Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in Hindi

Sri Lakshmi Narasimha Sahasranama Stotram in Hindi:

॥ श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् ॥
ओं अस्य श्री लक्ष्मीनृसिंह दिव्य सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्रीलक्ष्मीनृसिंह देवता क्ष्रौं इति बीजं श्रीं इति शक्तिः नखदम्ष्ट्रायुधायेति कीलकं मन्त्रराज श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।

ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान्बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १

लक्ष्मी चारुकुचद्वन्द्वकुङ्कुमाङ्कितवक्षसे ।
नमो नृसिंहनाथाय सर्वमङ्गलमूर्तये ॥ २

उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोल्लासितसंसारच्छेदहेतुं जगद्गुरुम् ॥ ३

ब्रह्मोवाच ।
ओं नमो नारसिंहाय वज्रदम्ष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥

वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥

परात्पराय पाराय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पूरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥

सिंहराजाय सिंहाय जगद्वन्द्याय ते नमः ।
अट्टहासाय रोषाय ज्वालाहासाय ते नमः ॥ ७ ॥

भूतावासाय वासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥

नमो मूलाधिवासाय धर्मवासाय धर्मिणे ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥

शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणात्मने ॥ १० ॥

निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलात्मने ॥ ११ ॥

निमेषाय निबन्धाय निमेषगमनाय च । [** निबद्धाय **]
निर्द्वन्द्वाय निराशाय निश्चयाय निजाय च ॥ १२ ॥

निर्मलाय निदानाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥

सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरिकेशाय केशाय गुडाकेशाय वै नमः ॥ १४ ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥

पुष्पेशाय कुलेशाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रसन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥

प्रभञ्जनाय पान्थाय प्रमायप्रतिमाय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ १८ ॥

ज्वालामालास्वरूपाय ज्वालजिह्वाय ज्वालिने ।
महाज्वालाय कालाय कालमूर्तिधराय च ॥ १९ ॥

कालान्तकाय कल्पाय कलनाय कलाय च ।
कालचक्राय चक्राय षट्चक्राय च चक्रिणे ॥ २० ॥

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥

सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय सरूपाय हरये परमात्मने ॥ २२ ॥

अजयायादिदेवाय ह्यक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥

नमोऽस्तु घोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्हाय शम्भवे ॥ २४ ॥

अमोघाय गुणौघाय ह्यनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥ [** नाथाय **]

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय ते नमः ॥ २६ ॥

व्याघ्रपादाय ते व्याघ्रकर्मणे व्यापकाय च ।
विकटास्याय वीर्याय विष्टरश्रवसे नमः ॥ २७ ॥

विकीर्णनखदम्ष्ट्राय नखदम्ष्ट्रायुधाय च ।
विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय वित्ताय विस्तीर्णवदनाय च ॥ २९ ॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥

वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥

विडम्बनाय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ ३२ ॥

विरासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ ३३ ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ ३४ ॥

रसनायान्तरिक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३५ ॥

तक्षकाय तनुत्राय तटिते तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३६ ॥

शतपत्राय तार्क्ष्याय स्थितये शान्तमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३७ ॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३८ ॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्रजठराय च ॥ ३९ ॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ४० ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षीणाय सुभिक्षाय सूराध्यक्षाय शौरिणे ॥ ४१ ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४२ ॥

कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४३ ॥

शत्रुघ्नाय ह्यविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय मधुघ्नाय भूतघ्नाय नमो नमः ॥ ४४ ॥

भूतपालाय भूताय भूतावासाय भूतिने ।
भूतभेतालघाताय भूताधिपतये नमः ॥ ४५ ॥

भूतग्रहविनाशाय भूतसम्यमिने नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४६ ॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४७ ॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४८ ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४९ ॥

सर्वाभिचारहन्त्रे च सर्वोत्पातविघातिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ५० ॥

बहुशृङ्गाय शृङ्गाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५१ ॥

महादेवाय देवाय मातुलुङ्गधराय च ।
महामायाप्रसूताय मायिने जलशायिने ॥ ५२ ॥

महोदराय मन्दाय मदनाय मदाय च ।
मधुकैटभहन्त्रे च माधवाय मुरारये ॥ ५३ ॥

महावीर्याय धैर्याय चित्रवीर्याय ते नमः ।
चित्रकर्माय चित्राय नमस्ते चित्रभानवे ॥ ५४ ॥

मायातीताय मायाय महावीराय ते नमः ।
महातेजाय बीजाय तेजोधाम्ने च बीजिने ॥ ५५ ॥

तेजोमय नृसिंहाय तेजसांनिधये नमः ।
महादम्ष्ट्राय दम्ष्ट्राय नमः पुष्टिकराय च ॥ ५६ ॥

शिपिविष्टाय पुष्टाय तुष्टये परमेष्ठिने ।
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ॥ ५७ ॥

नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ।
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ॥ ५८ ॥

वैकुण्ठाय विकुण्ठाय केशिकण्ठाय कण्ठिने ।
कण्ठीरवाय लुण्ठाय निश्शठाय हठाय च ॥ ५९ ॥

सत्त्वोद्रिक्ताय कृष्णाय रजोद्रिक्ताय वेधसे ।
तमोद्रिक्ताय रुद्राय ऋग्यजुस्साममूर्तये ॥ ६० ॥

ऋतुध्वजाय कालाय मन्त्रराजाय मन्त्रिणे । [** राजाय **]
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६१ ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिवन्द्याय त्रितत्त्वज्ञानिने नमः ॥ ६२ ॥

अक्षोभ्यायानिरुद्धाय ह्यप्रमेयाय भानवे ।
अमृताय ह्यनन्ताय ह्यमितायामराय च ॥ ६३ ॥

अपमृत्युविनाशाय ह्यपस्मारविघातिने ।
अन्नदायान्नरूपाय ह्यन्नायान्नभुजे नमः ॥ ६४ ॥

आद्याय निरवद्याय वेद्यायाद्भुतकर्मणे ।
सद्योजाताय सन्ध्याय वैद्युताय नमो नमः ॥ ६५ ॥

विद्यातीताय शुद्धाय रागतीताय रागिणे ।
योगीश्वराय योगाय गोहिताय गवाम्पते ॥ ६६ ॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रवृद्धाय प्रधानपुरुषाय च ॥ ६७ ॥

पद्माभाय सुनाभाय पद्मनाभाय भासिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६८ ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६९ ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय ब्रह्मनेत्रे नमो नमः ॥ ७० ॥

ब्रह्मादये ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७१ ॥

परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७२ ॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदम्ष्ट्राय लोलाय ललिताय च ॥ ७३ ॥

लावण्याय लवित्राय नमस्ते भासकाय च । [** लावकाय **]
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७४ ॥

रसद्वीपाय दीप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७५ ॥ [** दृष्णिमूलाय **]

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वगं सर्वतोमुखम् ॥ ७६ ॥

सर्वतः पाणिपादोरुं सर्वतोऽक्षि शिरोमुखम् ।
सर्वेश्वरं सदातुष्टं सत्त्वस्थं समरप्रियम् ॥ ७७ ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७८ ॥

महारूपं महावक्त्रं महादम्ष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७९ ॥

आनाभेर्ब्रह्मणोरूपामागलाद्वैष्णवं वपुः ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम् ॥ ८० ॥

नमोऽस्तु नारायण नारसिंह
नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह
नमोऽस्तु नारायण दिव्यसिंह ॥ ८१ ॥

नमोऽस्तु नारायण व्याघ्रसिंह
नमोऽस्तु नारायण पुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह
नमोऽस्तु नारायण रौद्रसिंह ॥ ८२ ॥

नमो नमो भीषणभद्रसिंह
नमो नमो विज्ज्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्तसिंह ॥ ८३ ॥

नमो नमो निर्जितकालसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमः कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ ८४ ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्विष्णुरेव च ।
पृथ्वीत्वमन्तरिक्षस्त्वं पर्वतारण्यमेव च ॥ ८५ ॥

कलाकाष्ठादिलिप्तिस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्यं च पक्षमासस्तुवत्सरम् ॥ ८६ ॥

युगादिर्युगभेदस्त्वं सम्योगो युगसन्धयः ।
नित्यं नैमित्तिकं काम्यं महाप्रलयमेव च ॥ ८७ ॥

करणं कारणं कर्ता भर्ता हर्ता हरिस्स्वराट् ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ८८ ॥

प्राणस्त्वं प्राणिनाम्प्रत्यगात्म त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ८९ ॥

ज्योतिर्लोकस्वरूपस्त्वं ज्योतिर्ज्ञो ज्योतिषाम्पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९० ॥

हन्ताकारो निराकारो वेदाकारश्च शङ्करः ।
अकारादिक्षकारान्तः ओङ्कारो लोककारकः ॥ ९१ ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दम्ष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९२ ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिः लोकात्मा लोकलोचनः ॥ ९३ ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता महाकर्ता कृताकर्ता कृतागमः ॥ ९४ ॥

अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९५ ॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुस्सखा ।
सुहृदश्चात्तरूपस्त्वं त्वां विना नात्र मे गतिः ॥ ९६ ॥

नमस्ते मन्त्ररूपाय ह्यस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ ९७ ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ ९८ ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ ९९ ॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे विधात्रे च सन्धात्रे च धराय च ॥ १०० ॥

दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमोऽस्तु ते ॥ १०१ ॥

सीरध्वजाय सीराय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०२ ॥

असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविघातिने ॥ १०३ ॥

सुकर्मणे मन्मथाय नमो मर्माय मर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०४ ॥

कवये पद्मगर्भाय भूगर्भाय कृपानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०५ ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०६ ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकनिहन्त्रे च हिरण्यनयनाय च ॥ १०७ ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृङ्गाय निःशृङ्गाय च शृङ्गिणे ॥ १०८ ॥

भैरवाय सुकेशाय भीषणायान्त्रमालिने ।
चण्डाय तुण्डमालाय नमो दण्डधराय च ॥ १०९ ॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च । [** श्रीखण्ड **]
नमस्ते दण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११० ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ १११ ॥

नमो हरिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११२ ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय ह्यन्तरिक्षस्थिताय च ॥ ११३ ॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तजिह्वसिंहाय अनन्तगतये नमः ॥ ११४ ॥

नमोऽस्तु वीरसिंहाय बहुसिंहस्वरूपिणे ।
नमो विचित्रसिंहाय नारसिंहाय ते नमः ॥ ११५ ॥

अभयङ्करसिंहाय नरसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सप्तसामस्वरूपिणे ॥ ११६ ॥

सप्तधातुस्वरूपाय सप्तच्छन्दोमयाय च ।
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ॥ ११७ ॥

सप्तार्चीरूपदम्ष्ट्राय सप्ताश्वरथरूपिणे ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय नमो नमः ॥ ११८ ॥

श्रीवत्साय सुवेषाय श्रुतये श्रुतमूर्तये ।
शुचिश्रवाय शूराय सुभोगाय सुधन्विने ॥ ११९ ॥

शुभ्राय सुरनाथाय सुलभाय शुभाय च ।
सुदर्शनाय सूक्ताय निरुक्ताय नमो नमः ॥ १२० ॥

सुप्रभावस्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय सुखाय च ॥ १२१ ॥

सुनखाय सुदम्ष्ट्राय सुरथाय सुधाय च ।
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ॥ १२२ ॥

साङ्ख्याय सुरमुख्याय प्रख्यातप्रभवाय च ।
खगेन्द्राय मृगेन्द्राय नगेन्द्राय धृवाय च ॥ १२३ ॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नागाय नानारूपधराय च ॥ १२४ ॥

नागेश्वराय नग्नाय नमितायामिताय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२५ ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय श्री नृसिंहाय ते नमः ॥ १२६ ॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १२७ ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १२८ ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १२९ ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३० ॥

सालग्रामनिवासाय क्षीराब्धिनिलयाय च ।
श्रीशैलाद्रिनिवासाय शैलवासाय ते नमः ॥ १३१ ॥

योगिहृत्पद्मवासाय महाहंसाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३२ ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्रधरायैव रक्तवस्त्रधराय च ॥ १३३ ॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्गमाय धुराय च ॥ १३४ ॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय दीप्ताय दुर्दर्शाय द्रुमाय च ॥ १३५ ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दीप्तवक्त्राय उधृर्ताय नमो नमः ॥ १३६ ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय ह्याकर्णनयनाय च ॥ १३७ ॥

वन्द्याय परिवेषाय रथ्याय रसिकाय च ।
ऊर्ध्वास्यायोर्ध्वदेहाय नमस्ते चोर्ध्वरेतसे ॥ १३८ ॥

पद्मप्रध्वंसिकान्ताय शङ्खचक्रधराय च ।
गदापद्मधरायैव पञ्चबाणधराय च ॥ १३९ ॥

कामेश्वराय कामाय कामरूपाय कामिने ।
नमः कामविहाराय कामरूपधराय च ॥ १४० ॥

सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ।
नमः सोमाय वामाय वामदेवाय ते नमः ॥ १४१ ॥

सामस्वराय सौम्याय भक्तिगम्याय ते नमः ।
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ॥ १४२ ॥

भीष्माय भीकरायैव भीम विक्रमणाय च ।
मृगग्रीवाय जीवाय जिताय जितकाशिने ॥ १४३ ॥

जटिने जामदग्न्याय नमस्ते जातवेदसे ।
जपाकुसुमवर्णाय जप्याय जपिताय च ॥ १४४ ॥

जरायुजायाण्डजाय स्वेदजायोद्भिदाय च ।
जनार्दनाय रामाय जाह्नवीजनकाय च ॥ १४५ ॥

जराजन्मविदूराय प्रद्युम्नाय प्रबोधिने ।
रौद्रजिह्वाय रुद्राय वीरभद्राय ते नमः ॥ १४६ ॥

चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ।
इन्द्रियायेन्द्रियज्ञाय नम इन्द्रानुजाय च ॥ १४७ ॥

अतीन्द्रियाय सान्द्राय इन्दिरापतये नमः ।
ईशानाय च हीड्याय हीप्सिताय त्विनाय च ॥ १४८ ॥

व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ।
व्योमोद्धराय च व्योमवक्त्रायासुरघातिने ॥ १४९ ॥

नमस्ते व्योमदम्ष्ट्राय व्योमवासाय ते नमः ।
सुकुमाराय माराय शिंशुमाराय ते नमः ॥ १५० ॥

विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ।
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ॥ १५१ ॥

एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ।
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ॥ १५२ ॥

षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ।
धर्मार्थकाममोक्षाय विमुक्ताय नमो नमः ॥ १५३ ॥

भावशुद्धाय साध्याय सिद्धाय शरभाय च ।
प्रबोधाय सुबोधाय नमो बुद्धिप्रदाय च ॥ १५४ ॥

स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ।
प्रियश्रवाय श्राव्याय सुश्रवाय श्रवाय च ॥ १५५ ॥

ग्रहेशाय महेशाय ब्रह्मेशाय नमो नमः ।
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ॥ १५६ ॥

उग्राय चोग्रवेगाय उग्रकर्मरताय च ।
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ॥ १५७ ॥

बालग्रहविनाशाय पिशाचग्रहघातिने ।
दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ॥ १५८ ॥

वृषध्वजाय वृष्ण्याय वृषभाय वृषाय च ।
उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ॥ १५९ ॥

नमस्ते देवदेवेश नमस्ते मधुसूदन ।
नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ॥ १६० ॥

नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ।
नमस्ते नारसिंहाय नमस्ते गरुडध्वज ॥ १६१ ॥

यज्ञध्वज नमस्तेऽस्तु कालध्वज जयध्वज ।
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ॥ १६२ ॥

सिंहनेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ॥ १६३ ॥

पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ।
नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६४ ॥

नमो नमस्ते गुरुसिंहरूप नमो नमस्ते रणसिंहरूप ।
नमो नमस्ते गुरुसिंहरूप नमो नमस्ते लघुसिंहरूप ॥ १६५ ॥

ब्रह्म उवाच –
उद्वृत्तं गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६६ ॥

अतिरौद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वैता देवताः सर्वाः शङ्कितास्त्वामुपागताः ॥ १६७ ॥

एतान्पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १६८ ॥

सर्वान् ऋषिगणान्सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणनपि ॥ १६९ ॥

प्रसीद त्वं महासिंह ह्युग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तभावं च धारय ॥ १७० ॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७१ ॥

मार्कण्डेय उवाच-
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणानेन सन्तुष्टः सौम्यभावमधारयत् ॥ १७२ ॥

अब्रवीन्नारसिंहस्तान् वीक्ष्य सर्वान्सुरोत्तमान् ।
सन्त्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७३ ॥

श्रीनृसिंह उवाच-
भो भो देवगणाः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥ १७४ ॥

यद्धितं भवतां मानं तत्करिष्यामि साम्प्रतम् ।
सुरा नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७५ ॥

शृणोति श्रावयति वा पूजां ते भक्तिसम्युतः ।
सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७६ ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १७७ ॥

सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते नरः ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १७८ ॥

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
यो नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १७९ ॥

भूतभेतालकूष्माण्ड पिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा सिनी बालग्रहादयः ॥ १८० ॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चण्डालग्रहसञ्ज्ञिकाः ॥ १८१ ॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगश्च हृद्रोगः शूरापस्मार एव च ॥ १८२ ॥

एकाहिकं द्व्याहिकं च चातुर्धिकमहाज्वरम् ।
अथ यो व्याधयश्चैव रोगा रोगाधिदेवताः ॥ १८३ ॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणाकुलाः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८४ ॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषान्यमृततां यान्ति नृसिंहस्मरणात्सुराः ॥ १८५ ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८६ ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १८७ ॥

सुपुत्रां धनधान्यं च पशूम्श्च विविधानपि ।
एतत्सर्वमवाप्नोति नृसिंहस्य प्रसादतः ॥ १८८ ॥

जलसन्तरणे चैव पर्वतारोहणे तथा ।
वनेऽपि विचिरन्मर्त्यो व्याघ्रादि विषमे पथि ॥ १८९ ॥

बिलप्रवेशे पाताले नारसिंहमनुस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पकः ॥ १९० ॥

मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९१ ॥

असत्यस्तु सदा यज्ञनिन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बषैः ॥ १९२ ॥

बहुनात्र किमुक्तेन स्मृत्वा तं शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यः नृसिंहस्तत्र गच्छति ॥ १९३ ॥

गच्छन् तिष्ठन् श्वपन्मर्त्यः जाग्रच्छापि प्रसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९४ ॥

पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतावेति सौभाग्यं च सुरूपताम् ॥ १९५ ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी द्विजो भवेत् ॥ १९६ ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ १९७ ॥

मार्कण्डेय उवाच –
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्य लीलया ।
प्रह्लादस्याभिषेकस्तु ब्रह्मणे चोपदिष्टवान् ॥ १९८ ॥

श्रीशैलस्य प्रदेशे तु लोकानां हितकाम्यया ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ १९९ ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभिषिच्य च ।
दैवतैः सह सुप्रीतो ह्यात्मलोकं ययौ स्वयम् ॥ २०० ॥

हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकसप्ततिः ॥ २०१ ॥

नृसिंहेन हते दैत्ये तथा स्वर्गमवाप सः ।
दिक्पालकाश्च सम्प्राप्तस्त्वं स्वस्थानमनुत्तमम् ॥ २०२ ॥

धर्मे मतिः समस्तानां जनानामभवत्तदा ।
एतन्नामसहस्रस्तु ब्रह्मणा निर्मितं पुरा ॥ २०३ ॥

पुत्रानध्यापयामास सनकादीन्महामुनीन् ।
ऊचुस्ते तद्गतः सर्वे लोकानां हितकाम्यया ॥ २०४ ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०५ ॥

अस्य स्तोत्रस्य पाठनात्विशुद्ध मनसोभवन् ।
सनत्कुमारात्सम्प्राप्तौ भरद्वाजो मुनिस्तदा ॥ २०६ ॥

तस्मादाङ्गीरसः प्राप्तस्तस्मात्प्राप्तो महामतिः ।
जग्राह भार्गवस्तस्मादग्निमित्राय सोऽब्रवीत् ॥ २०७ ॥

जैगीषव्याय सप्राह ऋतुकर्णाय सम्यमी ।
विष्णुमित्राय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २०८ ॥

तस्मादवाप शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
कृतुञ्जयाय स प्राह सोऽपि बोधायनाय च ॥ २०९ ॥

क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ।
सिंह तेजास्तु तस्माच्च शिवप्रियायनै ददौ ॥ २१२ ॥

उपदिष्टोस्म्यहं तस्मादिदं नामसहस्रकम् ।
तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न च ॥ २१३ ॥

मया च कथितं नारसिंहस्तोत्रमिदं तव ।
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ॥ २१४ ॥

सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ।
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ॥ २१५ ॥

प्राप्यसे महतीं सिद्धिं सर्वाङ्कामान्नरोत्तम ।
अयमेव परोधर्मस्त्विदमेव परं तपः ॥ २१६ ॥

इदमेव परं ज्ञानमिदमेव महद्व्रतम् ।
अयमेव सदाचारो ह्ययमेव महामखः ॥ २१७ ॥

इदमेव त्रयो वेदाः शास्त्राण्यागमानि च ।
नृसिंहमन्त्रादन्यत्र वैदिकस्तु न विद्यते ॥ २१८ ॥

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
कथितं नारसिंहस्य चरितं पापनाशनम् ॥ २१९ ॥

सर्वमन्त्रमयं तापत्रयोपशमनं परम् ।
सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२० ॥

ओं नम इति श्रीनृसिंहपुराणे स्तोत्ररत्नाकरे श्रीनरसिंहप्रादुर्भावे आपदुद्धार घोर वीर लक्ष्मीनृसिंह दिव्य सहस्रनामस्तोत्रमन्त्रराजः सर्वार्थसाधनं नाम द्विशततमोध्यायः समाप्तः ॥

Also Read:

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top