Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Skanda Mahapurana Lyrics in Hindi

Shiva Sahasranamastotram from Skandamahapurana in Hindi:

॥ श्रीशिवसहस्रनामस्तोत्रम् स्कन्दमहापुराणान्तर्गतम् ॥
(श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे)
हरश्शम्भुर्महादेवो नीलकण्ठस्सदाशिवः ।
भर्ता वरः पाण्डराङ्ग आनन्दश्शान्तविग्रहः ॥ १ ॥

एकोऽनन्तो मृगधरः शूलपाणिर्भवः शिवः ।
वह्निमध्यनटो मुक्तः स्वयम्भूर्निशिनर्तनः ॥ २ ॥

नन्दी परशुपाणिश्च ज्योतिर्भस्माङ्गरागभृत् ।
गजोत्पादी कपाली च नित्यश्शुद्धोऽग्निधारकः ॥ ३ ॥

शङ्करो भूरथो मेरुचापो वृषभवाहनः ।
उत्पत्तिशून्यो भूतेशो नागाभरणधारणः ॥ ४ ॥

उमार्धदेही हिमवज्जामाता भर्ग उत्तमः ।
उमापतिर्वह्निपाणिश्छेत्ता प्रलयनिर्भयः ॥ ५ ॥

एकरुद्रः पार्थबाणप्रदो रुद्रोऽतिवीर्यवान् ।
रविचक्ररथस्तद्वत्सोमचक्ररथःस्मृतः ॥ ६ ॥

दिगम्बरस्सर्वनेता विष्णुमत्स्यनिबर्हकः ।
मत्स्यनेत्रापहारीच मत्स्यनेत्र विभूषणः ॥ ७ ॥

मत्स्यपूजितपादश्च तथैव कमलासनः ।
वेदवेद्यः स्मृतस्तद्वद्वेदाश्वरथ ईरितः ॥ ८ ॥

वेदश्च वेदकौपीनो वेदनुपूरकस्तथा ।
वेदवाक्यो वेदमूर्तिर्वेदान्तो वेदपूजितः ॥ ९ ॥

सर्वेश्वरो नादवाच्यो ब्रह्ममूर्धनिकृन्तनः ।
ताण्डवश्चामृतस्तद्वदूर्ध्वताण्डवपण्डितः ॥ १० ॥

आनन्दश्चण्ड आनन्दताण्डवः पूषदन्तभित् ।
भगनेत्रहरस्तद्वद्गजचर्माम्बरप्रियः ॥ ११ ॥

कामान्तको व्याघ्रभेदी मृगी चैकाङ्गकस्तथा ।
निर्विकारः पशुपतिस्सर्वात्मगोचरस्तथा ॥ १२ ॥

अग्रिनेत्रो भानुनेत्रश्चन्द्रनेत्रोऽपि कथ्यते ।
कूर्मनिग्राहकः कूर्मकपालाहारकस्तथा ॥ १३ ॥

कूर्मपूज्यस्तथा कूर्मकपालाभरणस्तथा ।
व्याघ्रचर्माम्बरः स्वामी तथा पाशविमोचकः ॥ १४ ॥

ओङ्काराभेनद् द्वन्द्वभञ्जकज्ञानमूर्तयः ।
विष्णुबाणो गणपतिः पूतोऽयन्तु पुरातनः ॥ १५ ॥

भूतनुश्च कृपामूर्तिः विष्णूत्पादकपादवान्।
सुब्रह्मण्यपिता ब्रह्मपिता स्थाणुरथ स्मृतः ॥ १६ ॥

अर्भकक्षीरजलधिप्रदो पोत्रिविभेदकः ।
पोत्रिदन्तापहारी च पोत्रिदन्तविभूषणः ॥ १७ ॥

पोत्रिपूजितपादश्च चन्द्रपुष्पेषुकस्तथा ।
सर्वोपादानकस्तद्वदार्द्रभोऽग्निसमाकृतिः ॥ १८ ॥

मातापितृविहीनश्च धर्माधर्मावुभावपि ।
नियुक्तरथसारथ्यब्रह्मपूजितपादवान् ॥ १९ ॥

रक्तपिङ्गजटो विष्णुरभयो भानुदीपवान्।
भूतसेनो महायोगी योगी कालियनर्तनः ॥ २० ॥

गीतप्रियो नारसिंहनिग्रहीताऽपि कथ्यते।
नारसिंहशिरोभूषो नारसिंहत्वगम्बरः ॥ २१ ॥

नारसिंहत्वगुत्पाटी नारासिंहसुपूजितः ।
अणुरूपी महारूपी अतिसुन्दरविग्रहः ॥ २२ ॥

आचार्यश्च पुण्यगिरिराचार्योऽपि च कथ्यते।
भिक्षामर्दनगोलानां गिरिष्वाचार्य ईरितः ॥ २३ ॥

तथैषाष्टमहासिद्धिरन्तकान्तक ईरितः ।
घोरस्तथैव गिरिशः कृतमालविभूषणः ॥ २४ ॥

वृषध्वजो डमरुकधरो विष्ण्वक्षिधारकः ।
रक्ताङ्गश्च ब्रह्मसृष्टिप्रदश्चाभयरूपवान् ॥ २५ ॥

विष्णुरक्षाप्रदस्तद्वदष्टैश्वर्यसमन्वितः ।
तथैवाष्टगुणेशो वै चाष्टमङ्गलकेश्वरः ॥ २६ ॥

बकासुरस्य हर्ता च बकपक्षधरोऽपि सः ।
तथा मन्मथनाथोऽपि वासुदेवसुतप्रदः ॥ २७ ॥

महावतोऽध्वनित्यश्च त्यक्तकेतक ईरितः ।
महाव्रतो बिल्वमालाधारी पाशुपतः स्मृतः ॥ २८ ॥

त्रिधाभाश्च परञ्ज्योतिर्द्विसहस्रद्विजो भवान् ।
त्रिविक्रमनिहन्ता च त्रिविक्रमसुपूजितः ॥ २९ ॥

त्रिविक्रमत्वगुत्पाटी तथा तच्चर्मकञ्चुकः ।
त्रिविक्रमास्थिदण्डी च सर्वो मध्यस्थकोऽपि सः ॥ ३० ॥

वटमूलो वेणिजटस्तथा विष्ण्वस्थिभूषणः ।
विकृतो विजयश्चैव तथा भक्तकृपाकरः ॥ ३१ ॥

स्तोत्रपूजाप्रियो रामवरदो हृदयाम्बुजः ।
तथा परशुरामैनोहारकस्तेन पूजितः ॥ ३२ ॥

रुद्राक्षमाली भोगी च महाभोगी च संस्मृतः ।
भोगातीतश्च सर्वेशो योगातीतो हरिप्रियः ॥ ३३ ॥

वेदवेदान्तकर्ता च त्र्यम्बकमनोहरौ ।
विनायको वितरणो विचित्रो व्रत इत्यपि ॥ ३४ ॥

परमेशो विरूपाक्षो देवदेवस्त्रिलोचनः ।
वैणिको विष्टरस्थोऽयं तथा क्षीरसमाकृतिः ॥ ३५ ॥

आरणः काठकश्चैव सुमुखोऽमृतवागपि ।
धुस्तूरपुष्पधारी च ऋग्यजुर्वेदिनावुभौ ॥ ३६ ॥

सामवेदी तथाऽथर्ववेदी कामिककारणौ ।
विमलो मकुटश्चैव वातुलोऽचिन्त्ययोगजौ ॥ ३७ ॥

दीप्तस्सूक्ष्मस्तथैवायं वीरश्च किरणोऽपि च ।
अजितश्च सहस्रश्च अंशुमान् सुप्रभेदकः ॥ ३८ ॥

तथा विजयनिश्वासौ नाम्ना स्वायम्भुवोऽप्ययम् ।
अनलो रौरवश्चन्द्रज्ञानो बिम्ब उदीरितः ॥ ३९ ॥

प्रोद्गीतो ललितस्सिद्धस्तथा सन्ताननामवान्।
शर्वोत्तरस्तथाचार्यपारमेश्वर ईरितः ॥ ४० ॥

उपागमसमाख्योऽपि तथा शिवपुराणकः ।
भविष्यच्च तथैवायं मार्कण्डेयोऽपि लैङ्गकः ॥ ४१ ॥

स्कान्दो वराहोऽपि तथा वामनो मत्स्यकूर्मकौ ।
ब्रह्माण्डो ब्राह्मपाद्मौ च गारुडो विष्णुनारदौ ॥ ४२ ॥

तथा भागवताग्नेयौ ब्रह्मकैवर्तकोऽप्ययम् ।
तथैवोपपुराणोऽपि रामस्यास्त्रप्रदोऽपि सः ॥ ४३ ॥

रामस्य चापहारी च रामपूजितपादवान्।
मायी च शुद्धमायी च वैखरी मध्यमा परा ॥ ४४ ॥

पश्यन्ती च तथा सूक्ष्मा तथा प्रणवचापवान् ।
ज्ञानास्त्रस्सकलश्चैव निष्कलस्सकलश्च वै ॥ ४५ ॥

विष्णोः पतिरयं तद्वद्वलभद्रबलप्रदः ।
बलचापापहर्त्ता च बलपूजितपादवान् ॥ ४६ ॥

दण्डायुधो वाङ्गनसोरगोचरसुगन्धिनौ ।
श्रीकण्ठोऽप्ययमाचारः खट्वाङ्गः पाशभृत्तथा ॥ ४७ ॥

स्वर्णरूपी स्वर्णवीर्यस्सकलात्माऽधिपः स्मृतः ।
प्रलयः कालनाथोऽपि विज्ञानं कालनायकः ॥ ४८ ॥

पिनाकपाणिस्सुकृतो विष्कारो विस्तुरक्तपः ।
विष्णोः क्षारकरस्तद्वकृष्णज्ञानप्रदो हि सः ॥ ४९ ॥

कृष्णाय पुत्रदः कृष्णयुद्धदः कृष्णपापहा ।
कृष्णपूजितपादश्च कर्किविष्ण्वश्वभञ्जनः ॥ ५० ॥

कर्किपूजितपादश्च वह्निजिह्वातिकृन्तनः ।
भारतीनासिकाच्छेत्ता पापनाशो जितेन्द्रियः ॥ ५१ ॥

शिष्टो विशिष्टः कर्ता च भीमेभ्यो भीम उच्यते ।
शिवतत्त्वं तथा विद्यातत्त्वं पञ्चाक्षरोऽपि सः ॥ ५२ ॥

पञ्चवक्त्रः स्मितशिरोधारी ब्रह्मास्थिभूषणः ।
आत्मतत्त्वं तथा दृश्यसहायो रसवीर्यवान् ॥ ५३ ॥

अदृश्यद्रष्टा मेनाया जामातोग्रष्षडङ्गवान् ।
तथा दक्षशिरश्छेत्ता तत्पुरुषो ब्राह्मणश्शिखी ॥ ५४ ॥

अष्टमूर्तिश्चाष्टभुजष्षडक्षरसमाह्वयः ।
पञ्चकृत्यः पञ्चधेनुः पञ्चवृक्षोऽग्निकश्चिवान् ॥ ५५ ॥

शङ्खवर्णस्सर्पकटिस्सूत्रोऽहङ्कार ईरितः ।
स्वाहाकारः स्वधाकारः फट्कारस्सुमुखः स्मृतः ॥ ५६ ॥

दीनान्धककृपालुश्च वामदेवोऽपि कन्थ्यते ।
धीरः कल्पो युगो वर्षमासावृतुसमाह्वयः ॥ ५७ ॥

राशिवासरनक्षत्रयोगाः करण ईरितः ।
घटी काष्ठा विनाडी च प्राणो गुरुनिमेषकौ ॥ ५८ ॥

श्रवणर्क्षो मेघवाहो ब्रह्माण्डसृगुदीरितः ।
जाग्रत्स्वप्नसुषुप्तिश्च तुर्योऽयमतितुर्यवान् ॥ ५९ ॥

तथैव केवलावस्थस्सकलावस्थ इत्यपि।
शुद्धावस्थोत्तमाङ्गौ च सृष्टिरक्षाविधायिनौ ॥ ६० ॥

संहर्ता च तिरोभूत अनुग्रहकरस्तथा ।
स्वतन्त्रः परतन्त्रश्च षण्मुखः काल ईरितः ॥ ६१ ॥

अकालश्च तथा पाशुपतास्त्रकर ईश्वरः ।
अघोरक्षुरिकास्त्रौ च प्रत्यङ्गास्त्रोऽपि क्थ्यते ॥ ६२ ॥

पादोत्सृष्टमहाचक्रो विष्णुवेश्याभुजङ्गकः ।
नागयज्ञोपवीती च पञ्चवर्णोऽपि मोक्षदः ॥ ६३ ॥

वाय्वग्नीशौ सर्पकच्छः पञ्चमूर्तश्च भोगदः ।
तथा विष्णुशिरश्छेत्ता शेषज्यो बिन्दुनादकः ॥ ६४ ॥

सर्वज्ञो विष्णुनिगलमोक्षको बीजवर्णकः ।
बिल्वपत्रधरो बिन्दुनादपीठस्तु शक्तिदः ॥ ६५ ॥

तथा रावणनिष्पेष्टा भैरवोत्पादकोऽप्ययम्।
दक्षयज्ञविनाशी च त्रिपुरत्रयशिक्षकः ॥ ६६ ॥

सिन्दूरपत्रधारी च मन्दारस्रगलङ्कृतः ।
निर्वीर्यो भावनातीतस्तथा भूतगणेश्वरः ॥ ६७ ॥

बिष्णुभ्रूमध्यपादी च सर्वोपादानकारणम् ।
निमित्तकारणं सर्वसहकार्यपि कथ्यते ॥ ६८ ॥

तत्सद्व्यासकरच्छेत्ता शूलप्रोतहरिस्तथा ।
भेदाभेदौ वेदवल्लीकण्ठच्छेत्ता हि कथ्यते ॥ ६९ ॥

पञ्चब्रह्मस्वरूपी च भेदाभेदोभयात्मवान् ।
अच्छस्फटिक सङ्काशो ब्रह्मभस्मावलेपनः ॥ ७० ॥

निर्दग्धविष्णुभस्माङ्गरागः पिङ्गजटाधरः ।
चण्डार्पितप्रसादश्च धाता धातृविवर्जितः ॥ ७१ ॥

कल्पातीतः कल्पभस्म चागस्त्यकुसुमप्रियः ।
अनुकल्पोपकल्पौ च सङ्कल्पश्छेददुन्दुभिः ॥ ७२ ॥

विकल्पो विष्णुदुर्ज्ञेयपादो मृत्युञ्जयः स्मृतः ।
विष्णुश्मशाननटनो विष्णुकेशोपवीतवान् ॥ ७३ ॥

ब्रह्मश्मशाननटनः पञ्चरावणघातकः ।
सर्पाधीशान्तरस्तद्वदनलासुरघातकः ॥ ७४ ॥

महिषासुरसंहर्ता नालीदूर्वावतंसकः ।
देवर्षिनरदैत्येशो राक्षसेशो धनेश्वरः ॥ ७५ ॥

चराचरेशोऽनुपदो मूर्तिच्छन्दस्वरूपिणौ ।
एकद्वित्रिचतुः पञ्चजानिनो विक्रमाश्रमः ॥ ७६ ॥

ब्रह्मविष्णुकपालाप्तजयकिङ्किणिकाङ्घ्रिकः ।
संहारकाट्टहासोऽपि सर्वसंहारकः स्मृतः ॥ ७७ ॥

सर्वसंहारनेत्राग्निः सृष्टिकृद्वाङ्मनोयुतः ।
संहारकृत् त्रिशूलोऽपि रक्षाकृत्पाणिपादवान् ॥ ७८ ॥

भृङ्गिनाट्यप्रियश्शङ्खपद्मनिध्योरधीश्वरः ।
सर्वान्तरो भक्तचिन्तितार्थदो भक्तवत्सलः ॥ ७९ ॥

भक्तापराधसोढा च विकीर्णजट ईरितः ।
जटामकुटधारीच विशदास्त्रोऽपि कथ्यते ॥ ८० ॥

अपस्मारीकृताविद्यापृष्ठाङ्घ्रिः स्थौल्यवर्जितः ।
युवा नित्ययुवा वृद्धो नित्यवृद्धोऽपि कथ्यते ॥ ८१ ॥

शक्त्युत्पाटी शक्तियुक्तस्सत्यात्सत्योऽपि कथ्यते।
विष्णूत्पादक अद्वन्द्वः सत्यासत्यश्च ईरितः ॥ ८२ ॥

मूलाधारस्तथा स्वाधिष्ठानश्च मणिपूरकः ।
अनाहतो विशुद्ध्याज्ञे तथा ब्रह्मबिलं स्मृतः ॥ ८३ ॥

वराभयकरश्शास्तृपिता तारकमारकः ।
सालोक्यदश्व सामीप्यदायी सारूप्यदः स्मृतः ॥ ८४ ॥

सायुज्यमुक्तिदस्तद्वद्धरिकन्धरपादुकः ।
निकृत्तब्रह्ममूर्धा च शाकिनीडाकिनीश्वरः ॥ ८५ ॥

योगिनीमोहिनीनाथो दुर्गानाथोऽपि कथ्यते।
यज्ञो यज्ञेश्वरो यज्ञहविर्भुग्यज्वनां प्रियः ॥ ८६ ॥

विष्णुशापापहर्ता च चन्द्रशापापहारकः ।
इन्द्रशापापहर्ताच वेदागमपुराणकृत् ॥ ८७ ॥

विष्णुब्रह्मोपदेष्टा च स्कन्दोमादेशिकोऽप्ययम्।
विघ्नेशस्योपदेष्टा च नन्दिकेशगुरुस्तथा ॥ ८८ ॥

तथा ऋषिगुरुस्सर्वगुरुर्दशदिगीश्वरः ।
दशायुधदशाङ्गौ च ज्ञानयज्ञोपवीतवान् ॥ ८९ ॥

ब्रह्मविष्णुशिरोमुण्डकन्दुकः परमेश्वरः ।
ज्ञानक्रियायोगचर्यानिरतोरगकुण्डलौ ॥ ९० ॥

ब्रह्मतालप्रियो विष्णुपटहप्रीतिरप्ययम्।
भण्डासुरापहर्ताच कङ्कपत्रधरोऽप्ययम् ॥ ९१ ॥

तन्त्रवाद्यरतस्तद्वदर्कपुष्पप्रियोऽप्ययम्।
विष्ण्वास्यमुक्तवीर्योऽपि देव्यग्ग्रकृतताण्डवः ॥ ९२ ॥

ज्ञानाम्बरो ज्ञानभूषो विष्णुशङ्खप्रियोऽप्ययम् ।
विष्णूदरविमुक्तात्मवीर्यश्चैव परात्परः ॥ ९३ ॥

महेश्वरश्चेश्वरोऽपि लिङ्गोद्भवसुखासनौ ।
उमासखश्चन्द्रचूडश्चार्धनारीश्वरः स्मृतः ॥ ९४ ॥

सोमास्कन्दस्तथा चक्रप्रसादी च त्रिमूर्तिकः ।
अर्धाङ्गविष्णुश्च तथा दक्षिणामूर्तिरव्ययः ॥ ९५ ॥

भिक्षाटनश्च कङ्कालः कामारिः कालशासनः ।
जलन्धरारिस्त्रिपुरहन्ता च विषभक्षणः ॥ ९६ ॥

कल्याणसुन्दरशरभमूर्ती च त्रिपादपि ।
एकपादो भैरवश्च वृषारूढस्सदानटः ॥ ९७ ॥

गङ्गाधरष्षण्णवतितत्त्वमप्ययमीरितः ।
तथा साष्टशतभेदमूरतिरष्टशताह्वयः ॥ ९८ ॥

अष्टोत्तरशतं तालरागनृत्तैकपण्डितः ।
सहस्राख्यस्सहस्राक्षस्सहस्रमुख ईरितः ॥ ९९ ॥

सहस्रबाहु स्तन्मूर्तिरनन्तमुख ईरितः ।
अनन्तनामापि तथा चानन्तश्रुतिरप्ययम् ॥ १०० ॥

अनन्तनयनस्तद्वदनन्तघ्राणमण्डितः ।
अनन्तरूप्ययं तद्वदनन्तैश्वर्यवान् स्मृतः ॥ १०१ ॥

अनन्तशक्तिकृत्यावाननन्तज्ञानवानयम् ।
अनन्तानन्दसन्दोह अनन्तौदार्यवानयम् ॥ १०२ ॥

तथैव पृथिवीमूर्तिः पृथिवीशोऽपि कथ्यते ।
पृथिवीधारकस्तद्वत्पृथिव्यान्तर ईरितः ॥ १०३ ॥

पृथिव्यतीतश्च तथा पार्थिवाण्डाभिमान्ययम् ।
तदण्डपुरुषहृदयकमलोऽपि निगद्यते ॥ १०४ ॥

तदण्डभुवनेशानः तच्छक्तिधरणात्मकः ।
आधारशक्त्यधिष्ठानानन्ताः कालाग्निरप्ययम् ॥ १०५ ॥

कालाग्निरुद्रभुवनपतिरप्ययमीरितः ।
अनन्तश्च तथेशश्च शङ्करः पद्मपिङ्गलौ ॥ १०६ ॥

कालश्च जलजश्चैव क्रोधोऽतिबल ईरितः ।
धनदश्चातिकूश्माण्डभुवनेशोऽपि कथ्यते ॥ १०७ ॥

कूश्माण्डस्सप्तपातालनायकोऽपि निगद्यते ।
पातालान्तोऽपि चेशानो बलातिबलनावुभौ ॥ १०८ ॥

बलविकरणश्चायं बलेशोऽपि बलेश्वरः ।
बलाध्यक्षश्च बलवान्हाटकेशोऽपि कथ्यते ॥ १०९ ॥

तथा तद्भुवनेशानस्तथैवाष्टगजेश्वरः ।
अष्टनागेश्वरस्तद्वद्भूलोकेशोऽपि कथ्यते ॥ ११० ॥

मेर्वीशो मेरुशिखरराजोऽवनिपतिस्तथा ।
त्र्यम्बकश्चाष्टकुलपर्वतेशोऽपि कथ्यते ॥ १११ ॥

मानसोत्तरगिरि स्तद्वद्विश्वेशोऽपि निगद्यते ।
स्वर्णलोकश्चक्रवालगिरिवासविरामकः ॥ ११२ ॥

धर्मो विविधधामा च शङ्खपालश्च कथ्यते ।
तथा कनकरोमा च पर्जन्यः केतुमानपि ॥ ११३ ॥

विरोचनो हरिच्छायो रक्तच्छायश्च कथ्यते ।
महान्धकारनाथोऽपि अण्डभित्तीश्वरोऽप्ययम् ॥ ११४ ॥

प्राचीवज्रीश्वरो दक्षिणप्राचीशोऽपि गद्यते ।
अग्नीश्वरो दक्षिणश्च दिगीशो धर्मराडपि ॥ ११५ ॥

दक्षिणाशापतिस्तद्वन्निरृतीशोऽपि कथ्यते ।
पश्चिमाशापतिस्तद्वद्वरुणेशोऽपि कथ्यते ॥ ११६ ॥

तथोदक्पश्चिमेशोऽपि वाय्वीशोऽपि तथोच्यते ।
तथैवोत्तरदिङ्नाथः कुबेरेशोऽपि चोच्यते ॥ ११७ ॥

तथैवोत्तरपूर्वेश ईशानेशोऽपि कथ्यते ।
कैलासशिखरीनाथः श्रीकण्ठपरमेश्वरः ॥ ११८ ॥

महाकैलासनाथोऽपि महासदाशिवः स्मृतः ।
भुवर्लोकेशशम्भूग्रास्सूर्यमण्डलनायकः ॥ ११९ ॥

प्रकाशरुद्रो यश्चन्द्रमण्डलेशोऽपि कथ्यते ।
तथा चन्द्रमहादेवो नक्षत्राणामधीश्वरः ॥ १२० ॥

ग्रहलोकेश गन्धर्वगान्धर्वेशावुभावपि ।
सिद्धविद्याधरेशोऽयं किन्नरेशोऽपि कथ्यते ॥ १२१ ॥

यक्षचारणनाथोऽपि स्वर्लोकेशोऽपि स स्मृतः ।
भीमश्चैव महर्लोकनाथश्चैव महाभवः ॥ १२२ ॥

जनलोकेश्वरो ज्ञानपादो जननवर्जितः ।
अतिपिङ्गल आश्चर्यो भौतिकश्च श‍ृतोऽप्ययम् ॥ १२३ ॥

तपोलोकेश्वरस्तप्तो महादेवोऽपि स स्मृतः ।
सत्यलोकेश्वरस्तद्वत् ब्रह्मेशानोऽपि चोच्यते ॥ १२४ ॥

विष्णुलोकेशविष्पवीशौ शिवलोकः परश्शिवः ।
अण्डान्तेशो दण्डपाणिरण्डपृष्ठेश्वरोऽप्ययम् ॥ १२५ ॥

श्वेतश्च वायुवेगोऽपि सुपात्रश्च स्मृतोऽप्ययम् ।
विद्याह्वयात्मकस्तद्वत्कालाग्निश्च स्मृतोऽप्ययम् ॥ १२६ ॥

महासंहारकस्तद्वन्महाकालोऽपि कथ्यते ।
महानिरृतिरप्येव महावरुण इत्यपि ॥ १२७ ॥

वीरभद्रो महांस्तद्वच्छतरुद्रोऽपि कथ्यते ।
भद्रकालवीरभद्रौ कमण्डलुधरोऽप्ययम् ॥ १२८ ॥

अब्भुवनेशोऽपि तथा लक्ष्मीनाथोऽपि कथ्यते ।
सरस्वतीशो देवेशः प्रभावेशोऽपि कथ्यते ॥ १२९ ॥

तथैव डिण्डीवल्मीकनाथौ पुष्करनायकः ।
मण्डीशभारभूतेशौ बिलालकमहेश्वर ॥ १३० ॥

तेजोमण्डलनाथोऽपि तेजोमण्डलमूर्तिपः ।
तेजोमण्डलविश्वेशश्शिवोऽग्निरपि कथ्यते ॥ १३१ ॥

वायुमण्डलमूर्तिश्च वायुमण्डलधारकः ।
वायुमण्डलनाथश्च वायुमण्डलरक्षकः ॥ १३२ ॥

महावायुसुवेगोऽयमाकाशमण्डलेश्वरः ।
आकाशमण्डलधरस्तन्मूर्तिरपि संस्मृतः ॥ १३३ ॥

आकाशमण्डलातीतस्तन्मण्डलभुवनपः ।
महारुद्रश्च तन्मात्रमण्डलेशश्च संस्मृतः ॥ १३४ ॥

तन्मात्रमण्डलपतिर्महाशर्वमहाभवौ ।
महापशुपीतश्चापि महाभीमो महाहरः ॥ १३५ ॥

कर्मेन्द्रियमण्डलेशस्तन्मण्डलभुवः पतिः पतिः ।
क्रियासरस्वतीनाथः क्रिया ( श्रिया) लक्ष्मीपतिस्तथा ॥ १३६ ॥

क्रियेन्द्रियः क्रियामित्रः क्रियाब्रह्म पतिः पतिः ।
ज्ञानेन्द्रियमण्डलेशः तन्मण्डलभुवनपः ॥ १३७ ॥

भूमिदेवदिश्शिवेशश्च वरुणोऽपि च वह्निपः ।
वातेशो विविधाविष्टमण्डलेशाबुभावपि ॥ १३८ ॥

विषयमण्डलभुवनेशो गन्धर्वेशः शिवेश्वरः ।
प्रासादबलभद्रश्च सूक्मेशो मानवेश्वरः ॥ १३९ ॥

अन्तःकरणमण्डलेशो बुद्धिचित्तमनः पतिः ।
अहङ्कारेश्वरश्चापि गुणमण्डलनायकः ॥ १४० ॥

संवर्तस्तामसगुणपतिस्तद्भुवनाधिपः ।
एकवीरः कृतान्तश्च सन्न्यासी सर्वशङ्करः ॥ १४१ ॥

पुरुषमृगानुग्रहदस्ससाक्षीको गुणाधिपः ।
काक्षीकश्च भुवनेशः कृतश्च कृतभैरवः ॥ १४२ ॥

ब्रह्माश्रीकण्ठदेवोऽयं सराजसगुणेश्वरः ।
राजसगुणभुवनेशो बलाध्यक्षश्च कथ्यते ॥ १४३ ॥

गुणाध्यक्षो महाशान्तो महात्रिपुरघातकः ।
सर्वरूपी निमेषश्च उन्मेष इति कथ्यते ॥ १४४ ॥

प्रकृतीमण्डलेशोऽयं तन्मण्डलभुवनपः ।
शुभरामशुभभीमशुद्धोग्रशुद्धभव शुद्धशर्वशुद्धैकवीराः ॥ १४५ ॥

प्रचण्डपुरुषशुभगन्धजनिरहितहरीशनागमण्डलेशाः ।
नागमण्डलभुवनेश अप्रतिष्ठः प्रतिष्ठकः ॥ १४६ ॥

रूपाङ्गमनोन्मनमहावीरस्वरूपकाः ।
कल्याणबहुवीरश्च बलमेधादिचेतनः ॥ १४७ ॥

दक्षो नियतिमण्डलेशो नियतिमण्डलभुवनपः ।
वासुदेवश्च वज्री च विधाताऽभ्रमणिः स्मृतः ॥ १४८ ॥

कलविकरणश्चैव बलविकरणस्तथा ।
बलप्रमथनश्चैव सर्वभूतदमश्च सः ॥ १४९ ॥

विद्यामण्डलेशो विद्यामण्डलभुवनपः ।
महादेवो महाज्योतिर्महादेवेश इत्यपि ॥ १५० ॥

कलामण्डलेशश्व कलामण्डलभुवनपः ।
विशुद्धश्च प्रबुद्धश्च शुद्धश्चैव स्मृतश्च सः ॥ १५१ ॥

शुचिवर्णप्रकाशश्च महोक्षोक्षा च कीर्तितः ।
मायातन्वीश्वरो मायाभुवनेशस्सुशक्तिमान् ॥ १५२ ॥

विद्योतनो विश्वबीजो ज्योतीरूपश्च गोपतिः ।
त्रिकालब्रह्मकर्ता च अनन्तेशश्च संस्मृतः ॥ १५३ ॥

शुद्धविद्येशः शुद्धश्च विद्याभुवननायकः ।
वामेशसर्वज्येष्ठेशौ रौद्रीकालेश्वरावुभौ ॥ १५४ ॥

कलविकरणीकश्च बलविकरणीश्वरः ।
बलप्रमथिनीशोऽपि सर्वभूतदमेश्वरः ॥ १५५ ॥

मनोन्मनेशस्तत्त्वेशस्तथैव भुवनेश्वरः ।
महामहेश्वरस्सदाशिवतत्त्वेश्वरावुभौ ॥ १५६ ॥

सदाशिवभुवनेशो ज्ञानवैराग्यनायकः ।
ऐश्वर्येशश्च धर्मेशस्सदाशिव इति स्मृतः ॥ १५७ ॥

अणुसदाशिवोऽप्येष अष्टविद्येश्वरोऽप्ययम् ।
शक्तितत्त्वेश्वरश्शक्तिभुवनेशोऽपि कथ्यते ॥ १५८ ॥

बिन्दुमूर्तिस्सप्तकोटिमहामन्त्रेश्वरोऽप्ययम् ।
निवृत्तीशः प्रतिष्ठेशो विद्येशश्शान्तिनायकः ॥ १५९ ॥

शान्त्यतीतेश्वरस्तद्वदर्धचन्द्रेश्वरोऽप्ययम् ।
सुशान्तीशश्च तथा शिवाश्रयसमाह्वयः ॥ १६० ॥

योजनीयश्च योज्यश्च योजनातीतनायकः ।
सुप्रभेदनिरोधीशौ इन्धनीरेचकेश्वरः ॥ १६१ ॥

रौद्रीशज्ञानबोधेशौ तमोपह इति स्मृतः ।
नादतत्त्वेश्वरस्तद्वन्नादाख्यभुवनेश्वरः ॥ १६२ ॥

इन्धिकेशो दीपिकेशो मोचिकेशश्च संस्मृतः ।
ऊर्ध्वगामिनीशोऽपि इडानाथोऽपि कथ्यते ॥ १६३ ॥

सुषुम्नेशः पिङ्गलेशो ब्रह्मरन्ध्रेश्वरोऽप्ययम् ।
ब्रह्मरन्ध्रस्वरूपीशः पञ्चबीजेश्वरोऽप्ययम् ॥ १६४ ॥

अमृतेशश्च शक्तीशस्सूक्ष्मेशश्च सुसूक्ष्मपः ।
मृतेशश्चामृतेशोऽपि व्यापिनीशोऽपि कथ्यते ॥ १६५ ॥

परनादेश्वरो व्योम व्योमरूपी च कथ्यते ।
अनाश्रितोऽप्यनन्तश्च अनादश्च मुनीश्वरः ॥ १६६ ॥

उन्मनीशो मन्त्रमूर्तिर्मन्त्रेशो मन्त्रधारकः ।
मन्त्रातीतः पदामूर्तिः पदेशः पदधारकः ॥ १६७ ॥

पदातीतोऽक्षरात्मा च अक्षरेशोऽक्षराश्रयः ।
कलातीतश्च तथा ओङ्कारात्मा च कथ्यते ॥ १६८ ॥

ओङ्कारेशश्चतथा ओङ्कारासन ईरितः ।
पराशक्तिपतिस्तद्वदादिशक्तिपतिश्च सः ॥ १६९ ॥

इच्छाशक्तिपतिश्चैव ज्ञानशक्तिपतिश्च सः ।
क्रियाशक्तिपतिस्तद्वत् शिवसादाख्य ईरितः ॥ १७० ॥

अमूर्तिसादारव्यश्चैव मूर्तिसादारव्य ईरितः ।
कर्तृसादाख्यश्च तथा कर्मसादाख्य ईरितः ॥ १७१ ॥

सर्वस्रष्टा सर्वरक्षाकारकस्सर्वहारकः ।
तिरोभावकृदप्येष सर्वानुग्राहकस्तथा ॥ १७२ ॥

निरञ्जनोऽचञ्चलश्च विमलोऽनल ईरितः ।
सच्चिदानन्दरूपी च विष्णुचक्रप्रसादकृत् ॥ १७३ ॥

सर्वव्यापी तथाद्वैतविशिष्टाद्वैतकावुभौ ।
परिपूर्णो लिङ्गरूपो महालिङ्गस्वरूपवान् ॥ १७४ ॥

श्रीसूतः –
एवमाख्यातमधुना युष्माकं ब्राह्मणोत्तमाः ।
अष्टोत्तरसहस्राणि नामानि गिरिजापतेः ॥ १७५ ॥

यः पठेच्छम्भुनामानि पवित्राणि महामतिः ।
श‍ृणुयाद्वापि भक्त्या स रुद्र एव न संशयः ॥ १७६ ॥

स धन्यस्स कुलीनश्च स पूज्यस्स महत्तरः ।
तस्यैव च महालक्ष्मीस्तस्यैव च सरस्वती ॥ १७७ ॥

स शक्तानपि सङ्ग्रामे विभीषयति रुद्रवत् ।
पुत्रार्थी पुत्रमाप्नोति धनार्थी च महद्धनम् ॥ १७८ ॥

आरोग्यकामस्त्वारोग्यमव्याधिदृढगात्रताम् ।
शिखायां धारयेद्योऽसौ लिखित्वा पुस्तके सदा ॥ १७९ ॥

राजद्वारे च सदसि स वशीकुरुते जनान् ।
न च हिंसन्ति सर्पाद्या राक्षसा न पिशाचकाः ॥

किं पुनर्ब्राह्मणश्रेष्ठास्सर्वान्कामान् लभेदयम् ॥ १८० ॥

॥ इति श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे
उपदेशकाण्डे श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

1000 Names of Sri Shiva | Sahasranama Stotram from Skanda Mahapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Skanda Mahapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top