ ॥

गृहस्येशानदिग्भागे कार्यमुत्तरतो .अपि वा ।
खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२ ॥

शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।
दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत ॥ ३-३ ॥

हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम ।
चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम ॥ ३-४ ॥

गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम ।
उदगर्वाक्च्छ्रितां किंचिच्चतुःशीर्षकसंयुताम ॥ ३-५ ॥

त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम ।
तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६ ॥

शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।
मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत ॥ ३-७ ॥

शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।
स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम ॥ ३-८ ॥

षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।
गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत ॥ ३-९ ॥

त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।
सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम ॥ ३-१० ॥

सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत ।
आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११ ॥

वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन ।
तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम ॥ ३-१२ ॥

निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।
यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३ ॥

तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।
प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।
तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४ ॥

॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥

अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम ।
पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१ ॥

तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम ।
पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२ ॥

द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम ।
तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३ ॥

दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम ।
सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम ॥ ४-४ ॥

द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम ।
अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५ ॥

गवाक्षकद्वयं कार्यमपिधानं सुशोभनम ।
धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६ ॥

आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।
ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७ ॥

शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।
चतुरश्रवेदि॑॑(का)॑॑ श्रीमन्मेखलात्रयभूषितम ॥ ४-८ ॥

कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम ।
शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम ॥ ४-९ ॥

जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत ।
बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम ॥ ४-१० ॥

ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत ।
चतुःप्रेगीवकोपेतम एकप्रेगीवकेन वा ॥ ४-११ ॥

सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम ।
शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम ॥ ४-१२ ॥

बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।
तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३ ॥

कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।
द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४ ॥

अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।
दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५ ॥

रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।
सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत ॥ ४-१६ ॥

वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।
वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम ॥ ४-१७ ॥

अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।
व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८ ॥

प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम ।
पुष्पारामजलोपेतं प्राकारान्तं च कारयेत ॥ ४-१९ ॥

मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम ।
भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२० ॥

शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम ।
शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम ॥ ४-२१ ॥

ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।
धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२ ॥

गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।
अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत ॥ ४-२३ ॥

इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत ।
अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४-२४ ॥

कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।
कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात ॥ ४-२५ ॥

नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।
हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६ ॥

ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।
इच्छया क्रीडते तावद्यावदाभूतसंप्लवम ॥ ४-२७ ॥

ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम ।
दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात ॥ ४-२८ ॥

ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान ।
तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात ॥ ४-२९ ॥

अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।
पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३० ॥

सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात ।
ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१ ॥

इत्येतदखिलं कार्यं फलमुक्तं समासतः ।
उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम ॥ ४-३२ ॥

सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम ।
कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम ॥ ४-३३ ॥

यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।
तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४ ॥

एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम ।
वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत ॥ ४-३५ ॥

यावत्केसरसंख्यानं कुसुमस्यानले हुतम ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६ ॥

नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम ।
यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम ॥ ४-३७ ॥

यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः ।
पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम ॥ ४-३८ ॥

हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।
पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम ॥ ४-३९ ॥

पलाशाअङ्कुरजारिष्ट- पालाल्यः समिधः शुभाः ।
पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात ॥ ४-४० ॥

पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत ।
तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१ ॥

तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।
कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२ ॥

शमीसमित्फलं देयमब्दानपि च लक्षकम ।
शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३ ॥

तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता यावती भवेत ।
तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४ ॥

यावत्सुरौषधीरज्ञस तिलतुल्यफलं स्मृतम ।
इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम ॥ ४-४५ ॥

लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।
दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६ ॥

पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम ।
क्षीरवृक्षसमृद्धे .अग्नौ फलं सार्धार्धिकं भवेत ॥ ४-४७ ॥

असमिद्धे सधूमे च होमकर्म निरर्थकम ।
अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८ ॥

न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत ।
शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत ॥ ४-४९ ॥

एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात ।
तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान ॥ ४-५० ॥

स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।
याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१ ॥

एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।
सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२ ॥

अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।
आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान ॥ ४-५३ ॥

ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम ।
प्रसादादीश्वरस्यैव मुच्यते भवसागरात ॥ ४-५४ ॥

शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।
सो .अपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत ॥ ४-५५ ॥

शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।
ते .अपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६ ॥

शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।
ते .अपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७ ॥

पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत ।
होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८ ॥

सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम ।
प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम ॥ ४-५९ ॥

इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत ।
दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४-६० ॥

अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।
तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१ ॥

परिधीनामभावेन शरैर्वंशैश्च कल्पयेत ।
इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२ ॥

गोमयानामभावेन महत्यम्भसि होमयेत ।
अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३ ॥
विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।
छागस्य दक्षिणे कर्णे कुशमूले च होमयेत ॥ ४-६४ ॥
स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।
अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५ ॥
आपत्काले .अपि यः कुर्याच्छिवाग्नेर्मनसार्चनम ।
स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात ॥ ४-६६ ॥
प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।
बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७ ॥

॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥

अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम ।
सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम ॥ ५-१ ॥

अग्निरूपेण रुद्रेण स्वतेजः परमं बलम ।
भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम ॥ ५-२ ॥

यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम ।
रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३ ॥

यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम ।
अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४ ॥

आहारमर्धभुक्तं च कीटकेशादिदूषितम ।
तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५ ॥

आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।
शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६ ॥

स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।
गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७ ॥

सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम॑॑(दुःखोपार)॑॑ ।
शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम ॥ ५-८ ॥

भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।
मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९ ॥

पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम ।
शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम ॥ ५-१० ॥

जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम ।
पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः ॥ ५-११ ॥

शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।
भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम ॥ ५-१२ ॥

भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम ।
जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम ॥ ५-१३ ॥

अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम ।
नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४ ॥

स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम ।
असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम ॥ ५-१५ ॥

त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।
आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम ॥ ५-१६ ॥

संध्यात्रये .अर्धरात्रे च भुक्त्वा चान्नविरेचने ।
शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७ ॥

भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।
ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८ ॥

एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।
न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९ ॥

गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।
यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात ॥ ५-२० ॥

शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत ।
हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१ ॥

गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।
शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत ॥ ५-२२ ॥

संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।
यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५-२३ ॥

शिवभस्मनि यावन्तः समेताः परमाणवः ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४ ॥

एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।
मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५ ॥

तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान ।
ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात ॥ ५-२६ ॥

भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम ।
अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७ ॥

भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।
ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम ॥ ५-२८ ॥

इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम ।
त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात ॥ ५-२९ ॥

भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।
कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३० ॥

आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम ।
मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम ॥ ५-३१ ॥

आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम ।
अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२ ॥

मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत ।
ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम ॥ ५-३३ ॥

गवां खुरपुटोत्खात- पवनोद्धूतरेणुना ।
कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४ ॥

व्यभ्रे .अर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।
आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम ॥ ५-३५ ॥

उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत ।
अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६ ॥

पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।
तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७ ॥

न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।
पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८ ॥

आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।
क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९ ॥

यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम ।
यैव योगाभियुक्तानां गतिः सैव क्षमावताम ॥ ५-४० ॥

ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।
निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत ॥ ५-४१ ॥

मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।
नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२ ॥

एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत ।
अशुद्धभावः स्नातो .अपि पूजयन्नाप्नुयात्फलम ॥ ५-४३ ॥

जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।
ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम ॥ ५-४४ ॥

अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम ।
तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५ ॥

यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।
तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम ॥ ५-४६ ॥

मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।
करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम ॥ ५-४७ ॥

वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम ।
शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम ॥ ५-४८ ॥

देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।
उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९ ॥

प्राचीनावीतिना कार्यं पित‍ईणां तिलवारिणा ।
तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५० ॥

सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।
प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१ ॥

पित‍ईणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत ।
उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम ॥ ५-५२ ॥

॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥

अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत ।
यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत ॥ ६-१ ॥

यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत ।
शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२ ॥

यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत ।
गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६-३ ॥

श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।
वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत ॥ ६-४ ॥

कपित्थमेकं यः पक्वमीश्वराय निवेदयेत ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५ ॥

एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत ।
वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६ ॥

एकं वटफलं पक्वं यः शिवाय निवेदयेत ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७ ॥

यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम ।
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-८ ॥

यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम ।
तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९ ॥

द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत ।
भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६-१० ॥

यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११ ॥

द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।
तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२ ॥

यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।
अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३ ॥

बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।
जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४ ॥

पनसं नारिकेलं वा शिवाय विनिवेदयेत ।
वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५ ॥

पुरुषं च प्रियालं च मधूककुसुमानि च ।
जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६ ॥

निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।
दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७ ॥

क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत ।
वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८ ॥

वालुकात्रपुसादीनि यः फलानि निवेदयेत ।
शिवाय गुरवे वापि पक्वं च करमर्दकम ॥ ६-१९ ॥

दशवर्षसहस्राणि रुद्रलोके महीयते ।
बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२० ॥

दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।
एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१ ॥

निवेदयति शर्वाय शृणु यत्फलमाप्नुयात ।
एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२ ॥

पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।
गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम ॥ ६-२३ ॥

निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।
यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत ॥ ६-२४ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत ॥ ६-२५ ॥

गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।
इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६ ॥

साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम ।
निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७ ॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।
निवेद्य फाणितं शुद्धं शिवाय गुरवे .अपि वा ॥ ६-२८ ॥

रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।
गुडस्य फलमेकं यः शिवाय विनिवेदयेत ॥ ६-२९ ॥

अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।
खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम ॥ ६-३० ॥

खण्डात्सहस्रगुणितं शर्कराया निवेदने ।
मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत ॥ ६-३१ ॥

कल्पकोटिं नरः साग्रं शिवलोके महीयते ।
परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम ॥ ६-३२ ॥

मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात ।
अशेषफलदानेन यत्पुण्यं परिकीर्तितम ॥ ६-३३ ॥

तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।
पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४ ॥

निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।
कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५ ॥

पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।
दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत ॥ ६-३६ ॥

सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।
महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७ ॥

तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।
यदिष्टमात्मनः किंचिदन्नपानफलादिकम ॥ ६-३८ ॥

तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।
न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित ॥ ६-३९ ॥

किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।
न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम ॥ ६-४० ॥

पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम ।
सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम ॥ ६-४१ ॥

अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात ।
तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२ ॥

तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।
यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम ॥ ६-४३ ॥

नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम ।
यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४ ॥

तावद्वर्षसहस्राणि सुरलोके महीयते ।
पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५ ॥

दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात ।
यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम ॥ ६-४६ ॥

तावदब्दायुतानां स लोके भोगानवाप्नुयात ।
यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत ॥ ६-४७ ॥

तावन्ति वर्षलक्षाणि शिवलोके महीयते ।
यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत ॥ ६-४८ ॥

ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।
यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत ॥ ६-४९ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम ॥ ६-५० ॥

इत्येतानि सुगन्धीनि फलानि विनिवेदयेत ।
फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१ ॥

कामिकेन विमानेन क्रीडते स शिवे पुरे ।
त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२ ॥

वर्षकोटिं महाभोगैः शिवलोके महीयते ।
पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत ॥ ६-५३ ॥

वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।
यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत ॥ ६-५४ ॥

मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।
मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५ ॥

प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।
माणिक्य

Also Read:

Shiva Upanishad Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil