Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Radha Krishnayugala | Sahasranamavali Stotram Lyrics in Hindi

Shri Radha Krrishnayugala Sahasranamavali Lyrics in Hindi:

॥ श्रीराधाकृष्णयुगलसहस्रनामावलिः ॥
श्रीकृष्णनामावलिः १-५०० ॥

ॐ देवकीनन्दनाय नमः । शौरये । वासुदेवाय । बलानुजाय ।
गदाग्रजाय । कंसमोहाय । कंससेवकमोहनाय । भिन्नार्गलाय ।
भिन्नलोहाय । पितृवाह्याय । पितृस्तुताय । मातृस्तुताय ।
शिवध्येयाय । यमुनाजलभेदनाय । व्रजवासिने । व्रजानन्दिने ।
नन्दबालाय । दयानिधये । लीलाबालाय । पद्मनेत्राय नमः ॥ २० ॥

ॐ गोकुलोत्सवाय नमः । ईश्वराय । गोपिकानन्दनाय । कृष्णाय ।
गोपानन्दाय । सताङ्गतये । बकप्राणहराय । विष्णवे ।
बकमुक्तिप्रदाय । हरये । बलदोलाशयशयाय । श्यामलाय ।
सर्वसुन्दराय । पद्मनाभाय । हृषीकेशाय । क्रीडामनुजबालकाय ।
लीलाविध्वस्तशकटाय । वेदमन्त्राभिषेचिताय । यशोदानन्दनाय ।
कान्ताय नमः ॥ ४० ॥

ॐ मुनिकोटिनिषेविताय । नित्यं मधुवनावासिने । वैकुण्ठाय ।
सम्भवाय । क्रतवे । रमापतये । यदुपतये । मुरारये । मधुसूदनाय ।
माधवाय । मानहारिणे । श्रीपतये । भूधराय । प्रभवे ।
बृहद्वनमहालीलाय । नन्दसूनवे । महासनाय । तृणावर्तप्राणहारिणे ।
यशोदाविस्मयप्रदाय । त्रैलोक्यवक्त्राय नमः ॥ ६० ॥

ॐ पद्माक्षाय नमः । पद्महस्ताय । प्रियङ्कराय । ब्रह्मण्याय ।
धर्मगोप्त्रे । भूपतये । श्रीधराय । स्वराजे । अजाध्यक्षाय ।
शिवाध्यक्षाय । धर्माध्यक्षाय । महेश्वराय । वेदान्तवेद्याय ।
ब्रह्मस्थाय । प्रजापतये । अमोघदृशे । गोपीकरावलम्बिने ।
गोपबालकसुप्रियाय बलानुयायिने । बलवते नमः ॥ ८० ॥

ॐ श्रीदामप्रियाय नमः । आत्मवते । गोपीगृहाङ्गणरतये । भद्राय ।
सुश्लोकमङ्गलाय । नवनीतहराय । बलाय । नवनीतप्रियाशनाय ।
बालवृन्दिने । मर्कवृन्दिने । चकिताक्षाय ।
पलायिताय । यशोदातर्जिताय । कम्पिने । मायारुदितशोभनाय ।
दामोदराय । अप्रमेयात्मने । दयालवे । भक्तवत्सलाय ।
सुबद्धोलूखलाय नमः ॥ १०० ॥

ॐ नम्रशिरसे नमः । गोपीकदर्थिताय । वृक्षभङ्गिने ।
शोकभङ्गिने । धनदात्मजमोक्षणाय । देवर्षिवचनश्लाघिने ।
भक्तवात्सल्यसागराय । व्रजकोलाहलकराय । व्रजानन्दविवर्धनाय ।
गोपात्मने । प्रेरकाय । साक्षिणे । वृन्दावननिवासकृते । वत्सपालाय ।
वत्सपतये । गोपदारकमण्डनाय । बालक्रीडाय । बालरतये । बालकाय ।
कनकाङ्गदिने नमः ॥ १२० ॥

ॐ पीताम्बराय नमः । हेममालिने । मणिमुक्ताविभूषणाय । किङ्किणिने ।
कटकिने । सूत्रिणे । नूपुरिणे । मुद्रिकान्विताय । वत्सासुरपतिध्वंसिने ।
बकासुरविनाशनाय । अघासुरविनाशिने । विनिद्रीकृतबालकाय । आद्याय ।
आत्मप्रदाय । संज्ञिने । यमुनातीरभोजनाय । गोपालमण्डलीमध्याय ।
सर्वगोपालभूषणाय । कृतहस्ततलग्रासाय ।
व्यञ्जनाश्रितशाखिकाय नमः ॥ १४० ॥

ॐ कृतबाहुश‍ृङ्गयष्टये नमः । गुञ्जालङ्कृतकण्ठकाय ।
मयूरपिञ्च्छमुकुटाय । वनमालाविभूषिताय । गैरिकाचित्रितवपुषे ।
नवमेघवपुषे । स्मराय । कोटिकन्दर्पलावण्याय । लसन्मकरकुण्डलाय ।
आजानुबाहवे । भगवते । निद्रारहितलोचनाय । कोटिसागरगाम्भीर्याय ।
कालकालाय । सदाशिवाय । विरिञ्चिमोहनवपुषे । गोपवत्सवपुर्धराय ।
ब्रह्माण्डकोटिजनकाय । ब्रह्ममोहविनाशकाय । ब्रह्मणे नमः ॥ १६० ॥

ॐ ब्रह्मेडिताय नमः । स्वामिने । शक्रदर्पादिनाशनाय ।
गिरिपूजोपदेष्ट्रे । धृतगोवर्धनाचलाय । पुरन्दरेडिताय । पूज्याय ।
कामधेनुप्रपूजिताय । सर्वतीर्थाभिषिक्ताय । गोविन्दाय । गोपरक्षकाय ।
कालीयार्तिकराय । क्रूराय । नागपत्नीडिताय । विराजे । धेनुकारये ।
प्रलम्बारये । वृषासुरविमर्दनाय । मायासुरात्मजध्वंसिने ।
केशिकण्ठविदारकाय नमः ॥ १८० ॥

ॐ गोपगोप्त्रे नमः । धेनुगोप्त्रे । दावाग्निपरिशोषकाय ।
गोपकन्यावस्त्रहारिणे । गोपकन्यावरप्रदाय । यज्ञपत्न्यन्नभोजिने ।
मुनिमानापहारकाय । जलेशमानमथनाय । नन्दगोपालजीवनाय ।
गन्धर्वशापमोक्त्रे । शङ्खचूडशिरोहराय । वंशिने । वटिने ।
वेणुवादिने । गोपीचिन्तापहारकाय । सर्वगोप्त्रे । समाह्वानाय ।
सर्वगोपीमनोरथाय । व्यङ्गधर्मप्रवक्त्रे ।
गोपीमण्डलमोहनाय नमः ॥ २०० ॥

ॐ रासक्रीडारसास्वादिने नमः । रसिकाय । राधिकाधवाय ।
किशोरीप्राणनाथाय । वृषभानुसुताप्रियाय । सर्वगोपीजनानन्दिने ।
गोपीजनविमोहनाय । गोपिकागीतचरिताय । गोपीनर्तनलालसाय ।
गोपीस्कन्धाश्रितकराय । गोपिकाचुम्बनप्रियाय । गोपिकामार्जितमुखाय ।
गोपीव्यजनवीजिताय । गोपिकाकेशसंस्कारिणे । गोपिकापुष्पसंस्तराय ।
गोपिकाहृदयालम्बिने । गोपीवहनतत्पराय । गोपिकामदहारिणे ।
गोपिकापरिमार्जिताय । गोपिकाकृतसन्नी(ल्ली)लाय नमः ॥ २२० ॥

ॐ गोपिकासंस्मृतप्रियाय । गोपिकावन्दितपदाय । गोपिकावशवर्तनाय ।
राधापराजिताय । श्रीमते । निकुञ्जे सुविहारवते । कुञ्जप्रियाय ।
कुञ्जवासिने । वृन्दावनविकासनाय । यमुनाजलसिक्ताङ्गाय ।
यमुनासौख्यदायकाय । शशिसंस्तम्भनाय । शूराय । कामिने ।
कामविमोहनाय । कामाद्याय । कामनाथाय । काममानसभेदनाय । कामदाय ।
कामरूपाय नमः ॥ २४० ॥

ॐ कामिनीकामसञ्चयाय । नित्यक्रीडाय । महालीलाय । सर्वाय ।
सर्वगताय । परमात्मने । पराधीशाय । सर्वकारणकारणाय ।
गृहीतनारदवचसे । अक्रूरपरिचिन्तिताय । अक्रूरवन्दितपदाय ।
गोपिकातोषकारकाय । अक्रूरवाक्यसङ्ग्राहिणे । मथुरावासकारणाय ।
अक्रूरतापशमनाय । रजकायुःप्रणाशनाय । मथुरानन्ददायिने ।
कंसवस्त्रविलुण्ठनाय । कंसवस्त्रपरीधानाय ।
गोपवस्त्रप्रदायकाय नमः ॥ २६० ॥

ॐ सुदामागृहगामिने नमः । सुदामापरिपूजिताय । तन्तुवायक-
सम्प्रीताय । कुब्जाचन्दनलेपनाय । कुब्जारूपप्रदाय । विज्ञाय ।
मुकुन्दाय । विष्टरश्रवसे । सर्वज्ञाय । मथुराऽऽलोकिने ।
सर्वलोकाभिनन्दनाय । कृपाकटाक्षदर्शिने । दैत्यारिणे ।
देवपालकाय । सर्वदुःखप्रशमनाय । धनुर्भङ्गिने । महोत्सवाय ।
कुवलयापीडहन्त्रे । दन्तस्कन्धबलाग्रण्ये ।
कल्परूपधराय नमः ॥ २८० ॥

ॐ धीराय नमः । दिव्यवस्त्रानुलेपनाय । मल्लरूपाय ।
महाकालाय । कामरूपिणे । बलान्विताय । कंसत्रासकराय । भीमाय ।
मुष्टिकान्ताय । कंसघ्ने । चाणूरघ्नाय । भयहराय । शलारये ।
तोशलान्तकाय । वैकुण्ठवासिने । कंसारये । सर्वदुष्टनिषूदनाय ।
देवदुन्दुभिनिर्घोषिणे । पितृशोकनिवारणाय ।
यादवेन्द्राय नमः ॥ ३०० ॥

ॐ सतां नाथाय नमः । यादवारिप्रमर्दनाय । शौरिशोकविनाशिने ।
देवकीतापनाशनाय । उग्रसेनपरित्रात्रे । उग्रसेनाभिपूजिताय ।
उग्रसेनाभिषेकिने । उग्रसेनदयापराय । सर्वसात्वतसाक्षिणे । यदूनां
अभिनन्दनाय । सर्वमाथुरसंसेव्याय । करुणाय । भक्तबान्धवय ।
सर्वगोपालधनदाय । गोपीगोपालालसाय । शौरिदत्तोपवीतिने ।
उग्रसेनदयाकराय । गुरुभक्ताय । ब्रह्मचारिणे ।
निगमाध्ययने रताय नमः ॥ ३२० ॥

ॐ सङ्कर्षणसहाध्यायिने नमः । सुदामासुहृदे । विद्यानिधये ।
कलाकोशाय । मृतपुत्रप्रदाय । चक्रिणे । पाञ्चजनिने ।
सर्वनारकिमोचनाय । यमार्चिताय । पराय देवाय । नामोच्चारवशाय ।
अच्युताय । कुब्जाविलासिने । सुभगाय । दीनबन्धवे । अनूपमाय ।
अक्रूरगृहगोप्त्रे । प्रतिज्ञापालकाय । शुभाय ।
जरासन्धजयिने नमः ॥ ३४० ॥

ॐ विदुषे नमः । यवनान्ताय । द्विजाश्रयाय । मुचुकुन्दप्रियकराय ।
जरासन्धपलायिताय । द्वारकाजनकाय । गूढाय । ब्रह्मण्याय ।
सत्यसङ्गराय । लीलाधराय । प्रियकराय । विश्वकर्मयशःप्रदाय ।
रुक्मिणीप्रियसन्देशाय । रुक्मिशोकविवर्धनाय । चैद्यशोकालयाय ।
श्रेष्ठाय । दुष्टराजन्यनाशनाय । रुक्मिवैरूप्यकरणाय ।
रुक्मिणीवचने रताय । बलभद्रवचोग्राहिणे नमः ॥ ३६० ॥

ॐ मुक्तरुक्मिणे नमः । जनार्दनाय । रुक्मिणीप्राणनाथाय ।
स्वयंसत्यभामापतये । भक्तपक्षिणे । भक्तिवश्याय ।
अक्रूरमणीदायकाय । शतधन्वप्राणहारिणे । ऋक्षराजसुताप्रियाय ।
सत्राजित्तनयाकान्ताय । मित्रविन्दापहारकाय । सत्यापतये । लक्ष्मणाजिते ।
पूज्याय । भद्राप्रियङ्कराय । नरकासुरघातिने । लीलाकन्याहराय ।
जयिने । मुरारये । मदनेशाय नमः ॥ ३८० ॥

धरित्रीदुःखनाशनाय । वैनतेयिने । स्वर्गगामिने । अदित्यै
कुण्डलप्रदाय । इन्द्रार्चिताय । रमाकान्ताय । वज्रिभार्याप्रपूजिताय ।
पारिजातापहारिणे । शक्रमानापहारकाय । प्रद्युम्नजनकाय । साम्बताताय ।
बहुसुताय । विधवे । गर्गाचार्याय । सत्यगतये । धर्माधाराय ।
धराधराय । द्वारकामण्डनाय । श्लोक्याय । सुश्लोकाय नमः ॥ ४०० ॥

ॐ निगमालयाय । पौन्ड्रकप्राणहारिणे । काशीराजशिरोहरये ।
अवैष्णवप्रदाहिने । सुदक्षिणभयावहाय । जरासन्धविदारिणे ।
धर्मनन्दनयज्ञकृते । शिशुपालशिरश्छेदिने ।
दन्तवक्त्रविनाशनाय । विदूरथान्तकाय । श्रीशाय । श्रीदाय ।
द्विविदनाशनाय । रुक्मिणीमानहारिणे । रुक्मिणीमानवर्धनाय ।
देवर्षिशापहर्त्रे । द्रौपदीवाक्यपालकाय । दुर्वासभयहारिणे ।
पाञ्चालीस्मरणागताय । पार्थदूताय नमः ॥ ४२० ॥

ॐ पार्थमन्त्रिणे नमः । पार्थदुःखौघनाशनाय । पार्थमानापहारिणे ।
पार्थजीवनदायकाय । पाञ्चालीवस्त्रदात्रे । विश्वपालकपालकाय ।
श्वेताश्वसारथये । सत्याय । सत्यसाध्याय । भयापहाय ।
सत्यसन्धाय । सत्यरतये । सत्यप्रियाय । उदारधिये । महासेनजयिने ।
शिवसैन्यविनाशानाय । बाणासुरभुजच्छेत्रे । बाणबाहुवरप्रदाय ।
तार्क्ष्यमानापहारिणे । तार्क्ष्यतेजोविवर्धनाय नमः ॥ ४४० ॥

ॐ रामस्वरूपधारिणे नमः । सत्यभामामुदावहाय ।
रत्नाकरजलक्रीडाय । व्रजलीलाप्रदर्शकाय ।
स्वप्रतिज्ञापरध्वंसिने । भीष्माज्ञापरिपालकाय । वीरायुधहराय ।
कालाय । कालिकेशाय । महाबलाय । वर्वरीषशिरोहारिणे ।
वर्वरीषशिरःप्रदाय । धर्मपुत्रजयिने । शूरदुर्योधनमदान्तकाय ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडाय । व्रजेश्वराय । राधाकुण्डरतये ।
धन्याय । सदान्दोलसमाश्रिताय । सदामधुवनानन्दिने नमः ॥ ४६० ॥

ॐ सदावृन्दावनप्रियाय । अशोकवनसन्नद्धाय । सदातिलकसङ्गताय ।
सदागोवर्धनरतये । सदागोकुलवल्लभाय । भाण्डीरवटसंवासिने ।
नित्यं वंशीवरस्थिताय । नन्दिग्रामकृतावासाय ।
वृषभानुग्रहप्रियाय । गृहीतकामिनीय । नित्यं रासविलासकृते ।
वल्ल्बीजनसङ्गोप्त्रे । वल्लवीजनवल्लभाय । देवशर्मकृपाकर्त्रे ।
कल्पपादपसंस्थिताय । शिलानुगन्धनिलयाया पादचारिणे ।
घनच्छवये । अतसीकुसुमप्रख्याय ।
सदालक्ष्मीकृपाकराय नमः ॥ ४८० ॥

ॐ त्रिपुरारिप्रियकराय नमः । उग्रधन्वने । अपराजिताय ।
षड्धुरध्वंसकर्त्रे । निकुम्भप्राणहारकाय । वज्रनाभपुरध्वंसिने ।
पौण्ड्रकप्राणहारकाय । बहुलाश्वप्रीतिकर्त्रे । द्विजवर्यप्रियङ्कराय ।
शिवसङ्कटहारिणे । वृकासुरविनाशनाय । भृगुसत्कारकारिणे ।
शिवसात्विकताप्रदाय । गोकर्णपूजकाय । साम्बकुष्ठविध्वंसकारणाय ।
वेदस्तुताय । वेदवेत्त्रे । यदुवंशविवर्धनाय । यदुवंशविनाशिने ।
उद्धवोद्धारकारकाय नमः ॥ ५०० ॥

श्रीराधानामावलिः ५० ॥ १-१०० ॥ ० ॥

ॐ राधायै नमः । राधिकायै । आनन्दायै । वृषभानुजायै ।
वृन्दावनेश्वर्यै । पुण्यायै । कृष्णमानसहारिण्यै । प्रगल्भायै ।
चतुर्यै । कामायै । कामिन्यै । हरिमोहिन्यै । ललितायै । मधुरायै ।
माध्व्यै । किशोर्यै । कनकप्रभायै । जितचन्द्रायै । जितमृगायै ।
जितसिंहायै नमः ॥ ५२० ॥

ॐ जितद्विपायै नमः । जितरम्भायै । जितपिकायै ।
गोविन्दहृदयोद्भवायै । जितबिम्बायै । जितशुकायै । जितपद्मायै ।
कुमारिकायै । श्रीकृष्णाकर्षणायै । देव्यै । नित्यं युग्मस्वरूपिण्यै ।
नित्यं विहारिण्यै । कान्तायै । रसिकायै । कृष्णवल्लभायै ।
आमोदिन्यै । मोदवत्यै । नन्दनन्दनभूषितायै । दिव्याम्बरायै ।
दिव्यहारायै नमः ॥ ५४० ॥

ॐ मुक्तामणिविभूषितायै नमः । कुञ्जप्रियायै । कुञ्जवासायै ।
कुञ्जनायकनायिकायै । चारुरूपायै । चारुवक्त्रायै । चारुहेमाङ्गदायै ।
शुभायै । श्रीकृष्णवेणुसङ्गीतायै । मुरलीहारिण्यै । शिवायै ।
भद्रायै । भगवत्यै । शान्तायै । कुमुदायै । सुन्दर्यै । प्रियायै ।
कृष्णक्रिडायै । कृष्णरत्यै । श्रीकृष्णसहचारिण्यै नमः ॥ ५६० ॥

ॐ वंशीवटप्रियस्थानायै । युग्मायुग्मस्वरूपिण्यै । भाण्डीरवासिन्यै ।
शुभ्रायै । गोपीनाथप्रियासख्यै । श्रुतिनिःश्वसितायै । दिव्यायै ।
गोविन्दरसदायिन्यै । श्रीकृष्णप्रार्थन्यै । ईशानायै ।
महानन्दप्रदायिन्यै । वैकुण्ठजनसंसेव्यायै । कोटिलक्ष्मीसुखावहायै ।
कोटिकन्दर्पलावण्यायै । रतिकोटिरतिप्रदायै । भक्तिग्राह्यायै ।
भक्तिरूपायै । लावण्यसरस्यै । उमायै ।
ब्रह्मरुद्रादिसंराध्यायै नमः ॥ ५८० ॥

ॐ नित्यं कौतूहलान्वितायै नमः । नित्यलीलायै । नित्यकामायै ।
नित्यश‍ृङ्गारभूषितायै । नित्यवृन्दावनरसायै ।
नन्दनन्दनसंयुतायै । गोपिकामण्डलीयुक्तायै । नित्यं गोपालसङ्गतायै ।
गोरसक्षेपिण्यै । शूरायै । सानन्दायै । आनन्ददायिन्यै । महालीलायै ।
प्रकृष्टायै । नागर्यै । नगचारिण्यै । नित्यमाघूर्णितायै ।
पूर्णायै । कस्तूरीतिलकान्वितायै । पद्मायै नमः ॥ ६०० ॥

ॐ श्यामायै नमः । मृगाक्ष्यै । सिद्धिरूपायै । रसावहायै ।
कोटिचन्द्राननायै । गौर्यै । कोटिकोकिलसुस्वरायै ।
शीलसौन्दर्यनिलयायै । नन्दनन्दनलालितायै । अशोकवनसंवासायै ।
भाण्डीरवनसङ्गतायै । कल्पद्रुमतलाविष्टायै । कृष्णायै ।
विश्वायै । हरिप्रियायै । अजागम्यायै । भवागम्यायै ।
गोवर्धनकृतालयायै । यमुनातीरनिलयायै ।
शश्वद्गोविन्दजल्पिन्यै नमः ॥ ६२० ॥

ॐ शश्वन्मानवत्यै नमः । स्निग्धायै । श्रीकृष्णपरिवन्दितायै ।
कृष्णस्तुतायै । कृष्णवृतायै । श्रीकृष्णहृदयालयायै ।
देवद्रुमफलायै । सेव्यायै । वृन्दावनरसालयायै । कोटितीर्थमय्यै ।
सत्यायै । कोटितीर्थफलप्रदायै । कोटियोगसुदुष्प्राप्यायै ।
कोटियज्ञदुराश्रयायै । मानसायै । शशिलेखायै । श्रीकोटिसुभगायै ।
अनघायै । कोटिमुक्तसुखायै । सौम्यायै नमः ॥ ६४० ॥

ॐ लक्ष्मीकोटिविलासिन्यै । तिलोत्तमायै । त्रिकालस्थायै । त्रिकालज्ञायै ।
अधीश्वर्यै । त्रिवेदज्ञायै । त्रिलोकज्ञायै । तुरीयान्तनिवासिन्यै ।
दुर्गाराध्यायै । रमाराध्यायै । विश्वाराध्यायै । चिदात्मिकायै ।
देवाराध्यायै । पराराध्यायै । ब्रह्माराध्यायै । परात्मिकायै ।
शिवाराध्यायै । प्रेमसाध्यायै । भक्ताराध्यायै ।
रसात्मिकायै नमः ॥ ६६० ॥

ॐ कृष्णप्राणार्पिण्यै नमः । भामायै । शुद्धप्रेमविलासिन्यै ।
कृष्णाराध्यायै । भक्तिसाध्यायै । भक्तवृन्दनिषेवितायै ।
विश्वाधारायै । कृपाधारायै । जीवाधारायै । अतिनायिकायै ।
शुद्धप्रेममय्यै । लज्जायै । नित्यसिद्ध्यै । शिरोमणये । दिव्यरूपायै ।
दिव्यभोगायै । दिव्यवेषायै । मुदान्वितायै । दिव्याङ्गनावृन्दसारायै ।
नित्यनूतनयौवनायै नमः ॥ ६८० ॥

ॐ परब्रह्मावृतायै नमः । ध्येयायै । महारूपायै । महोज्ज्वलायै ।
कोटिसूर्यप्रभायै । कोटिचन्द्रबिम्बाधिकच्छवये । कोमलायै ।
अमृतवागाद्यायै । वेदाद्यायै । वेददुर्लभायै । कृष्णासक्तायै ।
कृष्णभक्तायै । चन्द्रावलिनिषेवितायै । कलाषोडशसम्पूर्णायै ।
कृष्णदेहार्धधारिण्यै । कृष्णबुद्धये । कृष्णसारायै ।
कृष्णरूपविहारिण्यै । कृष्णकान्तायै । कृष्णधनायै नमः ॥ ७०० ॥

ॐ कृष्णमोहनकारिण्यै नमः । कृष्णदृष्टये । कृष्णगोप्त्र्यै ।
कृष्णदेव्यै । कुलोद्वहायै । सर्वभूतस्थितात्मने ।
सर्वलोकनमस्कृतायै । कृष्णदात्र्यै । प्रेमधात्र्यै । स्वर्णगात्र्यै ।
मनोरमायै । नगधात्र्यै । यशोदात्र्यै । महादेव्यै । शुभङ्कर्यै ।
श्रीशेषदेवजनन्यै । अवतारगणप्रसुवे । उत्पलाङ्कायै ।
अरविन्दाङ्कायै । प्रसादाङ्कायै नमः ॥ ७२० ॥

ॐ अद्वितीयकायै नमः । रथाङ्कायै । कुञ्जाराङ्कायै ।
कुण्डलाङ्कायै । पदस्थितायै । छत्राङ्कायै । विद्युदङ्कायै ।
पुष्पमालाङ्कितायै । दण्डाङ्कायै । मुकुटाङ्कायै । पूर्णचन्द्रायै ।
शुकाङ्कितायै । कृष्णान्नाहारपाकायै । वृन्दाकुञ्जविहारिण्यै ।
कृष्णप्रबोधनकर्यै । कृष्णशेषान्नभोजिन्यै ।
पद्मकेसरमध्यस्थायै । सङ्गीतागमवेदिन्यै ।
कोटिकल्पान्तभ्रूभङ्गायै । अप्राप्तप्रलयाच्युतायै नमः ॥ ७४० ॥

ॐ सर्वसत्वनिधये । पद्मशङ्खादिनिधिसेवितायै ।
अणिमादिगुणैश्वर्यायै । देवृवृन्दविमोहिन्यै । सर्वानन्दप्रदायै ।
सर्वायै । सुवर्णलतिकाकृतये । कृष्णाभिसारसङ्केतायै । मालिन्यै ।
नृत्यपण्डितायै । गोपीसिन्धुसकाशाह्वायै । गोपमण्डलशोभिन्यै ।
श्रीकृष्णप्रीतिदायै । अभीतायै । प्रत्यङ्गपुलकाञ्चितायै ।
श्रीकृष्णालिङ्गनरतायै । गोविन्दविरहाक्षमायै ।
अनन्तगुणसम्पन्नायै । कृष्णकीर्तनलालसायै । बीजत्रयमय्यै
मूर्त्यै नमः ॥ ७६० ॥

ॐ कृष्णानुग्रहवाञ्छितायै नमः । विमलादिनिषेव्यायै ।
ललिताद्यर्चितायै सत्यै । पद्मवृन्दस्थितायै हृष्टायै ।
त्रिपुरापरिसेवितायै । बृन्दावत्यर्चितायै । श्रद्धायै ।
दुर्ज्ञेयायै । भक्तवल्लभायै । दुर्लभायै । सान्द्रसौख्यात्मने ।
श्रेयोहेतवे । सुभोगदायै । सारङ्गायै । शारदायै । बोधायै ।
सद्वृन्दावनचारिण्यै नमः । ब्रह्मानन्दायै । चिदानन्दायै
ध्यानानन्दायै नमः ॥ ७८० ॥

ॐ अर्धमात्रिकायै नमः । गन्धर्वायै । सुरतज्ञायै ।
गोविन्दप्राणसङ्गमायै । कृष्णाङ्गभूषणायै । रत्नभूषणायै ।
स्वर्णभूषितायै । श्रीकृष्णहृदयावासमुक्ताकनकनालिकायै ।
सद्रत्नकङ्कणयुतायै । श्रीमन्नीलगिरिस्थितायै ।
स्वर्णनूपुरसम्पन्नायै । स्वर्णकिङ्किणिमण्डितायै । अशेषरासकुतुकायै ।
रम्भोरवे । तनुमध्यमायै । पराकृतये । परानन्दायै ।
परस्वर्गविहारिण्यै । प्रसूनकबरीचित्रायै ।
महासिन्दूरसुन्दर्यै नमः ॥ ८०० ॥

ॐ कैशोरवयसा बालायै । प्रमदाकुलशेखर्यै ।
कृष्णाधरसुधास्वादायै । श्यामप्रेमविनोदिन्यै ।
शिखिपिञ्छलसच्चूडायै । स्वर्णचम्पकभूषितायै ।
कुङ्कुमालक्तकस्तूरीमण्डितायै । अपराजितायै । हेमहारान्वितायै ।
पुष्पहाराढ्यायै । रसवत्यै । माधुर्यमधुरायै ।
अपराजितायै । हेमहारान्वितायै । पुष्पहाराढ्यायै । रसवत्यै ।
माधुर्यमधुरायै । पद्मायै । पद्महस्तायै । सुविश्रुतायै ।
भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिन्यै । शेषदेवशिरःस्थायै ।
नित्यस्थलविहारिण्यै । कारुण्यजलमध्यस्थायै ।
नित्यमत्तायै नमः ॥ ८२० ॥

ॐ अधिरोहिण्यै नमः । अष्टभाषावत्यै । अष्टनायिकायै ।
लक्षणान्वितायै । सुनीतिज्ञायै । श्रुतिज्ञायै । सर्वज्ञायै ।
दुःखहारिण्यै । रजोगुणेश्वर्यै । शरच्चन्द्रनिभाननायै ।
केतकीकुसुमाभासायै । सदासिन्धुवनस्थितायै । हेमपुष्पाधिककरायै ।
पञ्चशक्तिमयीहितायै । स्तनकुम्भ्यै । नराढ्यायै । क्षीणापुण्यायै ।
यशस्विन्यै । वैराजसूयजनन्यै । श्रीशायै नमः ॥ ८४० ॥

ॐ भुवनमोहिन्यै नमः । महाशोभायै । महामायायै । महाकान्त्यै ।
महास्मृत्यै । महामोहायै । महाविद्यायै । महाकीर्त्यै । महारत्यै ।
महाधैर्यायै । महावीर्यायै । महाशक्त्यै । महाद्युत्यै । महागौर्यै ।
महासम्पदे । महाभोगविलासिन्यै । समयायै । भक्तिदायै । अशोकायै ।
वात्सल्यरसदायिन्यै नमः ॥ ८६० ॥

ॐ सुहृद्भक्तिप्रदायै नमः । स्वच्छायै । माधुर्यरसवर्षिण्यै ।
भावभक्तिप्रदायै । शुद्धप्रेमभक्तिविधायिन्यै । गोपरामायै ।
अभिरामायै । क्रीडारामायै । परेश्वर्यै । नित्यरामायै । आत्मरामायै ।
कृष्णरामायै । रसेश्वर्यै । एकानेकजगद्व्याप्तायै । विश्वलीलायै ।
प्रकाशिन्यै । सरस्वतीशायै । दुर्गेशायै । जगदीशायै ।
जगद्विधये नमः ॥ ८८० ॥

ॐ विष्णुवंशनिवासायै । विष्णुवंशसमुद्भवायै ।
विष्णुवंशस्तुतायै । कर्त्र्यै । सदा विष्णुवंशावन्यै । आरामस्थायै ।
वनस्थायै । सूर्यपुत्र्यवगाहिन्यै । प्रीतिस्थायै । नित्ययन्त्रस्थायै ।
गोलोकस्थायै । विभूतिदायै । स्वानुभूतिस्थितायै । व्यक्तायै ।
सर्वलोकनिवासिन्यै । अमृतायै । अद्भुतायै । श्रीमन्नारायणसमीडितायै ।
अक्षरायै । कूटस्थायै नमः ॥ ९०० ॥

ॐ महापुरुषसम्भवायै नमः । औदार्यभावसाध्यायै । स्थूलसूक्ष्मायै ।
अतिरूपिण्यै । शिरीषपुष्पमृदुलायै । गाङ्गेयमुकुरप्रभायै ।
नीलोत्पलजिताक्ष्यै । सद्रत्नकबरान्वितायै । प्रेमपर्यङ्कनिलयायै ।
तेजोमण्डलमध्यगायै । कृष्णाङ्गगोपनायै । अभेदायै ।
लीलावरणनायिकायै । सुधासिन्धुसमुल्लासायै । अमृतास्यन्दविधायिन्यै ।
कृष्णचित्तायै । रासचित्तायै । प्रेमचित्तायै । हरिप्रियायै ।
अचिन्तनगुणग्रामायै नमः ॥ ९२० ॥

ॐ कृष्णलीलायै । मलापहायै । राससिन्धुशशाङ्कायै ।
रासमण्डलमण्डिन्यै । नतव्रतायै । सिंहरीच्छायै । सुमूर्तये ।
सुरवन्दितायै । गोपीचूडामणये । गोपीगणेड्यायै । विरजाधिकायै ।
गोपप्रेष्ठायै । गोपकन्यायै । गोपनार्यै । सुगोपिकायै । गोपधाम्ने ।
सुदामाम्बायै । गोपाल्यै । गोपमोहिन्यै । गोपभूषायै नमः ॥ ९४० ॥

ॐ कृष्णभूषायै नमः । श्रीवृन्दावनचन्द्रिकायै ।
वीणादिघोषनिरतायै । रासोत्सवविकासिन्यै । कृष्णचेष्टापरिज्ञातायै ।
कोटिकन्दर्पमोहिन्यै । श्रीकृष्णगुणगानाढ्यायै ।
देवसुन्दरिमोहिन्यै । कृष्णचन्द्रमनोज्ञायै । कृष्णदेवसहोदर्यै ।
कृष्णाभिलाषिण्यै । कृष्णप्रेमानुग्रहवाञ्छितायै । क्षेमायै ।
मधुरालापायै । भ्रुवोर्मायायै । सुभद्रिकायै । प्रकृत्यै ।
परमानन्दायै । नीपद्रुमतलस्थितायै । कृपाकटाक्षायै नमः ॥ ९६० ॥

ॐ बिम्बोष्ठ्यै नमः । रम्भायै । चारुनितम्बिन्यै । स्मरकेलिनिधानायै ।
गण्डताटङ्कमण्डितायै । हेमाद्रिकान्तिरुचिरायै । प्रेमाद्यायै ।
मदमन्थरायै । कृष्णचिन्तायै । प्रेमचिन्तायै । अतिचिन्तायै ।
कृष्णदायै । रासचिन्तायै । भावचिन्तायै । शुद्धचिन्तायै ।
महारसायै । कृष्णदृष्टित्रुटियुगायै । दृष्टिपक्ष्मविनिन्दिन्यै ।
कन्दर्पजनन्यै । मुख्यायै नमः ॥ ९८० ॥

ॐ वैकुण्ठगतिदायिन्यै नमः । रासभावायै । प्रियाश्लिष्टायै ।
प्रेष्ठायै । प्रथमनायिकायै । शुद्धायै । सुधादेहिन्यै ।
श्रीरामायै । रसमञ्जर्यै । सुप्रभावायै । शुभाचारायै ।
स्वर्णद्यै । नर्मदायै । अम्बिकायै । गोमत्यै । चन्द्रभागेड्यायै ।
सरयूताम्रपर्णिसुवे । निष्कलङ्कचरित्रायै । निर्गुणायै ।
निरञ्जनायै नमः ॥ १००० ॥

इति श्रीराधाकृष्णयुगलसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Radha Krishna Yugala:

1000 Names of Sri Radha Krrishnayugala | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Radha Krishnayugala | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top