Templesinindiainfo

Best Spiritual Website

Shri Ranganatha Panchakam Stotram Lyrics in Hindi ॥ श्रीरङ्गनाथपञ्चकं स्तोत्रम् ॥

श्रीरङ्गनाथपञ्चकं स्तोत्रम् Lyrics in Hindi:

कदाहं कावेरीतटपरिसरे रङ्गनगरे
शयानं भोगीन्द्रे शतमखमणिश्श्यामलरुचिम् ।
उपासीनः क्रोशन्मधुमथननारायण हरे
मुरारे गोविन्देत्यनिशमनुनेष्यमि दिवसान् ॥ १॥

कदाहं कावेरीविमलसलिले वीतकलुषो
भवेयं तत्तीरे श्रममुषि वसेयं घनवने ।
कदा वा तत्पुण्ये महति पुलिने मङ्गलगुणं
भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ २॥

पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठा-
माविर्मोदास्तिमितिशकुनानूदितब्रह्मघोषाम् ।
मार्गे मार्गे पथिकनिवहैरुध्यमानापवर्गां
पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ३॥

कस्तूरीकलितोर्द्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं
मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् ।
पश्यन्मानस पश्यतोहरतरं पर्यायपङ्केरुहं
श्रीरङ्गाधिपतेः कदानुवदनं सेवेय भूयोप्यहम् ॥ ४॥

न जातु पीतामृतमूर्च्छितानां नाकौकसां नन्दनवाटिकासु ।
रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्यासुनामन्यतमो भवेयम् ॥ ५॥

इति श्रीरङ्गनाथपञ्चकं स्तोत्रं सम्पूर्णम् ॥

श्रीराधाकृष्णार्पणमस्तु ॥

Shri Ranganatha Panchakam Stotram Lyrics in Hindi ॥ श्रीरङ्गनाथपञ्चकं स्तोत्रम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top