वराहपञ्चकम् Lyrics in Hindi:
प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं
सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च।
अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं
रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥
वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं
सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्।
कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं
सामादीड्य-वराहरूपममलं हे मानसेमं स्मर॥२॥
कोलाय लसदाकल्प-जालाय वनमालिने।
नीलाय निजभक्तौघ-पालाय हरये नमः॥३॥
धात्रीं शुभगुणपात्रीमादाय अशेषविबुध-मोदय।
शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥
नमोऽस्तु हरये युक्ति गिरये निर्जितारये।
समस्त-गुरवे कल्पतरवे परवेदिनाम्॥५॥
॥इति श्रीवादिराजयति-कृतं वराहपञ्चकं संपूर्णम्॥
varAhapa~nchakam Lyrics in Hindi ॥ वराहपञ्चकम् ॥