Templesinindiainfo

Best Spiritual Website

Sri Narasimha Dwadasa Nama Stotram Lyrics in Hindi

Sri Narasimha Dwadasa Nama Stotram in Hindi:

॥ श्री नृसिंह द्वादशनाम स्तोत्रम् ॥
अस्य श्रीनृसिंह द्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप्छन्दः लक्ष्मीनृसिंहो देवता श्रीनृसिंह प्रीत्यर्थे विनियोगः ।

ध्यानम् ।
स्वभक्त पक्षपातेन तद्विपक्ष विदारणम् ।
नृसिंहमद्भुतं वन्दे परमानन्द विग्रहम् ॥

स्तोत्रम् ।
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १ ॥

पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २ ॥

नव प्रह्लादवरदो दशमोऽनन्तहस्तकः ।
एकादशो महारुद्रो द्वादशो दारुणस्तथा ॥ ३ ॥

द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराजेति विख्यातं सर्वपापविनाशनम् ॥ ४ ॥

क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५ ॥

गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥ ६ ॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयेत्सहस्रं तु लभते वाञ्छितं फलम् ॥ ७ ॥

इति श्री नृसिंह द्वादशनाम स्तोत्रम् ।

Also Read:

Sri Narasimha Dwadasa Nama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Narasimha Dwadasa Nama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top