Templesinindiainfo

Best Spiritual Website

Sri Narasimha Mantra Raja Pada Stotram Lyrics in Hindi

Sri Narasimha Mantra Raja Pada Stotram in Hindi:

॥ श्री नृसिंह मन्त्रराजपद स्तोत्रम् ॥
पार्वत्युवाच –
मन्त्राणां परमं मन्त्रं गुह्यानां गुह्यमेव च ।
ब्रूहि मे नारसिंहस्य तत्त्वं मन्त्रस्य दुर्लभम् ॥

शङ्कर उवाच –
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितं ।
निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥ १ ॥

सर्वैरवध्यतां प्राप्तं सबलौघं दितेस्सुतं ।
नखाग्रैश्शकलीचक्रेयस्तं वीरं नमाम्यहम् ॥ २ ॥

पादावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपं ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ ३ ॥

ज्योतीम्ष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥

सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
जानाति यो नमाम्याद्यं तमहं सर्वतोमुखम् ॥ ५ ॥

नरवत्सिंहवच्चैव रूपं यस्य महात्मनः ।
महासटं महादम्ष्ट्रं तं नृसिंहं नमाम्यहम् ॥ ६ ॥

यन्नामस्मरणाद्भीता भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ ७ ॥

सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ ८ ॥

साक्षात्स्वकाले सम्प्राप्तं मृत्युं शत्रुगणानपि ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥

नमस्कारात्मकं यस्मै विधायात्मनिवेदनं ।
त्यक्तदुःखोऽखिलान्कामानश्नुते तं नमाम्यहम् ॥ १० ॥

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ ११ ॥

शङ्करेणादरात्प्रोक्तं पदानां तत्त्वमुत्तमं ।
त्रिसन्ध्यं यो जपेत्तस्य विद्याऽऽयुश्श्रीश्च वर्धते ॥ १२ ॥

इति श्री शङ्करकृत श्रीनृसिंहमन्त्रराजपदस्तोत्रम् ।

Also Read:

Sri Narasimha Mantra Raja Pada Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Narasimha Mantra Raja Pada Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top