Templesinindiainfo

Best Spiritual Website

Shri GopIjana Vallabha Ashtakam 2 Lyrics in Hindi | श्रीगोपीजनवल्लभाष्टकम् २

श्रीगोपीजनवल्लभाष्टकम् २ Lyrics in Hindi:

नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय
वेणुस्वनैर्मोदितगोकुलाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥

किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय ।
स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥

दिव्याङ्गनावृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय ।
त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥

रत्नादिमूलालयमाश्रिताय कल्पद्रुमच्छायसमाश्रिताय ।
हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥

श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय ।
सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥

दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिच्छच्छविशोभिताय ।
वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६॥

मुनीन्द्रवृन्दैरभिसंस्तुताय क्षरत्पयोगोकुलगोकुलाय ।
धर्मार्थकामामृतसाधकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७॥

एनस्तमःस्तोमदिवाकराय भक्तस्य चिन्तामणिसाधकाय ।
अशेषदुःखामयभेषजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८॥

इति श्रीवह्निसूनुविरचितं श्रीगोपीजनवल्लभाष्टकं समाप्तम् ।

Shri GopIjana Vallabha Ashtakam 2 Lyrics in Hindi | श्रीगोपीजनवल्लभाष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top