Templesinindiainfo

Best Spiritual Website

Sri Narasimha Stotram 3 Lyrics in Hindi

Sri Narasimha Stotram 3 in Hindi:

॥ श्री नृसिंह स्तोत्रम् – ३ ॥
श्रीरमाकुचाग्रभासिकुङ्कुमाङ्कितोरसं
तापनाङ्घ्रिसारसं सदादयासुधारसम् ।
कुन्दशुभ्रशारदारविन्दचन्द्रसुन्दरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ १ ॥

पापपाशमोचनं विरोचनेन्दुलोचनं
फाललोचनादिदेवसन्नुतं महोन्नतम् ।
शेषतल्पशायिनं मनोरथप्रदायिनं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ २ ॥

सञ्चरस्सटाजटाभिरुन्नमेखमण्डलं
भैरवारवाटहासवेरिदामिह्रोदरम् ।
दीनलोकसाररं धराभरं जटाधरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ३ ॥

शाकिनीपिशाचिघोरढाकिनीभयङ्करं
ब्रह्मराक्षसव्यथाक्षयङ्करं शिवङ्करम् ।
देवतासुहृत्तमं दिवाकरं सुधाकरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ४ ॥

मत्स्य कूर्म क्रोड नारसिंह वामनाकृतिं
भार्गवं रघूद्वहं प्रलम्भगर्पुरापहम् ।
बुद्धकल्किविग्रहं जगद्विरोधिनिग्रहं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ५ ॥

धारुणी वधूमणी गृहीतपादपल्लवं
नन्दगोष्ट्रवल्लवीसतीमनोज्ञवल्लभम् ।
मायिनां विशारदं भवाम्भुराशिपारदं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ६ ॥

मोहतापहारिणं गदारथाङ्गधारिणं
श्रीमनोविहारिणं विदेहजोर्निवारिणम् ।
दानवेन्द्रवैरिणं तपोधनेष्टकारिणं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ७ ॥

रामसत्कविप्रणीतवेददम्ष्ट्रकाशिवं
देवसारसङ्ग्रहं महोग्रपातकान्तकम् ।
जल्पितां निरन्तरं समस्तकामपूरकं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ८ ॥

[** ज्वालाहोबिलमालोलः क्रोडहाकारङ्कभार्गवं
योगानन्दः छत्रवटः पातु मां नवमूर्तये ॥ **]

इति श्री नृसिंह स्तोत्रम् ॥

Also Read:

Sri Narasimha Stotram 3 Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Narasimha Stotram 3 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top