Templesinindiainfo

Best Spiritual Website

Sri Rahu Kavacham Lyrics in Hindi

Sri Rahu Kavacham in Hindi:

॥ श्री राहु कवचम् ॥
अस्य श्रीराहुकवचस्तोत्र महामन्त्रस्य चन्द्रऋषिः । अनुष्टुप्छन्दः । राहुर्देवता । नीं बीजम् । ह्रीं शक्तिः । कां कीलकम् । मम राहुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्-
राहुं चतुर्भुजं चर्मशूलखड्गवराङ्गिनम्
कृष्णाम्बरधरं नीलं कृष्णगन्धानुलेपनम् ।
गोमेधिकविभूषं च विचित्रमकुटं फणिम्
कृष्णसिंहरथारूढं मेरुं चैवाप्रदक्षिणम् ॥

प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभयप्रदम् ॥ १ ॥

कवचम् –
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ॥ २ ॥

नासिकां मे करालास्यः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कष्टनाशनः ॥ ३ ॥

भुजङ्गेशो भुजौ पातु नीलमाल्यः करौ मम ।
पातु वक्षौ तमोमूर्तिः पातु नाभिं विधुन्तुदः ॥ ४ ॥

कटिं मे विकटः पातु ऊरू मेऽसुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चऽव्ययः ॥ ५ ॥

गुल्फौ ग्रहाधिपः पातु नीलचन्दनभूषितः ।
पादौ नीलाम्बरः पातु सर्वाङ्गं सिंहिकासुतः ॥ ६ ॥

राहोरिदं कवचमीप्सितवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतश्शुचिस्सन् ।
प्राप्नोति कीर्तिमतुलां च श्रियं समृद्धि-
मारोग्यमायुर्विजयावसित प्रसादात् ॥ ७ ॥

इति पद्मे महापुराणे राहुकवचः ।

Also Read:

Sri Rahu Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Rahu Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top