Templesinindiainfo

Best Spiritual Website

108 Names of Mantravarnaksharayukta Shri Rama | Ashtottara Shatanamavali Lyrics in Hindi

Mantra Varnakshara Yukta Sri Rama Ashtottarashata Namavali Lyrics in Hindi:

॥ मन्त्रवर्णाक्षरयुक्त श्रीरामाष्टोत्तरशतनामावलिः ॥

ॐ श्रीमत्सूर्यकुलाम्भोधिवर्धनीयकलानिधये नमः ।
श्रीमद्ब्रह्मेन्द्ररुद्रादिवन्दनीयजगद्गुरवे नमः ।
श्रीमत्सौभाग्यसौन्द्रयलावण्याम्बुधिपङ्कजाय नमः ।
श्रीमच्चिन्तामणीपीठमध्यसिंहासनेश्वराय नमः ।
श्रीमद्राजाधिराजेन्द्रमुकुटाङ्कितपादुकाय नमः ।
श्रीमद्धिमाद्रिराजेन्द्रकन्याध्येयपदाम्बुजाय नमः ।
श्रीजगन्मोहनाकारदिव्यलावण्यविग्रहाय नमः ।
श‍ृङ्गाररससम्पूर्णमण्डलान्तस्सुधाकराय नमः ।
श्रीकण्ठकरकोदण्डपरीक्षितपराक्रमाय नमः ।
श्रीमत्सृष्ट्यादि विविधकार्यकारणमूर्तिमते नमः ।
श्रीवत्सलाञ्छनात्यन्तमणिभूषणभूषिताय नमः ।
श्रीभूनीलालिङ्गनोत्थपुलकाङ्कितविग्रहाय नमः ।
श्रीमदम्लानतुलसीवनमालाविराजिताय नमः ।
श्रीसाम्बदेवहृत्पद्मविकासनदिवाकराय नमः ।
श्रीक्षीरवार्धिपर्यङ्कविहारात्यन्तबालकाय नमः ।
श्रीमत्सुराराध्यपादयुगपद्मविराजिताय नमः ।
श्रीकराकारकोदण्डकाण्डोपेतकराम्बुजाय नमः ।
श्रीजानकीमुखाम्भोजमण्डनीयप्रभाकराय नमः ।
श्रीराजाधिराजराजेन्द्ररमणीयगुणाकराय नमः ।
रावणादिवधोद्यक्तविजृम्भितपराक्रमाय नमः ॥ २० ॥

राकेन्द्वर्काग्निविमलनेत्रत्रयविभूषिताय नमः ।
रात्रिञ्चरौघमत्तेभविनिर्भेदमृगेश्वराय नमः ।
राजत्सौदामिनीतुल्यदिव्यकोदण्डमण्डनाय नमः ।
रमामनोज्ञवक्षोजदिव्यगन्धसुवासिताय नमः ।
राक्षसेश्वरसंसेव्यदिव्यश्रीपादपङ्कजाय नमः ।
राकेन्दुकुलसम्भूतरमणीप्राणनायकाय नमः ।
रत्ननिर्मितभूषाढ्यचरणाम्बुजशोभिताय नमः ।
रामाजनमनोहारिदिव्यकन्दर्पविग्रहाय नमः ।
राघवान्वयसञ्जातनृपश्रेणिशिरोमणये नमः ।
राकाशशिसमाकारवक्त्रमण्डलमण्डिताय नमः ।
रावणासुरकासारचण्डभानुशरोत्तमाय नमः ।
रमावक्षोजकस्तूरिवासनास्वादलोलुपाय नमः ।
रणत्सङ्गीतसम्पूर्णसहस्रस्तम्भमण्डपाय नमः ।
रत्नमञ्चस्थसौन्दर्यवनिताजनवेष्टिताय नमः ।
रणत्किङ्किणिसंशोभिमण्डलीकृतकार्मुकाय नमः ।
रत्नौघकान्तिविलसड्डोलाखेलनशीलनाय नमः ।
माणिक्योज्ज्वलसन्दीप्तकुण्डलद्वयमण्डिताय नमः ।
मन्दस्मिताननाम्भोजमोहितानेकतापसाय नमः ।
मायामारीचसंहारकारणानन्दविग्रहाय नमः ॥ ४० ॥

मकराक्षादिदुस्साध्यदुष्टदर्पापहारकाय नमः ।
माद्यन्मधुकरव्रातविलसत्केशसंवृताय नमः ।
मनोबुद्धीन्द्रियप्राणवागादीनां विलक्षणाय नमः ।
मनस्सङ्कल्पमात्रेण निर्मिताजाण्डकोटिकाय नमः ।
मारुतात्मजसंसेव्यदिव्यश्रीचरणाम्बुजाय नमः ।
मायामानुषवेषेण मायिकासुरखण्डनाय नमः ।
मार्तण्डकोटिज्वलितमकराकारकुण्डलाय नमः ।
मालतीतुलसीमाल्यवासिताखिलविग्रहाय नमः ।
मारकोटिप्रतीकाशमहदद्भुतदेहभृते नमः ।
महनीयदयावेशकलितापाङ्गलोचनाय नमः ।
मकरन्दरसास्वादमाधुर्यगुणभूषणाय नमः ।
महादेवसमाराध्यमणिनिर्मितपादुकाय नमः ।
महामाणिक्यखचिताखण्डतूणीधनुर्धराय नमः ।
मन्दरोद्भूतदुग्धाब्धिबिन्दुपुञ्जिविभूषणाय नमः ।
यक्षकिन्नरगन्धर्वस्तूयमानपराक्रमाय नमः ।
यत्नपूर्वजनानन्दसन्धानचतुरोद्यमाय नमः ।
यमाद्यष्टाङ्गशीलादियमिहृत्पद्मगोचराय नमः ।
यशोदाहृदयानन्दसिन्धुपूर्णसुधाकराय नमः ।
याज्ञवल्क्यादि ऋषिभिस्संसेवितपदद्वयाय नमः ।
यमलार्जुनपापौघपरिहारिपदाम्बुजाय नमः ॥ ६० ॥

याकिनीकुलसम्भूतपीडाजालापहारकाय नमः ।
यादःपतिपयःक्षेभकारिबाणशरासनाय नमः ।
यामिनीपद्मिनीनाथकृत श्रीकर्णकुण्डलाय नमः ।
यातुधानाग्रणीभूतविभीषणवरप्रदाय नमः ।
यागपावकसञ्जातद्रौपदीमानरक्षकाय नमः ।
यक्षरक्षःशिक्षणार्थमुद्यद्भीषणसायकाय नमः ।
यामार्धेन दशग्रीवसैन्यनिर्मूलनास्त्रविदे नमः ।
यजनानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः ।
यामलागमवेदैकस्तूयमानयशोधनाय नमः ।
याकिनीसाकिनीस्थानषडाधाराम्बुजाश्रयाय नमः ।
यतीन्द्रवृन्दसंसेव्यमानाखण्डप्रभाकराय नमः ।
यथोचितान्तर्यागादिपूजनीयमहेश्वराय नमः ।
नानावेदादिवेदान्तैः प्रशंसितनिजाकृतये नमः ।
नारदादिमुनिप्रेमानन्दसन्दोहवर्धनाय नमः ।
नागराजाङ्कपर्यङ्कशायिसुन्दरविग्रहाय नमः ।
नागारिमणिसङ्काशदेहकान्तिविराजिताय नमः ।
नागेन्द्रफणिसोपाननृत्यलीलाविशारदाय नमः ।
नमद्गीर्वाणमुकुटमणिरञ्जितपादुकाय नमः ।
नागेन्द्रभूषणप्रेमातिशयप्राणवल्लभाय नमः ।
नानाप्रसूनविलसद्वनमालाविराजिताय नमः ॥ ८० ॥

नवरत्नावलीशोभितापादतलमस्तकाय नमः ।
नवमल्लीप्रसूनाभिशोभमानशिरोरुहाय नमः ।
नलिनीशङ्खचक्रासिगदाशार्ङ्गेषुखेटधृते नमः ।
नादानुसन्धानपरीवलोक्यनिजाकृतये नमः ।
नरासुरसुरव्रातकृतपूजोपहारकाय नमः ।
नखकोटिप्रभाजालव्याप्तब्रह्माण्डमण्डपाय नमः ।
नतश्रीकरसौन्दर्यकरुणापाङ्गवीक्षणाय नमः ।
नवदूर्वादलश्यामश‍ृङ्गाराकारविग्रहाय नमः ।
नरकासुरदोर्वंशशौर्यनिर्वापणक्षमाय नमः ।
नानाप्रपञ्चवैचित्र्यनिर्माणात्यन्तपण्डिताय नमः ।
माध्याह्न्यार्कप्रभाजालपुञ्जकिञ्जल्कसन्निभाय नमः ।
मनुवंश्यकिरीटाग्रशोभमानशिरोमणये नमः ।
मलयाचलसम्भूतदिव्यचन्दनचर्चिताय नमः ।
मन्दराधारकमठाकारकारणविग्रहाय नमः ।
महदादिप्रपञ्चान्तर्व्याप्तव्यापारविग्रहाय नमः ।
महामायासमावेशिताण्डकोटिगणेश्वराय नमः ।
मरामरेति सञ्जप्यमानमौनीश्वरप्रियाय नमः ।
महत्सगुणरूपैक्यव्यक्तीकृतनिजाकृतये नमः ।
मत्स्यकच्छपवाराहनृसिंहाद्यवतारकाय नमः ।
मन्त्रमन्त्रार्थमन्त्राङ्गमन्त्रशास्त्रविशारदाय नमः ॥ १०० ॥

मत्तेभवक्त्रषड्वक्त्रपञ्चवक्त्रैस्सुपूजिताय नमः ।
मायाकल्पितविध्यण्डमण्डपान्तर्बहिःस्थिताय नमः ।
मनोन्मण्यचलेन्द्रोर्ध्वशिखरस्थदिवाकराय नमः ।
महेन्द्रसाम्राज्यफलसन्धानाप्तत्रिविक्रमाय नमः ।
मातृकामण्डलव्याप्तकृतावरणमध्यगाय नमः ।
मनोहरमहानीलमेघश्यामवपुर्धराय नमः ।
मध्यकालान्त्यकालादिकालभेदविवर्जिताय नमः ।
महासाम्राज्यपट्टाभिषेकोत्सुकहृदम्बुजाय नमः ॥ १०८ ॥

श्रीरामाय नमः ।

इति मन्त्रक्षरघटिताद्याक्षराष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Mantra Varnakshara Yukta Shri Rama:

108 Names of Mantravarnaksharayukta Shri Rama | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Mantravarnaksharayukta Shri Rama | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top