Templesinindiainfo

Best Spiritual Website

ShivapanchAnanastotram Three Versions Lyrics in Hindi

श्रीशिवपञ्चाननस्तोत्रम् पञ्चमुख शिव Lyrics in Hindi:

Panchaanana, Panchavaktra or Panchamukhi Shiva is the combination of Shiva in all five of His aspects – aghora, Ishana, tatpuruSha, vAmadeva and saddyojata. The Panchamukha Shiva linga is found in rare temples. Four faces are in four directions and in some the fifth face is shown facing the sky and in some it is in the southeast direction. The jyotirlinga at Pashupatinath temple in Nepal is a panchamukha linga.

The Five Shiva forms, Directions, Elements and associated Shakti forms are:
सद्योजात – पश्चिम – पृथ्वी – सृष्टि शक्ति
वामदेव – उत्तर – जल – स्थिति शक्ति
तत्पुरुष – पूर्व – वायु – तिरोभाव शक्ति
अघोर – दक्षिण – अग्नि – संहार शक्ति
ईशान – ऊर्ध्व – आकाश – अनुग्रह शक्ति

Panchamukha Shiva Gayatri is:
ॐ पञ्चवक्त्राय विद्महे, महादेवाय धीमहि,
तन्नो रुद्र प्रचोदयात् ॥

The following five verses are considered prayers to Shiva facing each of the five different directions. These same verses with slight variations and change in order are used in
panchamukhanyasa as part of mahanyasam and in panchavaktrapuja.

All three versions are given below.

॥ शिवपञ्चाननस्तोत्रम् ॥

प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥

संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं
गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३॥

कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ ४॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५॥

एतानि पञ्च वदनानि महेश्वरस्य
ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः
क्रीडन्ति नन्दनवने सह लोकपालैः ॥

इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥

॥ पञ्चवक्त्रपूजान्तर्गतम् ॥

ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-
र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥

ॐ पश्चिमवक्त्राय नमः ॥ १॥

ॐ गौरं कुङ्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥

ॐ उत्तरवक्त्राय नमः ॥ २॥

ॐ कालाभ्रभ्रमराञ्जनाचलनिभं व्यादीप्तपिङ्गेक्षणं
खण्डेन्दुद्युतिमिश्रितोग्रदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्वप्रोतकपालशुक्तिसकलं व्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्य जटिलं भ्रूभङ्गरौद्रं मुखम् ॥

ॐ दक्षिणवक्त्राय नमः ॥ ३॥

ॐ संवर्त्ताग्नितडित्प्रतप्तकनकप्रस्पर्धितेजोमयं
गम्भीरस्मितनिःसृतोग्रदशनं प्रोद्भासिताम्राधरम् ।
बालेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥

ॐ पूर्ववक्त्राय नमः ॥ ४॥

ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतत्त्वाधिकं
तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभिः ।
वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥

ॐ ऊर्ध्ववक्त्राय नमः ॥ ५॥

॥ पञ्चमुखन्यासान्तर्गतम् ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

संवर्ताग्नि-तटित्प्रदीप्त-कनकप्रस्पर्द्धि-तेजोऽरुणं
गम्भीरध्वनि-सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्द्धेन्दुद्युति-लोल-पिंगल जटा भार-प्रबोद्धोदकं
वन्दे सिद्धसुरासुरेन्द्र-नमितं पूर्वं मुखं शूलिनः ॥

ॐ नमो भगवते॑ रुद्रा॒य । पूर्वाङ्ग मुखाय नमः ॥ १ ॥

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

कालाभ्र-भ्रमराञ्जन-द्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासित-भोगिमस्तकमणि-प्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपाल-शुक्तिशकल-व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥

ॐ नमो भगवते॑ रुद्रा॒य । दक्षिणाङ्ग मुखाय नमः ॥ २ ॥

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥

प्रालेयामलमिन्दुकुन्द-धवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहन-ज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं ऋगवेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥

ॐ नमो भगवते॑ रुद्रा॒य । पश्चिमाङ्ग मुखाय नमः ॥ ३ ॥

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥

गौरं कुङ्कुम पङ्किलम् सुतिलकं व्यापाण्डुमण्डस्थलं
भ्रूविक्षेप-कटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे याजुष-वेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥

ॐ नमो भगवते॑ रुद्रा॒य । उत्तराङ्ग मुखाय नमः ॥ ४ ॥

ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

व्यक्ताव्यक्तनिरूपितञ्च परमं षट्त्रिंशतत्वाधिकं
तस्मादुत्तर-तत्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओंकारादि-समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पञ्चममीश्वरस्य वदनं ख-व्यापि तेजोमयम् ॥

ॐ नमो भगवते॑ रुद्रा॒य । ऊर्द्ध्वाङ्ग मुखाय नमः ॥ ५ ॥

ShivapanchAnanastotram Three Versions Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top