Templesinindiainfo

Best Spiritual Website

Sri Lalitha Trisati Stotram Poorvapeetika Lyrics in Hindi

Sri Lalitha Trisati Stotram Poorvapeetika in Hindi:

॥ श्री ललिता त्रिशती स्तोत्रम् – पूर्वपीठिक ॥
सकुङ्कुमविलेपना-मलिक चुम्बिकस्तूरिकां
समन्दहसितेक्षणां-सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां-जपविधौ स्मरेदम्बिकाम् ॥

अगस्त्य उवाच-
हयग्रीव दयासिन्धो भगवन्भक्तवत्सल ।
त्वत्तश्श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ १ ॥

रहस्यं नामसाहस्रमपि तत्सम्श्रुतं मया ।
इतःपरं च मे नास्ति श्रोतव्यमिति निश्चयः ॥ २ ॥

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥

किमिदं कारणं ब्रूहि ज्ञातव्याम्शोपि वा पुनः ।
अस्तिचेन्मम तं ब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥ ४ ॥

सूत उवाच-
समावलम्बे तत्पादयुगलं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदन्त्विति ॥ ५ ॥

मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ॥ ६ ॥

तूष्णीं स्थितःस्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
तं प्रणम्यैव स मुनिस्तत्पादा वत्यजन् स्थितः ॥ ७ ॥

वर्षत्रयावधि तदा गुरुशिष्यौ तथा स्थितौ ।
तच्छृण्वन्तश्च पश्यन्तस्सर्वलोकास्सुविस्मिताः ॥ ८ ॥

तत्र श्री ललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूता रहस्येवं हयग्रीवमवोचत ॥ ९ ॥

श्री देव्युवाच-
अश्वाननावयोः प्रीतिश्शास्त्रविश्वासिने त्वया ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥

स्वमातृजारवद्गोप्या विद्यैषेत्यागमा जगुः ।
ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥ ११ ॥

मया कामेश्वरेणापि कृता सा गोपिता भृशम् ।
मदाज्ञया वचोदेव्यश्चक्रुर्नामसहस्रकम् ॥ १२ ॥

आवाभ्यां कथितं मुख्यं सर्वपूर्तिकरं स्तवम् ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥

सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।
तद्ब्रूहित्वमगस्त्याय पात्रभूतो न सम्शयः ॥ १४ ॥

पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयं च नितरां भक्तस्तस्मादस्यवदस्व तत् ॥ १५ ॥

अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतत् ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ १६ ॥

चित्तपर्याप्ति रेतस्यनान्यथा सम्भविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥

सूत उवाच-
इत्युक्त्वान्तर्दधावम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८ ॥

हयग्रीव उवाच-
संस्थाप्य निकटे वाचमुवाच भृशविस्मितः ।
कृतार्थोसि कृतार्थोसि कृतार्थोसि घटोद्भव ॥ १९ ॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये ।
येनागस्त्य स्वयं देवी तव वक्तव्य मन्वशात् ॥ २० ॥

सच्छिष्येण त्वयाहं च दृष्टवानस्मि तां शिवाम् ।
यतन्ते यद्दर्शनाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१ ॥

अतःपरं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।
यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥

रहस्यनामसाहस्रादतिगुह्यतमं मुने ।
आवश्यकं ततो ह्येतल्ललितां समुपासताम् ॥ २३ ॥

तदहं ते प्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णक्रमान्मुने ॥ २४ ॥

पृथग्विम्शतिनामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी ॥ २५ ॥

रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।
तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६ ॥

केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।
मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥ २७ ॥

तस्मादेकाग्रमनसा श्रोतव्यं भवता मुने ।
इत्युक्त्वा तु हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८ ॥

Also Read:

Sri Lalitha Trisati Stotram Poorvapeetika Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Trisati Stotram Poorvapeetika Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top