Templesinindiainfo

Best Spiritual Website

Sri Haridra Ganapati Puja Lyrics in Hindi

Sri Haridra Ganapati Puja in Hindi:

॥ श्री महागणपति पूजा (हरिद्रा गणपति पूजा) ॥
पूर्वाङ्गम् पश्यतु ॥

पूर्वाङ्गम् पश्यतु ॥

अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं आवाहयामि स्थापयामि पूजयामि ॥

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

श्री महागणपतये नमः ।
स्थिरो भव वरदो भव ।
सुमुखो भव सुप्रसन्नो भव ।
स्थिरासनं कुरु ।

ध्यानम् –
हरिद्राभं चतुर्बाहुं
हरिद्रावदनं प्रभुम् ।
पाशाङ्कुशधरं देवं
मोदकं दन्तमेव च ।
भक्ताऽभयप्रदातारं
वन्दे विघ्नविनाशनम् ।
ओं हरिद्रा गणपतये नमः ।

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

ओं ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

ओं महागणपतये नमः ।
ध्यायामि । ध्यानम् समर्पयामि । १ ॥

ओं महागणपतये नमः ।
आवाहयामि । आवाहनं समर्पयामि । २ ॥

ओं महागणपतये नमः ।
नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । ३ ॥

ओं महागणपतये नमः ।
पादयोः पाद्यं समर्पयामि । ४ ॥

ओं महागणपतये नमः ।
हस्तयोः अर्घ्यं समर्पयामि । ५ ॥

ओं महागणपतये नमः ।
मुखे आचमनीयं समर्पयामि । ६ ॥

स्नानम् –
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ओं महागणपतये नमः ।
शुद्धोदक स्नानं समर्पयामि । ७ ॥

स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् –
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
ओं महागणपतये नमः वस्त्रं समर्पयामि । ८ ॥

यज्ञोपवीतम् –
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मु॑ञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
ओं महागणपतये नमः यज्ञोपवीतं समर्पयामि । ९ ॥

गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
ओं महागणपतये नमः दिव्य श्री गन्धं समर्पयामि । १० ॥

पुष्पैः पूजयामि ।
ओं सुमुखाय नमः ।
ओं एकदन्ताय नमः ।
ओं कपिलाय नमः ।
ओं गजकर्णिकाय नमः ।
ओं लम्बोदराय नमः ।
ओं विकटाय नमः ।
ओं विघ्नराजाय नमः ।
ओं गणाधिपाय नमः ।
ओं धूमकेतवे नमः ।
ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः ।
ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः ।
ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः ।
ओं स्कन्दपूर्वजाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं महागणपतये नमः ।
नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ११ ॥

धूपम् –
वनस्पत्युद्भविर्दिव्यैः नाना गन्धैः सुसंयुतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं महागणपतये नमः धूपं आघ्रापयामि । १२ ॥

दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापह ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥
ओं महागणपतये नमः प्रत्यक्ष दीपं समर्पयामि । १३ ॥

धूप दीपानन्तरं आचमनीयं समर्पयामि ।

नैवेद्यम्-
ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
श्री महागणपतये नमः __________ समर्पयामि ।
ओं प्राणाय स्वाहा᳚ । ओं अपानाय स्वाहा᳚ ।
ओं व्यानाय स्वाहा᳚ । ओं उदानाय स्वाहा᳚ ।
ओं समानाय स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापि धानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं महागणपतये नमः ।
नैवेद्यं समर्पयामि । १४ ॥

ताम्बूलम्-
पूगीफलैश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं महागणपतये नमः ताम्बूलं समर्पयामि । १५ ॥

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
ओं महागणपतये नमः नीराजनं समर्पयामि । १६ ॥

मन्त्रपुष्पम् –
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ।
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ।
षोडशैतानि नामानि यः पठेच्छृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
ओं महागणपतये नमः सुवर्ण मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिण –
यानिकानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ओं महागणपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

ओं महागणपतये नमः ।
छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥

क्षमाप्रार्थना –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

ओं वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपतिः सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु ।
उत्तरे शुभकर्मणि अविघ्नमस्तु ॥

तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणपति पादोदकं पावनं शुभम् ॥

श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनम् –
ओं य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥

ओं श्री महागणपति नमः यथास्थानं उद्वासयामि ॥

शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।

Also Read:

Sri Haridra Ganapati Puja Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Haridra Ganapati Puja Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top