श्रीभुजङ्गप्रयाताष्टकम् Lyrics in Hindi:
सुधाधामनैजाधराधारवेणुं कराग्रैरुदग्रैरतिव्यग्रशीलैः ।
सदा पूरयंश्चारयन्गोवरूथान्पुरः प्रादुरास्तां ममाभीरवीरः ॥ १॥
यशोदायशोदानदक्षाम्बुजाक्ष प्रतीपप्रमाद प्रहाणप्रवीण ।
निजापाङ्गसङ्गोद्भवानङ्गगोपाङ्गनापाङ्गनृत्याङ्गणीभूतदेह ॥ २॥
सदा राधिकाराधिकासाधकार्थ प्रतापप्रसादप्रभो कृष्णदेव ।
अनङ्गीकृतानङ्गसेव्यन्तरङ्ग प्रविष्टप्रतापाघहृन्मे प्रसीद ॥ ३॥
रमाकान्त शान्त प्रतीपान्त मेऽतः स्थिरीभूतपादाम्बुजस्त्वं भवाशु ।
सदा कृष्णकृष्णेति नाम त्वदीयं विभो गृह्णतो हे यशोदाकिशोर ॥ ४॥
स्फुरद्रङ्गभूमिष्ठमञ्चोपविष्टोच्छलच्छत्रपक्षे भयञ्चानिनीषो ।
अलिव्रातजुष्टोत्तमस्रग्धर श्रीमनोमन्दिर त्वं हरे मे प्रसीद ॥ ५॥
स्वरस्मेर कस्मात्त्वमस्मान्स्वतो न स्मरस्यम्बुजस्मेरनेत्रनुकम्पिन् ।
स्मितोद्भावितानङ्गगोपाङ्गनाङ्गोल्लसत्स्वाङ्गसत्सङ्ग लम्भेश पाहि ॥ ६॥
रमाराम रामामनोहारिवेषोद्धतक्षोणिपालाघपापक्षयेश ।
दरोत्फुल्लपङ्केरुहस्मरेहासप्रपन्नार्तिहन्नन्दसूनो प्रसीद ॥ ७॥
कुरङ्गीदृशामङ्गसङ्गेन शश्वन्निजानन्ददानन्दकन्दातिकाल ।
कलिदोद्भवोद्भूतपङ्केरुहाक्ष स्वभक्तानुरक्ताक्तपाद प्रसाद ॥ ८॥
भुजङ्गप्रयाताष्टकेनानुयातो भुजङ्गे शयानं हरिं संस्तवीति ।
रतिस्तस्य कृष्णे भवत्याशु नित्या किमन्यैः फलैर्फल्गुभिः सेवकस्य ॥ ९॥
इति श्रीविट्ठलेश्वररचितं भुजङ्गप्रयाताष्टकं सम्पूर्णम् ॥