Templesinindiainfo

Best Spiritual Website

108 Names of Sri Hanuman 4 | Ashtottara Shatanamavali Lyrics in Hindi

Hanumada Ashtottarashata Namavali 4 Lyrics in Hindi:

॥ हनुमदष्टोत्तरशतनामावलिः ४ ॥

हनुमते नमः । वायुतनयाय । केसरीप्रियनन्दनाय ।
अञ्जनानन्दनाय । श्रीमते । पिङ्गाक्षाय । अमितविक्रमाय ।
सर्वलक्षणसम्पन्नाय । कल्याणगुणवारिधये । स्वर्णवर्णाय ।
महाकायाय । महावीर्याय । महाद्युतये । महाबलाय । महौदार्याय ।
सुग्रीवाभीष्टदायकाय । रामदासाग्रण्ये । भक्तमनोरथसुरद्रुमाय ।
अरिष्टध्वान्ततरणये । सर्वदोषविवर्जिताय नमः । २० ।

गोष्पदीकृतवाराशये नमः । सीतादर्शनलालसाय । देवर्षिसंस्तुताय ।
चित्रकर्मणे । जितखगेश्वराय । मनोजवाय । वायुजवाय ।
भगवते । प्लवगर्षभाय । सुरप्रसूनाभिवृष्टाय ।
सिद्धगन्धर्वसेविताय । दशयोजनविस्तीर्णकायवते । अम्बराश्रयाय ।
महायोगिने । महोत्साहाय । महाबाहवे । प्रतापवते । रामद्वेषिजनासह्याय ।
सज्जनप्रियदर्शनाय । रामाङ्गुलीयवते नमः । ४० ।

सर्वश्रमहीनाय नमः । जगत्पतये । मैनाकविप्रियाय ।
सिन्धुसंस्तुताय । कद्रुरक्षकाय । देवमानप्रदाय । साधवे ।
सिंहिकावधपण्डिताय । लङ्किण्यभयदात्रे । सीताशोकविनाशनाय ।
जानकीप्रियसंलापाय । चूडामणिधराय । कपये । दशाननवरच्छेत्रे ।
मशकीकृतराक्षसाय । लङ्काभयङ्कराय ।
सप्तमन्त्रिपुत्रविनाशनाय । दुर्धर्षप्राणहर्त्रे । यूपाक्षवधकारकाय ।
विरूपाक्षान्तकारिणे नमः । ६० ।

भासकर्णशिरोहराय नमः । प्रभासप्राणहर्त्रे । तृतीयांशविनाशनाय ।
अक्षराक्षससंहारिणे । तृणीकृतदशाननाय ।
स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवराय । अव्ययाय ।
आनन्दवारिधये । धन्याय । मेघगम्भीरनिःस्वनाय ।
कपिप्रवरसम्पूज्याय । मधुभक्षणतत्पराय ।
रामबाहुसमाश्लिष्टाय । भविष्यच्चतुराननाय । सत्यलोकेश्वराय ।
प्राणाय । विभीषणवरप्रदाय । धूम्राक्षप्राणहर्त्रे ।
कपिसैन्यविवर्धनाय । त्रिशीर्षान्तकराय नमः । ८० ।

मत्तनाशनाय नमः । अकम्पनान्तकाय । देवान्तकान्तकाय ।
शूराय । युद्धोन्मत्तविनाशकाय । निकुम्भान्तकराय । शत्रुसूदनाय ।
सुरवीक्षिताय । दशास्यगर्वहर्त्रे । लक्ष्मणप्राणदायकाय ।
कुम्भकर्णजयिने । शक्रशत्रुगर्वापहारकाय । सञ्जीवनाचलानेत्रे ।
मृतवानरजीवनाय । जाम्बवत्प्रियकृते । वीराय । सुग्रीवाङ्गदसेविताय ।
भरतप्रियसल्लापाय । सीताहारविराजिताय । रामेष्टाय नमः । १०० ।

फल्गुनसखाय नमः । शरणत्राणतत्पराय । उत्पत्तिकर्त्रे ।
स्थितिकर्त्रे । संहारकर्त्रे । किम्पुरुषालयाय ।
वेदवेदाङ्गतत्त्वज्ञाय । भवरोगस्य भेषजाय नमः । १०८ ।

Also Read 108 Names of Sri Anjaneya 4:

108 Names of Sri Hanuman 4 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Hanuman 4 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top