Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in Hindi

Shri Vitthala Sahasranamastotram Lyrics in Hindi:

॥ श्रीविठ्ठसहस्रनामस्तोत्रम् ॥

शौनक उवाच-
सूत वेदार्थतत्वज्ञ श्रुतं सर्वं भवन्मुरवात् ।
तथापि श्रोतुमिच्छामि तीर्थं क्षेत्रञ्च दैवतम् ॥ १ ॥

स्तोत्रं च जगतां पूज्य मूढानामपि मोक्षदम् ।
स्नानाद्दर्शनतः स्मृत्या पाठमात्राच्छुभप्रदम् ॥ २ ॥

सूत उवाच-
स्मारितोऽहं हरेस्तीर्थं स्तोत्रं क्षेत्रं च दैवतम् ।
स क्षणः सफलो यत्र स्मर्यते मधुसूदनः ॥ ३ ॥

कयापि वृत्या विप्रेन्द्र तत्सर्वं कथयामि ते ।
जनं कलिमलाक्रान्तं दृष्ट्वा विषयलालसम् ॥ ४ ॥

ज्ञानानधिकृतं कर्मविहीनं भक्तवत्सलः ।
चन्द्रभागासरस्तीरे पितृभक्तिपरं द्विजम् ॥ ५ ॥

पुण्डरीकाभिधे क्षेत्रे भीमयाऽऽप्लाविते ततः ।
पुण्डरीकाभिधं शान्तं निमित्तीकृत्य माधवः ॥ ६ ॥

आविरासीत्समुद्धर्तुं जनं कलिमलाकुलम् ।
तत्तीर्थं चन्द्रभागाख्यं स्नानमात्रेण मोक्षदम् ॥ ७ ॥

तत्क्षेत्रं पाण्डुरङ्गाख्यं दर्शनान्मोक्षदायकम् ।
तद्दैवतं विठ्ठलाख्यं जगत्कारणमव्ययम् ॥ ८ ॥

स्थितिप्रलययोर्हेतुं भक्तानुग्रहविग्रहम् ।
सत्यज्ञानानन्दमयं स्थानज्ञानादि यद्विदा ॥ ९ ॥

यन्नामस्मरणादेव कामाक्रान्तोऽपि सन्तरेत् ।
पुण्डरीकेण मुनिना प्राप्तं तद्दर्शनेन यत् ॥ १० ॥

शौनक उवाच-
सहस्रनामभिः स्तोत्रं कृतं वेदविदुत्तम ।
सकृत्पठनमात्रेण कामितार्थश्रुतप्रदम् ॥ ११ ॥

तीर्थं क्षेत्रं दैवतं च त्वत्प्रसादाच्छ्तुतं मया ।
इदानीं श्रोतुमिच्छामि स्तोत्रं तव मुखाम्बुजात् ॥ १२ ॥

सच्चित्सुखस्वरूपोऽपि भक्तानुग्रहहेतवे ।
कीदृशं धृतवान् रूपं कृपयाऽऽचक्ष्व तन्मम ॥ १३ ॥

सूत उवाच-
श‍ृणुष्वावहितो ब्रह्मन्भगवद्ध्यानपूर्वकम् ।
सहस्रनामसन्मन्त्रं सर्वमन्त्रोत्तमोत्तमम् ॥ १४ ॥

अथ श्रीविठ्ठलसहस्रनामस्तोत्रमन्त्रस्य श्रीपुण्डरीक ऋषिः ।
श्रीगुरुः परमात्मा श्रीविठ्ठलो देवता ।
अनुष्टुप् छन्दः । पुण्डरीकवरप्रद इति बीजं ।
रुक्मिणीशो रमापतिरिति शक्तिः । पाण्डुरङ्गेश इति कीलकम् ।
श्री विठ्ठलप्रीत्यर्थं विठ्ठलसहस्रनामस्तोत्रमन्त्रजपे विनियोगः ।

ॐ पुण्डरीक वरप्रद इति अङ्गुष्ठाभ्यां नपः ।
ॐ विठ्ठलः पाण्डुरङ्गेश इति तर्जनीभ्यां नमः ।
ॐ चन्द्रभागासरोवास इति मध्यमाभ्यां नमः ।
ॐ वज्री शक्तिर्दण्डधर इति अनामिकाभ्यां नमः ।
ॐ कलवंशरवाक्रान्त इति कनिष्ठिकाभ्यां नमः ।
ॐ एनोऽन्तकृन्नामध्येय इति करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः ।
ॐ पुण्डरीक वरप्रद इति हृदयाय नमः ।
ॐ चन्द्रभागासरोवास इति शिरसे स्वाहा ।
ॐ वज्री शक्तिर्दण्डधर इति शिखायै वषट् ।
ॐ कलवंशरवाक्रान्त इति कवचाय हुम् ।
ॐ एनोऽन्तकृन्नामध्येय इति नेत्रत्रयाय वौषट् ।
ॐ एनोऽन्तकृन्नामध्येय इति अस्त्राय फट् ॥

इति दिग्बन्धः ।
ध्यानम् –

इष्टिकायां समपदं तिष्ठन्तं पुरुषोत्तमम् ।
जङ्घजस्थकरद्वन्द्वं क्षुल्लकादामभूषणम् ॥ १५ ॥

सव्यासव्यकरोद्भासिपद्मशङ्खविभूषितम् ।
दरहासस्मेरमुखं शिक्यस्कन्धं दिगम्बरम् ॥ १६ ॥

सर्वालङ्कारसंयुक्तं ब्रह्मादिगणसेवितम् ।
ज्ञानानन्दमयं देवं ध्यायामि हृदि विठ्ठलम् ॥ १७ ॥

अथ स्तोत्रम् ।
क्लीं विठ्ठलः पाण्डुरङ्गेश ईशः श्रीशो विशेषजित् ।
शेषशायी शम्भुवन्द्यः शरण्यः शङ्करप्रियः ॥ १ ॥

चन्द्रभागासरोवासः कोटिचन्द्रप्रभास्मितः ।
विधाधृसूचितः सर्वप्रमाणातीत अव्ययः ॥ २ ॥

पुण्डरीकस्तुतो वन्द्यो भक्तचित्तप्रसादकः ।
स्वधर्मनिरतः प्रीतो गोगोपीपरिवारितः ॥ ३ ॥

गोपिकाशतनीराज्यः पुलिनाक्रीड आत्मभूः ।
आत्माऽऽत्माराम आत्मस्थः आत्मारामनिषेवितः ॥ ४ ॥

सच्चित्सुखं महामायी महदव्यक्तमद्भुतः ।
स्थूलरूपः सूक्ष्मरूपः कारणं परमञ्जनम् ॥ ५ ॥

महाकारणमाधारः अधिष्ठानं प्रकाशकः ।
कञ्जपादो रक्तनखो रक्तपादतलः प्रभुः ॥ ६ ॥

साम्राज्यचिह्नितपदो नीलगुल्फः सुजङ्घकः ।
सज्जानुः कदलीस्तम्भनिभोरुरुरुविक्रमः ॥ ७ ॥

पीताम्बरावृतकटिः क्षुल्लकादामभूषणः ।
कटिविन्यस्तहस्ताब्जः शङ्खी पद्मविभूषितः ॥ ८ ॥

गम्भीरनाभिर्ब्रह्माधिष्ठितनाभिसरोरुहः ।
त्रिवलीमण्डितोदारोदरोमावलिमालिनः ॥ ९ ॥

कपाटवक्षाः श्रीवत्सभूषितोराः कृपाकरः ।
वनमाली कम्बुकण्ठः सुस्वरः सामलालसः ॥ १० ॥

कञ्जवक्त्रः श्मश्रुहीनचुबुको वेदजिह्वकः ।
दाडिमीबीजसदृशरदो रक्ताधरो विभुः ॥ ११ ॥

नासामुक्तापाटलिताधरच्छविररिन्दमः ।
शुकनासः कञ्जनेत्रः कुण्डलाक्रमितांसकः ॥ १२ ॥

महाबाहुर्घनभुजः केयूराङ्गदमण्डितः ।
रत्नभूषितभूषाढ्यमणिबन्धः सुभूषणः ॥ १३ ॥

रक्तपाणितलः स्वङ्गः सन्मुद्रामण्डिताङ्गुलिः ।
नखप्रभारञ्जिताब्जः सर्वसौन्दर्यमण्डितः ॥ १४ ॥

सुभ्रूरर्धशशिप्रख्यललाटः कामरूपधृक् ।
कुङ्कुमाङ्कितसद्भालः सुकेशो बर्हभूषणः ॥ १५ ॥

किरीटभाव्याप्तनभो विकलीकृतभास्करः ।
वनमाली पतिवासाः शार्ङ्गचापोऽसुरान्तकः ॥ १६ ॥

दर्पापहः कंसहन्ता चाणूरमुरमर्दनः ।
वेणुवादनसन्तुष्टो दध्यन्नास्वादलोलुपः ॥ १७ ॥

जितारिः कामजनकः कामहा कामपूरकः ।
विक्रोधो दारितामित्रो भूर्भुवःसुवरादिराट् ॥ १८ ॥

अनादिरजनिर्जन्यजनको जाह्नवीपदः ।
बहुजन्मा जामदग्न्यः सहस्रभुजखण्डनः ॥ ९९ ॥

कोदण्डधारी जनकपूजितः कमलाप्रियः ।
पुण्डरीकभवद्वेषी पुण्डरीकभवप्रियः ॥ २० ॥

पुण्डरीकस्तुतिरसः सद्भक्तपरिपालकः ।
सुषुमालासङ्गमस्थो गोगोपीचित्तरञ्जनः ॥ २१ ॥

इष्टिकास्थो भक्तवश्यस्त्रिमूर्तिर्भक्तवत्सलः ।
लीलाकृतजगद्धामा जगत्पालो हरो विराट् ॥ २२ ॥

अश्वत्थपद्मतीर्थस्थो नारदस्तुतवैभवः ।
प्रमाणातीततत्त्वज्ञस्तत्त्वम्पदनिरूपितः ॥ २३ ॥

अजाजनिरजाजानिरजायो नीरजोऽमलः ।
लक्ष्मीनिवासः स्वर्भूषो विश्ववन्द्यो महोत्सवः ॥ २४ ॥

जगद्योनिरकर्ताऽऽद्यो भोक्ता भोग्यो भवातिगः ।
षड्गुणैश्वर्यसम्पन्नो भगवान्मुक्तिदायकः ॥ २५ ॥

अधःप्राणो मनो बुद्धिः सुषुप्तिः सर्वगो हरिः ।
मत्स्यः कूर्मो वराहोऽत्रिर्वामनो हीररूपधृत् ॥ २६ ॥

नारसिंहो ऋषिर्व्यासो रामो नीलांशुको हली ।
बुद्धोऽर्हन् सुगतः कल्की नरो नारायणः परः ॥ २७ ॥

परात्परः करीड्येशो नक्रशापविमोचनः ।
नारदोक्तिप्रतिष्ठाता मुक्तकेशी वरप्रदः ॥ २८ ॥

चन्द्रभागाप्सु सुस्नातः कामितार्थप्रदोऽनघः ।
तुलसीदामभूषाढ्यस्तुलसीकाननप्रियः ॥ २९ ॥

पाण्डुरङ्गः क्षेत्रमूर्तिः सर्वमूर्तिरनामयः ।
पुण्डरीकव्याजकृतजडोद्धारः सदागतिः ॥ ३० ॥

अगतिः सद्गतिः सभ्यो भवो भव्यो विधीडितः ।
प्रलम्बघ्नो द्रुपदजाचिन्ताहारी भयापहः ॥ ३१ ॥

वह्निवक्त्रः सूर्यनुतो विष्णुस्त्रैलोक्यरक्षकः ।
जगद्भक्ष्यो जगद्गेहो जनाराध्यो जनार्दनः ॥ ३२ ॥

जेता विष्णुर्वरारोहो भीष्मपूज्यपदाम्बुजः ।
भर्ता भीष्णकसम्पूज्यः शिशुपालवधोद्यतः ॥ ३३ ॥

शतापराधसहनः क्षमावानादिपूजनः ।
शिशुपालशिरच्छेत्ता दन्तवक्त्रबलापहः ॥ ३४ ॥

शिशुपालकृतद्रोहः सुदर्शनविमोचनः ॥ ३५ ॥

सश्रीः समायो दामेन्द्रः सुदामक्रीडनोत्सुकः ।
वसुदामकृतक्रीडः किङ्किणीदामसेवितः ॥ ३६ ॥

पञ्चाङ्गपूजनरतः शुद्धचित्तवशंवदः ।
रुक्मिणीवल्लभः सत्यभामाभूषितविग्रहः ॥ ३७ ॥

नाग्नजित्या कृतोत्साहः सुनन्दाचित्तमोहनः ।
मित्रवृन्दाऽऽलिङ्गिताङ्गो ब्रह्मचारी वटुप्रियः ॥ ३८ ॥

सुलक्षणाधौतपदो जाम्बवत्या कृतादरः ।
सुशीलाशीलसन्तुष्टो जलकेलिकृतादरः ॥ ३९ ॥

वासुदेवो देवकीड्यो नन्दानन्दकराङ्घ्रियुक् ।
यशोदामानसोल्लासो बलावरजनिःस्वभूः ॥ ४० ॥

सुभद्राऽऽनन्ददो गोपवश्यो गोपीप्रियोऽजयः ।
मन्दारमूलवेदिस्थः सन्तानतरुसेवितः ॥ ४१ ॥

पारिजातापहरणः कल्पद्रुमपुरःसरः ।
हरिचन्दनलिप्ताङ्ग इन्द्रवन्द्योऽग्निपूजितः ॥ ४२ ॥

यमनेता नैरृतेयो वरुणेशः खगप्रियः ।
कुबेरवन्द्य ईशेशो विधीड्योऽनन्तवन्दितः ॥ ४३ ॥

वज्री शक्तिर्दण्डधरः खड्गी पाश्यङ्कुशी गदी ।
त्रिशूली कमली चक्री सत्यव्रतमयो नवः ॥ ४४ ॥

महामन्त्रः प्रणवभूर्भक्तचिन्तापहारकः ।
स्वक्षेत्रवासी सुखदः कामी भक्तविमोचनः ॥ ४५ ॥

स्वनामकीर्तनप्रीतः क्षेत्रेशः क्षेत्रपालकः ।
कामश्चक्रधरार्धश्च त्रिविक्रममयात्मकः ॥ ४६ ॥

प्रज्ञानकरजित्कान्तिरूपवर्णः स्वरूपवान् ।
स्पर्शेन्द्रियं शौरिमयो वैकुण्ठः सानिरुद्धकः ॥ ४७ ॥

षडक्षरमयो बालः श्रीकृष्णो ब्रह्मभावितः ।
नारदाधिष्ठितक्षेमो वेणुवादनतत्परः ॥ ४८ ॥

नारदेशप्रतिष्ठाता गोविन्दो गरुडध्वजः ।
साधारणः समः सौम्यः कलावान् कमलालयः ॥ ४९ ॥

क्षेत्रपः क्षणदाधीशवक्त्रः क्षेमकरक्षणः ।
लवो लवणिमाधाम लीलावान् लघुविग्रहः ॥ ५० ॥

हयग्रीवो हली हंसो हतकंसो हलिप्रियः ।
सुन्दरः सुगतिर्मुक्तः सत्सखो सुलभः स्वभूः ॥ ५१ ॥

साम्राज्यदः सामराजः सत्ता सत्यः सुलक्षणः ।
षड्गुणैश्वर्यनिलयः षडृतुपरिसेवितः ॥ ५२ ॥

षडङ्गशोधितः षोढा षड्दर्शननिरूपितः ।
शेषतल्पः शतमखः शरणागतवत्सलः ॥ ५३ ॥

सशम्भुः समितिः शङ्खवहः शार्ङ्गसुचापधृत् ।
वह्नितेजा वारिजास्यः कविर्वंशीधरो विगः ॥ ५४ ॥

विनीतो विप्रियो वालिदलनो वज्रभूषणः ।
रुक्मिणीशो रमाजानी राजा राजन्यभूषणः ॥ ५५ ॥

रतिप्राणप्रियपिता रावणान्तो रघूद्वहः ।
यज्ञभोक्ता यमो यज्ञभूषणो यज्ञदूषणः ॥ ५६ ॥

यज्वा यशोवान् यमुनाकूलकुञ्जप्रियो यमी ।
मेरुर्मनीषी महितो मुदितः श्यामविग्रहः ॥ ५७ ॥

मन्दगामी मुग्धमुखो महेशो मीनविग्रहः ।
भीमो भीमाङ्गजातीरवासी भीमार्तिभञ्जनः ॥ ५८ ॥

भूभारहरणो भूतभावनो भरताग्रजः ।
बलं बलप्रियो बालो बालक्रीडनतत्परः ॥ ५९ ॥

बकासुरान्तको बाणासुरदर्पकवाडवः ।
बृहस्पतिबलारातिसूनुर्बलिवरप्रदः ॥ ६० ॥

बोद्धा बन्धुवधोद्युक्तो बन्धमोक्षप्रदो बुधः ।
फाल्गुनानिष्टहा फल्गुकृतारातिः फलप्रदः ॥ ६९ ॥

फेनजातैरकावज्रकृतयादवसङ्क्षयः ।
फाल्गुनोत्सवसंसक्तः फणितल्पः फणानटः ॥ ६२ ॥

पुण्यः पवित्रः पापात्मदूरगः पण्डिताग्रणीः ।
पोषणः पुलिनावासः पुण्डरीकमनोर्वशः ॥ ६३ ॥

निरन्तरो निराकाङ्क्षो निरातङ्को निरञ्जनः ।
निर्विण्णमानसोल्लासो नयनानन्दनः सताम् ॥ ६४ ॥

नियमो नियमी नम्यो नन्दबन्धनमोचनः ।
निपुणो नीतिमान्नेता नरनारायणवपुः ॥ ६५ ॥

धेनुकासुरविद्वेषी धाम धाता धनी धनम् ।
धन्यो धन्यप्रियो धर्ता धीमान् धर्मविदुत्तमः ॥ ६६ ॥

धरणीधरसन्धर्ता धराभूषितदंष्ट्रकः ।
दैतेयहन्ता दिग्वासा देवो देवशिखामणिः ॥ ६७ ॥

दाम दाता दीप्तिभानुः दानवादमिता दमः ।
स्थिरकार्यः स्थितप्रज्ञः स्थविरस्थापकः स्थितिः ।
स्थितलोकत्रयवपुः स्थितिप्रलयकारणम् ॥ ६८ ॥

स्थापकस्तीर्थचरणस्तर्पकस्तरुणीरसः ।
तारुण्यकेलिनिपुणस्तरणस्तरणिप्रभुः ॥ ६९ ॥

तोयमूर्तिस्तमोऽतीतः स्तम्भोद्भूतस्तपःपरः ।
तडिद्वासास्तोयदाभस्तारस्तारस्वरप्रियः ॥ ७० ॥

णकारो ढौकितजगत्त्रितूर्यप्रीतभूसुरः ।
डमरूप्रियहृद्वासी डिण्डिमध्वनिगोचरः ॥ ७१ ॥

ठयुगस्थमनोर्गम्यः ठङ्कारि धनुरायुधः ।
टणत्कारितकोदण्डहतारिर्गणसौख्यदः ॥ ७२ ॥

झाङ्कारिचाञ्चरीकाङ्की श्रुतिकल्हारभूषणः ।
जरासन्धार्दितजगत्सुखभूर्जङ्गमात्मकः ॥ ७३ ॥

जगज्जनिर्जगद्भूषो जानकीविरहाकुलः ।
जिष्णुशोकापहरणो जन्महीनो जगत्पतिः ॥ ७४ ॥

छत्रिताहीन्द्रसुभगः छद्मी छत्रितभूधरः ।
छायास्थलोकत्रितयछलेन बलिनिग्रही ॥ ७५ ॥

चेतश्चमत्कारकरः चित्री चित्रस्वभाववान् ।
चारुभूश्चन्द्रचूडश्च चन्द्रकोटिसमप्रभः ॥ ७६ ॥

चूडारत्नद्योतिभालश्चलन्मकरकुपडलः ।
चरुभुक् चयनप्रीतश्चम्पकाटविमध्यगः ॥ ७७ ॥

चाणूरहन्ता चन्द्राङ्कनाशनश्चन्द्रदीधितिः ।
चन्दनालिप्तसर्वाङ्गश्चारुचामरमण्डितः ॥ ७८ ॥

घनश्यामो घनरवो घटोत्कचपितृप्रियः ।
घनस्तनीपरीवारो घनवाहनगर्वहा ॥ ७९ ॥

गङ्गापदो गतक्लेशो गतक्लेशनिषेवितः ।
गणनाथो गजोद्धर्ता गायको गायनप्रियः ॥ ८० ॥

गोपतिर्गोपिकावश्यो गोपबालानुगः पतिः ।
गणकोटिपरीवारो गम्यो गगननिर्मलः ॥ ८१ ॥

गायत्रीजपसम्प्रीतो गण्डकीस्थो गुहाशयः ।
गुहारण्यप्रतिष्ठाता गुहासुरनिषूदनः ॥ ८२ ॥

गीतकीर्तिर्गुणारामो गोपालो गुणवर्जितः ।
गोप्रियो गोचरप्रीतो गाननाट्यप्रवर्तकः ॥ ८३ ॥

खट्वायुधः खरद्वेषी खातीतः खगमोचनः ।
खगपुच्छकृतोत्तंसः खेलद्बालकृतप्रियः ॥ ८४ ॥

खट्वाङ्गपोथितारातिः खञ्जनाक्षः खशीर्षकः ।
कलवंशरवाक्रान्तगोपीविस्मारितार्भकः ॥ ८५ ॥

कलिप्रमाथी कञ्जास्यः कमलायतलोचनः ।
कालनेमिप्रहरणः कुण्ठितार्तिकिशोरकः ॥ ८६ ॥

केशवः केवलः कण्ठीरवास्यः कोमलाङ्घ्रियुक् ।
कम्बली कीर्तिमान् कान्तः करुणामृतसागरः ॥ ८७ ॥

कुब्जासौभाग्यदः कुब्जाचन्दनालिप्तगात्रकः ।
कालः कुवलयापीडहन्ता क्रोधसमाकुलः ॥ ८८ ॥

कालिन्दीपुलिनाक्रीडः कुञ्जकेलिकुतूहली ।
काञ्चनं कमलाजानिः कलाज्ञः कामितार्थदः ॥ ८९ ॥

कारणं करणातीतः कृपापूर्णः कलानिधिः ।
क्रियारूपः क्रियातीतः कालरूपः क्रतुप्रभुः ॥ ९० ॥

कटाक्षस्तम्भितारातिः कुटिलालकभूषितः ।
कूर्माकारः कालरूपी करीरवनमध्यगः ॥ ९१ ॥

कलकण्ठी कलरवः कलकण्ठरुतानुकृत् ।
करद्वारपुरः कूटः सर्वेषां कवलप्रियः ॥ ९२ ॥

कलिकल्मषहा क्रान्तगोकुलः कुलभूषणः ।
कूटारिः कुतुपः कीशपरिवारः कविप्रियः ॥ ९३ ॥

कुरुवन्द्यः कठिनदोर्दण्डखण्डितभूभरः ।
किङ्करप्रियकृत्कर्मरतभक्तप्रियङ्करः ॥ ९४ ॥

अम्बुजास्योऽङ्गनाकेलिरम्बुशाय्यम्बुधिस्तुतः ।
अम्भोजमाल्यम्बुवाहलसदङ्गोऽन्त्रमालकः ॥ ९५ ॥

औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकः ।
ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलः ॥ ९६ ॥

ऐरावतसमारूढ ऐन्द्रीशोकापहारकः ।
ऐश्वर्यावधिरैश्वर्यमैश्वर्याष्टदलस्थितः ॥ ९७ ॥

एणशावसमानाक्ष एधस्तोषितपावकः ।
एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पहा ॥ ९८ ॥

लूनपञ्चक्लेशपदो लूतातन्तुर्जगत्कृतिः ।
लुप्तदृश्यो लुप्तजगज्जयो लुप्तसुपावकः ॥ ९९ ॥

रूपातीतो रूपनामरूपमायादिकारणम् ।
ऋणहीनो ऋद्धिकारी ऋणातीतो ऋतंवदः ॥ १०० ॥

उषानिमित्तबाणघ्न उषाहार्यूर्जिताशयः ।
ऊर्ध्यरूपोर्ध्वाधरग ऊष्मदग्धजगत्त्रयः ॥ १०१ ॥

उद्धवत्राणनिरत उद्धवज्ञानदायकः ।
उद्धर्तोद्धव उन्निद्र उद्बोध उपरिस्थितः ॥ १०२ ॥

उदधिक्रीड उदधितनयाप्रिय उत्सवः ।
उच्छिन्नदेवतारातिरुदध्यावृतिमेखलः ॥ १०३ ॥

ईतिघ्न ईशिता ईज्य ईड्य ईहाविवर्जितः ।
ईशध्येयपदाम्भोज इन ईनविलोचनः ॥ १०४ ॥

इन्द्र इन्द्रानुजनट इन्दिराप्राणवल्लभः ।
इन्द्रादिस्तुत इन्द्रश्रीरिदमित्थमभीतकृत् ॥ १०५ ॥

आनन्दाभास आनन्द आनन्दनिधिरात्मदृक् ।
आयुरार्तिघ्न आयुष्य आदिरामयवर्जितः ॥ १०६ ॥

आदिकारणमाधार आधारादिकृताश्रयः ।
अच्युतैश्वर्यममित अरिनाश अघान्तकृत् ॥ १०७ ॥

अन्नप्रदोऽन्नमखिलाधार अच्युत अब्जभृत् ।
चन्द्रभागाजलक्रीडासक्तो गोपविचेष्टितः ॥ १०८ ॥

हृदयाकारहृद्भूषो यष्टिमान् गोकुलानुगः ।
गवां हुङ्कृतिसम्प्रीतो गवालीढपदाम्बुजः ॥ १०९ ॥

गोगोपत्राणसुश्रान्त अश्रमी गोपवीजितः ।
पाथेयाशनसम्प्रीतः स्कन्धशिक्यो मुखाम्बुपः ॥ ११० ॥

क्षेत्रपारोपितक्षेत्रो रक्षोऽधिकृतभैरवः ।
कार्यकारणसङ्घातस्ताटकान्तस्तु रक्षहा ॥ १११ ॥

हन्ता तारापतिस्तुत्यो यक्षः क्षेत्रं त्रयीवपुः ।
प्राञ्जलिर्लोलनयनो नवनीताशनप्रियः ॥ ११२ ॥

यशोदातर्जितः क्षीरतस्करो भाण्डभेदनः ।
मुखाशनो मातृवश्यो मातृदृश्यमुखान्तरः ॥ ११३ ॥

व्यात्तवक्त्रो गतभयो मुखलक्ष्यजगत्त्रयः ।
यशोदास्तुतिसम्प्रीतो नन्दविज्ञातवैभवः ॥ ११४ ॥

संसारनौकाधर्मज्ञो ज्ञाननिष्ठो धनार्जकः ।
कुबेरः क्षत्रनिधनं ब्रह्मर्षिर्ब्राह्मणप्रियः ॥ ११५ ॥

ब्रह्मशापप्रतिष्ठाता यदुराजकुलान्तकः ।
युधिष्ठिरसखो युद्धदक्षः कुरुकुलान्तकृत् ॥ १९६ ॥

अजामिलोद्धारकारी गणिकामोचनो गुरुः ।
जाम्बवद्युद्धरसिकः स्यमन्तमणिभूषणः ॥ ११७ ॥

सुभद्राबन्धुरक्रूरवन्दितो गदपूर्वजः ।
बलानुजो बाहुयुद्धरसिको मयमोचनः ॥ ११८ ॥

दग्धखाण्डवसम्प्रीतहुताशो हवनप्रियः ।
उद्यदादित्यसङ्काशवसनो हनुमद्रुचिः ॥ ११९ ॥

भीष्मबाणव्रणाकीर्णः सारथ्यनिपुणो गुणी ।
भीष्मप्रतिभटश्चक्रधरः सम्प्रीणितार्जुनः ॥ १२० ॥

स्वप्रतिज्ञाहानिहृष्टो मानातीतो विदूरगः ।
विरागी विषयासक्तो वैकुण्ठोऽकुण्ठवैभवः ॥ १२९ ॥

सङ्कल्पः कल्पनातीतः समाधिर्निर्विकल्पकः ।
सविकल्पो वृत्तिशून्यो वृत्तिर्बीजमतीगतः ॥ १२२ ॥

महादेवोऽखिलोद्धारी वेदान्तेषु प्रतिष्ठितः ।
तनुर्बृहत्तनूरण्वराजपूज्योऽजरोऽमरः ॥ १२३ ॥

भीमाहतजरासन्धः प्रार्थितायुधसङ्गरः ।
स्वसङ्केतप्रकॢप्तार्थो निरर्थ्योऽर्थी निराकृतिः ॥ १२४ ॥

गुणक्षोभः समगुणः सद्गुणाढ्यः प्रमाप्रजः ।
स्वाङ्गजः सात्यकिभ्राता सन्मार्गो भक्तभूषणः ॥ १२५ ॥

अकार्यकार्यनिर्वेदो वेदो गोपाङ्कनिद्रितः ।
अनाथो दावपो दावो दाहको दुर्धरोऽहतः ॥ १२६ ॥

ऋतवाग्याचको विप्रः खर्व इन्द्रपदप्रदः ।
बलिमूर्धस्थितपदो बलियज्ञविघातकृत् ॥ १२७ ॥

यज्ञपूर्तिर्यज्ञमूर्तिर्यज्ञविघ्नमविघ्नकृत् ।
बलिद्वाःस्थो दानशीलो दानशीलप्रियो व्रती ॥ १२८ ॥

अव्रतो जतुकागारस्थितपाण्डवजीवनम् ।
मार्गदर्शी मृदुर्हेलादूरीकृतजगद्भयः ॥ १२९ ॥

सप्तपातालपादोऽस्थिपर्वतो द्रुमरोमकः ।
उडुमाली ग्रहाभूषो दिक् श्रुतिस्तटिनीशिरः ॥ १३० ॥

वेदश्वासो जितश्वासश्चित्तस्थश्चित्तशुद्धिकृत् ।
धीः स्मृतिः पुष्टिरजयः तुष्टिः कान्तिर्धृतिस्त्रपा ॥ १३१ ॥

हलः कृषिः कलं वृष्टिर्गृष्टिर्गौरवनं वनम् ।
क्षीरं हव्यं हव्यवाहो होमो वेदी समित्स्रुवः ॥ १३२ ॥

कर्म कर्मफलं स्वर्गो भूष्यो भूषा महाप्रभुः ।
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोजनः ॥ १३३ ॥

सत्यो विधिर्दैवमधोलोकः पातालमण्डनः ।
जरायुजः स्वेदजनिरुद्बीजः कुलपर्वतः ॥ १३४ ॥

कुलस्तम्भः सर्वकुलः कुलभूः कौलदूरगः ।
धर्मतत्वं निर्विषयो विषयो भोगलालसः ॥ १३५ ॥

वेदान्तसारो निर्मोक्ता जीवो बद्धो बहिर्मुखः ।
प्रधानं प्रकृतिर्विश्वद्रष्टा विश्वनिषेधनः ॥ १३६ ॥

अन्तश्चतुर्द्वारमयो बहिर्द्वारचतुष्टयः ।
भुवनेशो क्षेत्रदेवोऽनन्तकायो विनायकः ॥ १३७ ॥

पिता माता सुहृद्वन्धुर्भ्राता श्राद्धं यमोऽर्यमा ।
विश्वेदेवाः श्राद्धदेवो मनुर्नान्दीमुखो धनुः ॥ १३८ ॥

हेतिः खड्गो रथो युद्धं युद्धकर्ता शरो गुणः ।
यशो यशोरिपुः शत्रुरशत्रुर्विजितेन्द्रियः ॥ १३९ ॥

पात्रं दाता दापयिता देशः कालो धनागमः ।
काञ्चनं प्रेम सन्मित्रं पुत्रः कोशो विकोशकः ॥ १४० ॥

अनीतिः शरभो हिंस्रो द्विपो द्वीपी द्विपाङ्कुशः ।
यन्ता निगड आलानं सन्मनो गजश‍ृङ्खलः ॥ १४१ ॥

मनोऽब्जभृङ्गो विटपी गजः क्रोष्टा वृशो वृकः ।
सत्पथाचारनलिनीषट्पदः कामभञ्जनः ॥ १४२ ॥

स्वीयचित्तचकोराब्जः स्वलीलाकृतकौतुकः ।
लीलाधामाम्बुभृन्नाथः क्षोणी भर्ता सुधाब्धिदः ॥ १४३ ॥

मल्लान्तको मल्लरूपो बालयुद्धप्रवर्तनः ।
चन्द्रभागासरोनीरसीकरग्लपितक्लमः ॥ १४४ ॥

कन्दुकक्रीडनक्लान्तो नेत्रमीलनकेलिमान् ।
गोपीवस्त्रापहरणः कदम्बशिखरस्थितः ॥ १४५ ॥

बल्लवीप्रार्थितो गोपीनतिदेष्टाञ्जलिप्रियः ।
परिहासपरो रासे रासमण्डलमध्यगः ॥ १४६ ॥

बल्लवीद्वयसंवीतः स्वात्मद्वैतात्मशक्तिकः ।
चतुर्विंशतिभिन्नात्मा चतुर्विंशतिशक्तिकः ॥ १४७ ॥

स्वात्मज्ञानं स्वात्मजातजगत्त्रयमयात्मकः ।

इति विठ्ठलसंज्ञस्य विष्णोर्नामसहस्रकम् ॥ १४८ ॥

त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् ।
स विष्णोर्नात्र सन्देहः किं बहूक्तेन शौनक ॥ १४९ ॥

कामी चेन्नियताहारो जितचित्तो जितेन्द्रियः ।
जपन् कामानवाप्नोति इति वै निश्चितं द्विज ॥ १५० ॥

॥ इति श्रीविठ्ठलसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Vithala:

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vitthala | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top