Templesinindiainfo

Best Spiritual Website

Sri Vallabhesha Karavalamba Stotram Lyrics in Sanskrit

Sri Vallabhesha Karavalamba Stotram in Sanskrit:

॥ श्री वल्लभेश करावलम्ब स्तोत्रम् ॥
(धन्यवाद – ब्रह्मश्री सामवेदं षण्मुख शर्मा)

ओमङ्घ्रिपद्ममकरन्दकुलामृतं ते
नित्यं यजन्ति दिवि यत् सुरसिद्धसङ्घाः ।
ज्ञात्वामृतं च गणशस्तदहं भजामि
श्रीवल्लभेश मम देहि करावलम्बम् ॥ १ ॥

श्रीमातृसूनुमधुना शरणं प्रपद्ये
दारिद्र्यदुःखशमनं कुरु मे गणेश ।
मत्सङ्कटं च सकलं हर विघ्नराज
श्रीवल्लभेश मम देहि करावलम्बम् ॥ २ ॥

गङ्गाधरात्मज विनायक मूलमूर्ते
व्याधिं जवेन विनिवारय फालचन्द्र ।
विज्ञानदृष्टिमनिशं मयि सन्निधेहि
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ३ ॥

गण्यं मदीय भवनं च विधाय दृष्ट्या
मद्दारपुत्रतनयान् सहसां श्च सर्वान् ।
आगत्य चाशु परिपालय शूर्पकर्ण
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ४ ॥

णाकार मन्त्रघटितं तव यन्त्रराजं
भक्त्या स्मरामि सततं दिश सम्पदो मे ।
उद्योगसिद्धिमतुलां कवितां च लक्ष्मीं
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ५ ॥

पादादिकेशमखिलं सुधया च पूर्णं
कोशाग्निपञ्चकमिदं शिवभूतबीजम् ।
त्वद्रूपवैभवमहोजनता न वेत्ति
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ६ ॥

तापत्रयं मम हरामृतदृष्टिवृष्ट्या
पापं व्यपोहय गजानन शापतो मे
दुष्टं विधातृलिखितं परिमार्जयाशु
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ७ ॥

ये त्वां भजन्ति शिवकल्पतरुं प्रशस्तं
तेभ्यो ददासि कुशलं निखिलार्थलाभम् ।
मह्यं तथैव सकलं दिश वक्रतुण्ड
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ८ ॥

नादान्तवेद्यममलं तव पादपद्मं
नित्यं यजे विबुध षट्पदसेव्यमानम् ।
सत्ताशमाद्यमखिलं दिश मे गणेश
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ९ ॥

मोदामृतेन तव मां स्नपयाशु बालं
पापाब्धिपङ्कगलितं च सहायहीनम्
वस्त्रादिभूषणधनानि च वाहनादीन्
श्रीवल्लभेश मम देहि करावलम्बम् ॥ १० ॥

श्रीवल्लभेश दशकं हठयोगसाध्यं
हेरम्ब ते भगवतीश्वर भृङ्गनादम् ।
श्रुत्वानिशं श्रुतिविदः कुलयोगिनो ये
भूतिप्रदं भुवि जनस्सुधियो रमन्ताम् ॥ ११ ॥

Also Read:

Sri Vallabhesha Karavalamba Stotram Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Vallabhesha Karavalamba Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top