Templesinindiainfo

Best Spiritual Website

Sri Ketu Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Sri Ketu Ashtottara Shatanama Stotram Stotram in Hindi:

॥ श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ॥
श्री केतु अष्टोत्तरशतनाम स्तोत्र

शृणु नामानि जप्यानि केतो रथ महामते
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १ ॥

नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः
महाभीतिकरश्चित्रवर्णो वै पिङ्गलाक्षकः ॥ २ ॥

स फलोधूम्रसङ्काशः तीक्ष्णदम्ष्ट्रो महोरगः
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३ ॥

क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः
अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४ ॥

वरदहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा
चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥ ५ ॥

कुलुत्थभक्षकश्चैव वैडूर्याभरण स्तथा
उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६ ॥

गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७ ॥

मुकुन्दवरपात्रं च महासुरकुलोद्भवः
घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८ ॥

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः
नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९ ॥

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः
अपसव्यप्रचारी च नवमे पापदायकः ॥ १० ॥

पञ्चमे शोकदश्चोपरागखेचर एव च
अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥ ११ ॥

तृतीये वैरदः पापग्रहश्च स्फोटककारकः
प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२ ॥

द्वितीयेऽस्फुटवग्दाता विषाकुलितवक्त्रकः
कामरूपी सिंहदन्तः सत्येप्यनृतवानपि ॥ १३ ॥

चतुर्थे मातृनाशश्च नवमे पितृनाशकः
अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४ ॥

सर्पाक्षिजातोऽनङ्गश्च कर्मराश्युद्भवस्तथा
उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५ ॥

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६ ॥

पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७ ॥

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः
सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८ ॥

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः
भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९ ॥

विचित्रफलदायी च भक्ताभीष्टफलप्रदः
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २० ॥

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतं
स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१ ॥

Also Read:

Sri Ketu Ashtottara Shatanama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ketu Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top