Gita - Geetaa

Brahma Gita Skanda Purana Lyrics in Hindi

Brahma Geetaa Skanda Purana in Hindi:

॥ ब्रह्मगीता स्कन्दपुराणान्तर्गता ॥

श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु
ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १-६०
वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ १-६०
साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्ययः ॥ १-११८
तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः ॥ १-१५४
आदेशकथनं नाम पञ्चमोऽध्यायः ॥ १-१९६
दहरोपासनविवरणं नाम षष्ठोऽध्यायः ॥ १-५८
वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ १-९५
कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः १-५५
बृहादारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः ॥ १-५७
बृहादारण्यकव्याख्याकथनं नाम दशमोऽध्यायः ॥ १-५६
कठवल्लीश्वेताश्वेतरव्याख्यायामेकादशोऽध्यायः ॥ १-७२
शिवस्याहम्प्रत्यायाश्रत्वं नाम द्वादशोऽध्यायः ॥ १-७७

[mks_separator style=”dotted” height=”2″]

॥ अथ प्रारभ्यते स्कन्दपुराणान्तर्गतसूतसंहितायां ब्रह्मगीता ॥

॥ प्रथमोऽध्यायः ॥

। ब्रह्मगीतिः ।
मुनय ऊचुः –
भवता सर्वमाख्यातं सङ्क्षेपाद्विस्तरादपि ।
इदानीं श्रोतुमिच्छामो ब्रह्मगीतामनुत्तमाम् ॥ १॥

सर्वविज्ञानरत्नानामाकरस्य महात्मनः ।
कृष्णद्वैपायनस्यैव भवाञ्छिष्यः सुशिक्षितः ॥ २॥

त्वयैवाविदितं किञ्चिन्नास्ति सत्यं प्रभाषितम् ।
यदि प्रसन्नो भगवांस्तन्नो वक्तुमिहार्हसि ॥ ३॥

सूत उवाच –
वक्ष्ये तामादरेणैव ब्रह्मगीतामनुत्तमाम् ।
श्रद्धया सहिता यूयं श‍ृणुत ब्रह्मवित्तमाः ॥ ४॥

पुरा कल्पान्तरे देवाः सर्वे सम्भूय सादरम् ।
विचार्य सुचिरं कालं वेदानामर्थमुत्तमम् ॥ ५॥

संशयाविष्टचित्तास्तु तपस्तप्त्वा महत्तरम् ।
अभिजग्मुर्विधातारं प्रष्टुं देवा मुनीश्वराः ॥ ६॥

यत्रास्ते जगतां नाथः सर्वज्ञः सर्ववित्प्रभुः ।
महाकारुणिकः श्रीमान्ब्रह्मा भक्तहिते रतः ॥ ७॥

मेरुश‍ृङ्गे वरे रम्ये सर्वयोगिसमावृते ।
यक्षराक्षसगन्धर्वसिद्धाद्यैश्च सुसेविते ॥ ८॥

नानारत्नसमाकीर्णे नानाधातुविचित्रिते ।
शकुन्तसङ्घसङ्घृष्टे नानातीर्थसमावृते ॥ ९॥

गुहाकोटिसमायुक्ते गिरिप्रस्रवणैर्युते ।
मधुरादिरसैः षड्भिः समृद्धेऽतीव शोभने ॥ १०॥

तत्र ब्रह्मवनं नाम शतयोजनमायतम् ।
शतयोजनविस्तीर्णं दीर्घिकाभिः सुसंयुतम् ॥ ११॥

नानापशुसमायुक्तं नानापक्षिसमाकुलम् ।
स्वादुपानीयसंयुक्तं फलमूलैश्च संयुतम् ॥ १२॥

भ्रमद्भ्रमरसञ्छन्नसुगन्धकुसुमद्रुमम् ।
मन्दानिलसमायुक्तं मन्दातपसमायुतम् ॥ १३॥

निशाकरकरैर्युक्तं वनमस्ति महत्तरम् ।
तत्र जाम्बूनदमयं तरुणादित्यसन्निभम् ॥ १४॥

नवप्राकारसंयुक्तमशीतिद्वारसंयुतम् ।
महाबलसमोपेतैर्द्वारपालैश्च कोटिभिः ॥ १५॥

खड्गतोमरचापादिशस्त्रयुक्तैश्च रक्षितम् ।
पुष्पप्रकरसङ्कीर्णं पूर्णकुम्भैश्च संयुतम् ॥ १६॥

ज्वलद्दीपैः समायुक्तं पुष्पमालाविराजितम् ।
विचित्रचित्रसंयुक्तभित्तिकोटिसुशोभितम् ॥ १७॥

मुक्तादामसमायुक्तं वितानैर्मौक्तिकैर्युतम् ।
अभ्रगामिध्वजैर्युक्तं प्रांशुतोरणसंयुतम् ॥ १८॥

नृत्यगीतादिभिर्युक्तमप्सरोगणसेवितम् ।
नानाविधमहावाद्यैर्नानातालैश्च संयुतम् ॥ १९॥

मृदुमध्योग्रशब्दाढ्यं नानाकाहलसंयुतम् ।
वेदघोषसमायुक्तं स्मृतिघोषसमन्वितम् ॥ २०॥

पुराणघोषसंयुक्तमितिहासरवान्वितम् ।
सर्वविद्यारवैर्युक्तं सर्वज्ञैश्च समावृतम् ॥ २१॥

अगाधजलपर्यन्तमवरोधसमन्वितम् ।
रथकोटिसमायुक्तं कोटिकोटिगजावृतम् ॥ २२॥

कोटिकोटिसहस्रैश्च महाश्वैश्च विराजितम् ।
अस्त्रशस्त्रादिसंयुक्तैरसङ्ख्यातबलान्वितैः ॥ २३॥

असङ्ख्यातैर्भटैर्नित्यं रक्षितं पुरमुत्तमम् ।
अस्ति पुण्यवतां प्राप्यमप्राप्यं पापकर्मणाम् ॥ २४॥

तस्मिन्नन्तःपुरे शुद्धे सहस्रस्थूणसंयुते ।
सर्वलक्षणसंयुक्ते सर्वालङ्कारसंयुते ॥ २५॥

मृदुतोरणसंयुक्ते कल्पवृक्षसमन्विते ।
कण्ठीरवमुखैर्युक्ते षट्पदस्वनसंयुते ॥ २६॥

मृदुतल्पसमोपेते रत्ननिर्मितमण्डपे ।
देव्या चापि सरस्वत्या वर्णविग्रहया सह ॥ २७॥

सर्वशब्दार्थभूतस्तु ब्रह्मा निवसति प्रभुः ।
तत्र देवा द्विजा गत्वा ददृशुर्लोकनायकम् ॥ २८॥

नानारत्नसमोपेतं विचित्रमुकुटोज्ज्वलम् ।
रत्नकुण्डलसंयुक्तं प्रसन्नवदनं शुभम् ॥ २९॥

नानारत्नसमोपेतहाराभरणभूषितम् ।
महार्हमणिसंयुक्तकेयूरकरसंयुतम् ॥ ३०॥

विचित्रकटकोपेतमङ्गुलीयकशोभितम् ।
उत्तरीयकसंयुक्तं शुक्लयज्ञोपवीतिनम् ॥ ३१॥

नानारत्नसमोपेतं तुन्दबन्धविराजितम् ।
चन्दनागरुकर्पूरक्षोददिग्धतनूरुहम् ॥ ३२॥

सुगन्धकुसुमोत्पन्ननानामालाविभूषितम् ।
शुक्लवस्त्रपरीधानं तप्तजाम्बूनदप्रभम् ॥ ३३॥

स्वभासा सकलं नित्यं भासयन्तं परात्परम् ।
सुरासुरमुनीन्द्रैश्च वन्द्यमानपदाम्बुजम् ॥ ३४॥

तं दृष्ट्वा सर्वकर्तारं साक्षिणं तमसः परम् ।
महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः ॥ ३५॥

सञ्जातपुलकैर्युक्ता विवशा गद्गदस्वराः ।
प्रकाशितसुखाब्ध्यन्तर्निमग्ना निर्मलावृतम् ॥ ३६॥

निरस्तनिखिलध्वान्ताः प्रणम्य वसुधातले ।
शिरस्यञ्जलिमाधाय सर्वे देवाः समाहिताः ॥ ३७॥

तुष्टुवुर्हृष्टमीशानं सर्वलोकपितामहम् ।
मुक्तिदं पुण्यनिष्ठानां दुःखदं पापकर्मणाम् ॥ ३८॥

देवा ऊचुः –
ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधिविधायिने ।
ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ ३९॥

कष्टसागरमग्नानां संसारोत्तारहेतवे ।
साक्षिणे सर्वभूतानां साक्ष्यहीनाय वै नमः ॥ ४०॥

सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे ।
सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ४१॥

परात्परविहीनाय पराय परमेष्ठिने ।
परिज्ञातवतामात्मस्वरूपाय नमो नमः ॥ ४२॥

पद्मजाय पवित्राय पद्मनाभसुताय च ।
पद्मपुष्पेण पूज्याय नमः पद्मधराय च ॥ ४३॥

सुरज्येष्ठाय सूर्यादिदेवतातृप्तिकारिणे ।
सुरासुरनरादीनां सुखदाय नमो नमः ॥ ४४॥

वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे ।
वेदवेद्याय वेदान्तविधये वै नमो नमः ॥ ४५॥

विधये विधिहीनाय विधिवाक्यविधायिने ।
विध्युक्तकर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ४६॥

विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च ।
विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ४७॥

नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने ।
हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ ४८॥

शतानन्दाय शान्ताय शाङ्करज्ञानदायिने ।
शमादिसहितस्यैव ज्ञानदाय नमो नमः ॥ ४९॥

शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् ।
शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ ५०॥

नमः स्वयम्भुवे नित्यं स्वयम्भुब्रह्मदायिने ।
स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ ५१॥

द्रुहिणाय दुराचारनिरतस्य दुरात्मनः ।
दुःखदायान्यजन्तूनामात्मदाय नमो नमः ॥ ५२॥

वन्द्यहीनाय वन्द्याय वरदाय परस्य च ।
वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ ५३॥

प्रजापतिसमाख्याय प्रजानां पतये सदा ।
प्राजापत्यविरक्तस्य नमः प्रज्ञानदायिने ॥ ५४॥

पितामहाय पित्रादिकल्पनारहिताय च ।
पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ ५५॥

जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने ।
जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ ५६॥

विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे ।
स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ ५७॥

स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः ।
स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः ॥ ५८॥

सूत उवाच –
एवं ब्रह्माणमादित्याः स्तुत्वा भक्तिपुरःसरम् ।
पृष्टवन्तस्तु सर्वेषां वेदानामर्थमादरात् ॥ ५९॥

ब्रह्माऽपि ब्रह्मविन्मुख्यः सर्ववेदैरभिष्टुतः ।
प्राह गम्भीरया वाचा वेदानामर्थमुत्तमम् ॥ ६०॥

इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु
ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १॥

[mks_separator style=”dotted” height=”2″]

॥ अथ द्वितीयोऽध्यायः ॥

॥ वेदार्थविचारः ॥

ब्रह्मोवाच –
अवाच्य एव वेदार्थः सर्वथा सर्वचेतनैः ।
तथाऽपि वक्ष्ये भक्तानां युष्माकं श‍ृणुतादरात् ॥ १॥

आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा ।
अग्रे सर्वमिदं देवा आसीत्तन्मात्रमास्तिकाः ॥ २॥

ततो नान्यन्मिषत्किञ्चित्स पुनः कालपाकतः ।
प्राणिनां कर्मसंस्कारात्स्वशक्तिगतसत्त्वतः ॥ ३॥

स ऐक्षत जगत्सर्वं नु सृजा इति शङ्करः ।
स पुनः सकलानेताँल्लोकानात्मीयशक्तितः ॥ ४॥

यथापूर्वं क्रमेणैव सुरा असृजत प्रभुः ।
तं हरं केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः ॥ ५॥

केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः ।
केचित्प्रधानं त्रिगुणं स्वतन्त्रं केवलं जडम् ॥ ६॥

अणवः केचिदिच्छन्ति शब्दं केचन मोहिताः ।
क्षणप्रध्वंसिविज्ञानं केचन भ्रान्तचेतसः ॥ ७॥

शून्यसंज्ञं सुराः केचिन्निरुपाख्यं विमोहिताः ।
केचिद्भूतानि चेच्छन्ति निसर्गं केचन भ्रमात् ॥ ८॥

तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् ।
सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः ॥ ९॥

पापिष्ठानां तु जन्तूनां तत्र तत्र सुरर्षभाः ।
प्राक्संसारवशादेव जायते रुचिरास्तिकाः ॥ १०॥

तेऽपि कालविपाकेन श्रद्धया पूतयाऽपि च ।
पुरातनेन पुण्येन देवतानां प्रसादतः ॥ ११॥

कालेन महता देवाः सोपानक्रमतः पुनः ।
वेदमार्गमिमं मुख्यं प्राप्नुवन्ति चिरन्तनम् ॥ १२॥

प्राक्संसारवशादेव ये विचिन्त्य बलाबले ।
विवशा वेदमापन्नास्तेऽपि कैवल्यभागिनः ॥ १३॥

वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः ।
हस्तस्थं पायसं त्यक्त्वा लिहेत्कूर्परमात्मनः ॥ १४॥

विदा वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् ।
तमसाऽपि विना लोकं ते पश्यन्ति घटादिकम् ॥ १५॥

तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् ।
अन्येन वेदितो ह्यर्थो न सत्यः परमार्थतः ॥ १६॥

परमार्थो द्विधा प्रोक्तो मया हे स्वर्गवासिनः ।
एकः स्वभावतः साक्षात्परमार्थः सदैव तु ॥ १७॥

स शिवः सत्यचैतन्यसुखानन्तस्वलक्षणः ।
अपरः कल्पितः साक्षाद्ब्रह्मण्यध्यस्तमायया ॥ १८॥

कल्पितानामवस्तूनां मध्ये केचन मायया ।
परमार्थतया क्लृप्ताः व्यवहारे सुरर्षभाः ॥ १९॥

व्यवहारे तु सङ्क्लृप्ताः केचनापरमार्थतः ।
आकाशादि जगच्छुक्तिरूपे ते कथिते मया ॥ २०॥

व्यावहारिकसत्यार्थं साक्षात्सत्यार्थचिद्घनम् ।
उभयं वक्ति वेदस्तु मार्गा नैवं वदन्ति हि ॥ २१॥

स्वप्नावस्थासु सङ्क्लृप्तसत्यार्थेन समानिमान् ।
अर्थानेवामनन्त्यन्ये मार्गा हे स्वर्गवासिनः ॥ २२॥

जाग्रत्काले तु सङ्क्लृप्तसत्यार्थेन समानिमान् ।
मार्गा एवामनन्त्यर्था का कथा सत्यचिद्घने ॥ २३॥

तस्मादेकैकया दृष्ट्या मार्गाः सत्यार्थभाषिणः ।
दृष्ट्यान्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम् ॥ २४॥

चैतन्यापेक्षया चेत्यं व्योमादि सकलं जगत् ।
असत्यं सत्यरूपं तत्कुम्भकुड्याद्यपेक्षया ॥ २५॥

कुम्भकुड्यादयो भावा अपि व्योमाद्यपेक्षया ।
असत्याः सत्यरूपास्ते शुक्तिरूपाद्यपेक्षया ॥ २६॥

जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा ।
अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः ॥ २७॥

तथाऽपि स्वप्नदृष्टं तु वस्तु स्वर्गनिवासिनः ।
सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये ॥ २८॥

तथैव मार्गाः सुभ्रान्ता अपि वेदोदितस्य तु ।
अर्थस्य प्राप्तिसिद्ध्यार्था भवन्त्येव न संशयः ॥ २९॥

तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे ।
वेदनिष्ठस्तु तान्मार्गान्कदाचिदपि न स्पृशेत् ॥ ३०॥

वेदनिष्ठस्तु मार्गांस्तान्मोहेनापि स्पृशेद्यदि ।
प्रायश्चित्ती भवत्येव नात्र कार्या विचारणा ॥ ३१॥

एकस्यामपि तैः सार्धं पङ्क्तौ वेदैकसंस्थितः ।
मोहेनापि न भुञ्जीत भुक्त्वा चान्द्रायणं चरेत् ॥ ३२॥

इज्यादानविवाहादिकार्यमध्ययनं श्रुतेः ।
यदि तैर्मोहतः कुर्यात्कुर्याच्चान्द्रायणत्रयम् ॥ ३३॥

धर्माधर्मादिविज्ञानं नाददीत श्रुतौ स्थितः ।
तेभ्यो मोहादपि प्राज्ञाः श्रेयस्कामी कदाचन ॥ ३४॥

वेदबाह्येषु मार्गेषु संस्कृता ये नराः सुराः ।
ते हि पाषण्डिनः साक्षात्तथा तैः सहवासिनः ॥ ३५॥

कलौ जगद्विधातारं शिवं सत्यादिलक्षणम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३६॥

वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३७॥

वेदोक्तेनैव मार्गेण भस्मनेव त्रिपुण्ड्रकम् ।
धूलनं नाचरिष्यन्ति पाषण्डोपहता जनाः ॥ ३८॥

रुद्राक्षधारणं भक्त्या वेदोक्तेनैवे वर्त्मना ।
न करिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ३९॥

लिङ्गे दिने दिने देवं शिवरुद्रादिसंज्ञितम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ४०॥

देवकार्यं न कुर्वन्ति पितृकार्यं विशेषतः ।
औपासनं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४१॥

पञ्चयज्ञं न कुर्वन्ति तथैवातिथिपूजनम् ।
वैश्वदेवं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४२॥

वेदबाह्येन मार्गेण पूजयन्ति जनार्दनम् ।
निन्दन्ति शङ्करं मोहात्पाषण्डोपहता जनाः ॥ ४३॥

ब्रह्माणं केशवं रुद्रं भेदभावेन मोहिताः ।
पश्यन्त्येकं न जानन्ति पाषण्डोपहता जनाः ॥ ४४॥

अदक्षिणमनभ्यङ्गमधौतचरणं तथा ।
कुर्वन्त्यनग्निकं श्राद्धं पाषण्डोपहता जनाः ॥ ४५॥

एकादश्यामथाष्टम्यां चतुर्दश्यां विशेषतः ।
उपवासं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४६॥

शतरुद्रीयचमकैस्तथा पौरुषसूक्तकैः ।
नाभिषिञ्चन्ति देवेशं पाषण्डोपहता जनाः ॥ ४७॥

चिरन्तनानि स्थानानि शिवस्य परमात्मनः ।
न द्रक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः ॥ ४८॥

श्रीमद्दक्षिणकैलासे वर्तनं श्रद्धया सह ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ४९॥

श्रीमद्व्याघ्रपुरे पुण्ये वर्तनं भुक्तिमुक्तिदम् ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५०॥

अन्येषु च विशिष्टेषु शिवस्थानेषु वर्तनम् ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५१॥

दिने दिने तु वेदान्तमहावाक्यार्थनिर्णयम् ।
आचार्यान्न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५२॥

सन्न्यासं परहंसाख्यं नाङ्गीकुर्वन्ति मोहिताः ।
प्रद्वेषं च करिष्यन्ति पाषण्डोपहता जनाः ॥ ५३॥

अन्यानि यानि कर्माणि वेदेनैवोदितानि तु ।
नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५४॥

स्मार्तान्यपि च कर्माणि यानि यानि सुरोत्तमाः ।
नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५५॥

ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं चार्धचन्द्रकम् ।
धारयिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ५६॥

शङ्खचक्रगदावज्रैरङ्कनं विग्रहे स्वके ।
मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५७॥

मनुष्याणां च नाम्ना तु तेषामाकारतोऽपि च ।
लाञ्छिताश्च भविष्यन्ति पाषण्डोपहता जनाः ॥ ५८॥

बहुनोक्तेन किं वेदमर्यादाभेदनं सुराः ।
श्रद्धयैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५९॥

धीरा विशिष्टाश्च महेश्वरस्य
प्रसादयुक्ताश्च महत्तमाश्च ।
वेदोदितं केवलमेव देवा
मुदा करिष्यन्ति विमुक्तिसिद्ध्यै ॥ ६०॥

इति ब्रह्मगीतासूपनिषत्सु
वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ २॥

[mks_separator style=”dotted” height=”2″]

॥ अथ तृतीयोऽध्यायः ॥

॥ साक्षिशिवस्वरूपकथनम् ॥

ब्रह्मोवाच –
सर्वात्मा शङ्करो नाम साक्ष्येव सकलस्य तु ।
साक्ष्यभावे जगत्साक्ष्यं कथं भाति सुरोत्तमाः ॥ १॥

स्वतो भानविहीनं हि जगत्सर्वं चराचरम् ।
जडताऽजडता चास्य जगतो भानवत्तया ॥ २॥

भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते ।
तन्न सङ्गतमेव स्याज्जन्यं चेज्जडमेव तत् ।
जडानामेव जन्यत्वं कुम्भादीनां हि सम्मतम् ॥ ३॥

विज्ञानं चापि भानस्य नैवोत्पादकमिष्यते ।
ज्ञानस्य भानरूपेण परिणामो न सिध्यति ॥ ४॥

अविक्रियत्वाज्ज्ञानस्य यदि तस्यापि विक्रिया ।
तर्हि क्षीरादिवच्चेत्यं भवेत्तन्नैव वेदनम् ॥ ५॥

तथा भानस्य विज्ञानं नैवारम्भकमिष्यते ।
अद्रव्यत्वाद्गुणत्वेन परैरङ्गीकृतत्वतः ॥ ६॥

असद्रूपस्य भानस्य ज्ञानं नारम्भकं भवेत् ।
वन्ध्यासूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत् ॥ ७॥

प्रागसद्रूपभानस्य ज्ञानं नारम्भकं भवेत् ।
असतः प्राक्त्वपूर्वाणां विशेषाणामभावतः ॥ ८॥

अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वदा ॥ ९॥

ज्ञानस्यापि न जन्यत्वमस्ति हे स्वर्गवासिनः ।
उक्तन्यायेन जन्यत्वप्रतीतिर्भ्रान्तिरेव हि ॥ १०॥

भानस्यापि तथा भ्रान्तिर्जन्यत्वप्रतिभा सुराः ।
भावत्वे सत्यजन्यत्वाद्भानं नित्यं सुरोत्तमाः ॥ ११॥

यज्जगद्भासकं भानं नित्यं भाति स्वतः सुराः ।
स एव जगतः साक्षी सर्वात्मा शङ्कराभिधः ॥ १२॥

तेन कल्पितसम्बन्धादज्ञानं भाति न स्वतः ।
अज्ञानजन्यं चित्तं च रागद्वेषादयस्तथा ।
अज्ञानस्पृष्टचैतन्यादेवं भान्ति न च स्वतः ॥ १३॥

प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा ।
चित्तवृत्त्यभिसम्बन्धद्वारेणैव दृगन्वयात् ॥ १४॥

विभान्ति न स्वतो बाह्यविषयाश्च तथैव च ॥ १५॥

अनुमानादिवृत्तिस्थं चैतन्यं सुरसत्तमाः ।
अर्थानामपि केषां चिद्भासकं तेन शङ्करः ॥ १६॥

सर्वावभासकः प्रोक्तस्तेन भातमिदं जगत् ।
अतो रूपाणि तेनैव पश्यतीशेन मानवः ॥ १७॥

श‍ृणोत्यनेन शब्दांश्च गन्धानाजिघ्रति प्रियान् ।
अनेनैव सदा वाचं व्याकरोति तु मानवः ।
अनेन स्वादु चास्वादु विजानाति च मानवः ॥ १८॥

शङ्कराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः ।
केचिधृदयमित्याहुर्ब्राह्मणा हे सुरोत्तमाः ॥ १९॥

मन इत्यपरे सन्तः संज्ञानमिति केचन ।
आज्ञानमिति विद्वांसः केचिद्धे स्वर्गवासिनः ॥ २०॥

विज्ञानमिति चाप्यन्ये प्रज्ञानमिति केचन ।
मेधेति ब्राह्मणाः केचिद्दृष्टिरित्यपरे बुधाः ॥ २१॥

धृतिरित्यपरे प्राज्ञा मतिरित्यपि केचन ।
मनीषेति महाप्राज्ञा जूतिरित्यपरे बुधाः ॥ २२॥

स्मृतिरित्यास्तिकाः केचित्सङ्कल्प इति केचन ।
क्रतुरित्यपरे प्राज्ञाः काम इत्यपरे जनाः ॥ २३॥

वश इत्यास्तिकाः केचित्सर्वाण्येतानि सन्ततम् ।
प्रज्ञानस्य शिवस्यास्य नामध्येयान्यसंशयम् ॥ २४॥

एष ब्रह्मैष एवेन्द्र एष एव प्रजापतिः ।
एष एव हि देवाश्च भूतानि भवनानि च ॥ २५॥

अण्डजा जारुजाश्चैव स्वेदजा उद्भिजा अपि ।
अश्वा गावश्च मर्त्याश्च हस्तिपूर्वास्तथैव च ॥ २६॥

स्थावरं जङ्गमं चैव तथाऽन्यदपि किञ्चन ।
सर्वमेतदयं शम्भुः प्रज्ञानघनलक्षणः ॥ २७॥

प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरी ।
प्रज्ञानमेव तद्ब्रह्म शिवरुद्रादि संज्ञितम् ॥ २८॥

एवंरूपपरिज्ञानादेव मर्त्योऽमृतो भवेत् ।
न कर्मणा न प्रजया न चान्येनापि केनचित् ॥ २९॥

ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ।
अत्र नास्त्येव सन्देहस्त्रिर्वः शपथयाम्यहम् ॥ ३०॥

तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ।
संसारके गुहावाच्ये मायाज्ञानादिसंज्ञिते ।
निहितं ब्रह्म यो वेद परमव्योमसंज्ञिते ॥ ३१॥

सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः ।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ॥ ३२॥

प्रत्यगज्ञानविज्ञानमायाशक्तेस्तु साक्षिणम् ।
एकं ब्रह्म च सम्पश्यन्साक्षाद्ब्रह्मविदुत्तमः ॥ ३३॥

ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् ।
अपञ्चीकृत आकाशः सम्भूतो रज्जुसर्पवत् ॥ ३४॥

आकाशाद्वायुसञ्ज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ ३५॥

तानि भूतानि सूक्ष्माणि पञ्चीकृत्य शिवाज्ञया ।
तेभ्य एव सुरा सृष्टं ब्रह्माण्डाख्यमिदं मया ॥ ३६॥

भुवनानि विशिष्टानि निर्मितानि शिवाज्ञया ।
ब्रह्माण्डस्योदरे देवा देवाश्च विविधा अमी ॥ ३७॥

देवादयो मनुष्याश्च तथा पश्वादयो जनाः ।
तत्तत्कर्मानुरूपेण मया सृष्टाः शिवाज्ञया ॥ ३८॥

अस्थिस्नाय्वादिरूपं यच्छरीरं भाति देहिनाम् ।
तस्मात्प्राणमयो ह्यात्मा विभिन्नश्चान्तरो यतः ॥ ३९॥

योऽयं प्राणमयो ह्यात्मा भाति सर्वशरीरिणाम् ।
ततो मनोमयो ह्यात्मा विभिन्नश्चान्तरत्वतः ॥ ४०॥

योऽयं मनोमयो ह्यात्मा भाति सर्वशरीरिणाम् ।
विज्ञानमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४१॥

विज्ञानमय आत्मा यो विभाति सकलात्मनाम् ।
आनन्दमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४२॥

योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ।
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ॥ ४३॥

तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ।
आनन्देन सदा पूर्णस्तथा ज्ञानमयः सुराः ॥ ४४॥

तथाऽऽनन्दमयश्चापि ब्रह्मणाऽन्येन साक्षिणा ।
सर्वान्तरेण सम्पूर्णो ब्रह्म नान्येन केनचित् ॥ ४५॥

यदिदं ब्रह्म पुच्छाख्यं सत्यज्ञानाद्वयात्मकम् ।
स रसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवाः ॥ ४६॥

एतमेव रसं साक्षाल्लब्ध्वा देही सनातनम् ।
सुखी भवति सर्वत्र नान्यथा सुरसत्तमाः ॥ ४७॥

असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
को जीवति नरो देवाः को वा नित्यं विचेष्टते ॥ ४८॥

तस्मात्सर्वात्मनां चित्ते भासमानो रसो हरः ।
आनन्दयति दुःखाढ्यं जीवात्मानं कृपाबलात् ॥ ४९॥

यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
निर्भेदं परमेकत्वं विन्दते सुरसत्तमाः ॥ ५०॥

तदैवाभयमत्यन्तं कल्याणं परमामृतम् ।
स्वात्मभूतं परं ब्रह्म स याति स्वर्गवासिनः ॥ ५१॥

यदा ह्येवैष एतस्मिन्नल्पमत्यन्तरं नरः ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ ५२॥

सर्वेषामात्मभूतं यद्ब्रह्म सत्यादिलक्षणम् ।
उदास्ते तत्सुरश्रेष्ठा यथाजातजनं प्रति ॥ ५३॥

सम्यग्ज्ञानैकनिष्ठानां तदेव परमं पदम् ।
तदा स्वात्मतया भाति केवलं कृपया सुराः ॥ ५४॥

तत्त्वेवाधीतवेदस्य सहाङ्गैः सुरपुङ्गवाः ।
मननेन विहीनस्य भयहेतुः सदा भवेत् ॥ ५५॥

भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः ।
भीषाऽस्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः ॥ ५६॥

अस्यैवानन्दलेशेन स्तम्बान्ता विष्णुपूर्वकाः ।
भवन्ति सुखिनो देवास्तारतम्यक्रमेण तु ॥ ५७॥

तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
स्वरूपभूत आनन्दः स्वयं भाति पदे यथा ॥ ५८॥

अयमेव शिवः साक्षादादित्यहृदये तथा ।
अन्येषां हृदये चैव भाति साक्षितया स्वयम् ॥ ५९॥

विहाय साक्ष्यं देहादि मायान्तं तु विवेकतः ।
सर्वसाक्षिणमात्मानं यः पश्यति स पश्यति ॥ ६०॥

रुद्रनारायणादीनां स्तम्बान्तानां च साक्षिणम् ।
एवं तर्कप्रमाणाभ्यां यः पश्यति स पश्यति ॥ ६१॥

यस्यैवं तर्कमानाभ्यामस्ति विज्ञानमास्तिकाः ।
स लोकादखिलादस्माद्विभिद्यात्मानमात्मना ॥ ६२॥

अन्नादीनखिलान्कोशानाभासेन विभासितान् ।
उपसङ्क्रामतीशस्य प्रसादादेव केवलात् ॥ ६३॥

यतो वाचो निवर्तन्ते निमित्तानामभावतः ।
निर्विशेषे शिवे शब्दः कथं देवाः प्रवर्तते ॥ ६४॥

विशेषं कञ्चिदाश्रित्य खलु शब्दः प्रवर्तते ।
यस्मादेतन्मनः सूक्ष्मां व्यावृत्तं सर्वगोचरम् ॥ ६५॥

यस्माच्छ्रोत्रत्वगक्ष्यादिखानि कर्मेन्द्रियाणि च ।
व्यावृत्तानि पराग्वस्तुविषयाणि सुरोत्तमाः ॥ ६६॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ६७॥

एवं यस्तु विजानाति स्वगुरोरुपदेशतः ।
स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ६८॥

तप्यतापकरूपेण विभातमखिलं जगत् ।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ६९॥

कर्ता कारयिता कर्म करणं कार्यमास्तिकः ।
सर्वमात्मतया भाति प्रसादात्परमेश्वरात् ॥ ७०॥

प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७१॥

नियोज्यश्च नियोगश्च साधनानि नियोजकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७२॥

भोक्ता भोजयिता भोगो भोगोपकरणानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७३॥

ग्राहकश्च तथा ग्राह्यं ग्रहणं सर्वतोमुखम् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७४॥

अन्यथाज्ञानमज्ञानं संशयज्ञानमेव च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७५॥

घटज्ञानं पटज्ञानं कुड्यादिज्ञानमेव च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७६॥

घटः कुड्यं कुसूलं च पटः पात्रं च पर्वतः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७७॥

पातालाद्याश्च लोकाश्च सत्यलोकादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७८॥

ब्रह्माण्डं तत्र क्लृप्तानामण्डानां शतकोटयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७९॥

समुद्राश्च तटाकाश्च नद्यः सर्वनदा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८०॥

मेरुमन्दारपूर्वाश्च पर्वताश्च महत्तराः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८१॥

वनानि वनदेशाश्च वन्यानि विविधानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८२॥

वृक्षाश्च विविधाः क्षुद्रतृणगुल्मादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८३॥

आकाशादीनि भूतानि भौतिकान्यखिलान्यपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८४॥

शब्दस्पर्शादितन्मात्ररूपाणि सकलानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८५॥

कृमिकीटपतङ्गाश्च क्षुद्रा अपि च जन्तवः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८६॥

पशवश्च मृगाश्चैव पन्नगाः पापयोनयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८७॥

मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८८॥

यक्षराक्षसगन्धर्वप्रमुखाः सिद्धकिन्नराः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८९॥

कर्मदेवाश्च देवाश्च देवराजो विराट् स्वराट् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९०॥

अहं च मद्विभूतिश्च विष्णुभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९१॥

विष्णुर्विष्णुविभूतिश्च विष्णुभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९२॥

रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९३॥

ईश्वरस्तद्विभूतिश्च तदीयाः सर्वदेहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९४॥

सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९५॥

दिशश्च विदिशश्चैव साभ्रं नक्षत्रमण्डलम् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९६॥

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९७॥

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
तद्भक्ताश्च तथा भान्ति प्रसादात्पारमेश्वरात् ॥ ९८॥

आश्रमाश्च तथा वर्णाः सङ्करा विविधा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९९॥

निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १००॥

शरीरमिन्द्रियं प्राणो मनो बुद्धिरहङ्कृतिः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०१॥

कामक्रोधादयः सर्वे तथा शान्त्यादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०२॥

जीवात्मा परमात्मा च तयोर्भेदश्च भेदकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०३॥

जडशक्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदाऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०४॥

अस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०५॥

आत्मा नाम सुराः स्वेन भासा यो भाति सन्ततम् ।
तमेव त्वमहंशब्दप्रत्ययाभ्यां तु जन्तवः ॥ १०६॥

व्यवहारे विजानन्ति न जानन्त्येव तेऽर्थतः ।
अर्थतश्चास्य वेत्तारो न विद्यन्तेऽद्वयत्वतः ॥ १०७॥

एवमात्मानमद्वैतमात्मना वेद यः स्थिरम् ।
सोऽयमर्थमिमं नित्यं गायन्नास्ते स्वभावतः ॥ १०८॥

यथा नर्तनमीशस्य स्वभावाल्लोकरक्षकम् ।
तथा विद्या विनोदाख्या गीतिर्लोकोपकारिणी ॥ १०९॥

यथैवादिगुरोर्गीतिर्लोकानां हितकारिणी ।
तथैवास्य गुरोर्गीतिर्लोकानां हितकाम्यया ॥ ११०॥

आप्तकामस्य रुद्रस्य गीतिर्व्याख्यानलक्षणा ।
परोपकारिणी तद्वद्गीतिरस्यापि सद्गुरोः ॥ १११॥

लौकिकेष्वपि गानेषु प्रसादं कुरुते शिवः ।
किं पुनर्वैदिके गाने ततो गानं समाश्रयेत् ॥ ११२॥

व्याख्यागानेष्वशक्तस्तु शिवमुद्दिश्य भक्तितः ।
लौकिकीमपि वा गीतिं कुर्यान्नित्यमतन्द्रितः ॥ ११३॥

गीतिज्ञानं शिवप्राप्तेः सुतरां कारणं भवेत् ।
गीतिज्ञानेन योगः स्याद्योगादेव शिवैक्यता ॥ ११४॥

गीतिज्ञो यदि योगेन न याति परमेश्वरम् ।
प्रतिबन्धकबाहुल्यात्तस्यैवानुचरो भवेत् ॥ ११५॥

केवलं लौकिकं गानं न कुर्यान्मोहतोऽपि वा ।
यदि कुर्यात्प्रमादेन प्रायश्चित्ती भवेद्विजः ॥ ११६॥

अतस्तु संसारविनाशने रतः
श्रुतिप्रमाणेन च तर्कवर्त्मना ।
प्रबोधमासाद्य शिवस्य तं पुनः
सदैव गायन्विचरेदिमां महीम् ॥ ११७॥

इत्युपनिषत्परतत्त्वविषया वः
सत्यमुदिता सकलदुःखनिहन्त्री ।
कष्टहृदयस्य मनुजस्य न देया
भक्तिसहितस्य तु शिवस्य खलु देया ॥ ११८॥

इति ब्रह्मगीतासूपनिषत्सु
साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्यायः ॥ ३॥

[mks_separator style=”dotted” height=”2″]

॥ अथ चतुर्थोऽध्यायः ॥

॥ तलवकारोपनिषद्व्याख्याकथनम् ॥

ब्रह्मोवाच –
अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा ।
संसारार्णवमग्नानां साक्षात्संसारमोचकः ॥ १॥

सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु ।
विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि ॥ २॥

चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं श‍ृणोत्यपि ।
अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ॥ ३॥

स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् ।
प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ॥ ४॥

इन्द्रियाणां तु सत्ता च नैव स्वाभाविकी मता ।
तप्तायः पिण्डवत्तस्य सत्त्ययैव सुरर्षभाः ॥ ५॥

श्रोत्रमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः ।
अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः ॥ ६॥

मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः ।
मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥ ७॥

वाचो वाक्त्वमनुप्राप्य प्राणस्य प्रणतां हरः ।
ददाति नियमेनैव चक्षुष्ट्वं चक्षुषस्तथा ॥ ८॥

अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ।
तत्तद्रूपमनुप्राप्य ददाति नियमेन तु ॥ ९॥

तत्र चक्षुश्च वाक्चैव मनश्चान्यानि खानि च ।
न गच्छन्ति स्वयञ्ज्योतिःस्वभावे परमात्मनि ॥ १०॥

स देवो विदितादन्यस्तथैवाविदितादपि।
वाचा च मनसा चैव चक्षुषा च तथैव च ॥ ११॥

श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् ।
न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम् ॥ १२॥

यस्येदमखिलं नित्यं गोचरं रूपवद्रवेः ।
तदेव परमं ब्रह्म वित्त यूयं सनातनम् ॥ १३॥

एवं जानन्ति ये धीरास्तर्कतश्च प्रमाणतः ।
गुरूक्त्या स्वानुभूत्या च भवन्ति खलु तेऽमृताः ॥ १४॥

सुज्ञातमिति तद्ब्रह्म मनुध्वं यदि हे सुराः ।
दभ्रमेव हि तत्साक्षि ब्रह्म वेद्यं कथं भवेत् ॥ १५॥

यस्य स्वात्मतया ब्रह्म विदितं कर्मतां विना ।
तस्य तज्ज्ञानकर्तृत्वविहीनस्य मतं हि तत् ॥ १६॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ १७॥

ब्रह्मज्ञाने घटज्ञाने भ्रान्तिज्ञानेऽपि चास्तिकाः ।
नैव कर्तृ न कर्मापि ब्रह्म चित्केवलं भवेत् ॥ १८॥

यस्य कर्तृतया भातं ब्रह्माकर्तृ सुरोत्तमाः ।
तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ १९॥

यस्य कर्मतया भातं ब्रह्माकर्म सुरोत्तमाः ।
तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ २०॥

अकर्त्रविषयप्रत्यक्प्रकाशः स्वात्मनैव तु ।
विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ॥ २१॥

एवंरूपपरिज्ञानमपि दृश्यतयैव तु ।
यस्य भाति स तत्साक्षी ब्रूत ब्रह्मात्मवित्कथम् ॥ २२॥

ब्रह्माविद्याऽपि ज्ञाता चेद्वेद्या भवति कुम्भवत् ।
अवेद्यं ब्रह्म वेद्यं स्याद्वेद्यविद्याभिसङ्गमात् ॥ २३॥

वेत्ताऽपि विद्यासम्बन्धात्सविशेषो भवेद्ध्रुवम् ।
निर्विशेषं परं ब्रह्म ततो विद्वान्न चात्मवित् ॥ २४॥

विद्याया आश्रयत्वेन विषयत्वेन वा भवेत् ।
ब्रह्म नैवान्यथा तत्र ब्रह्म ब्रह्म भवेत्कथम् ॥ २५॥

ब्रह्मसम्बन्धहीना चेद्विद्या ब्रह्म तु वेदितुम् ।
अशक्यं तत्र हे देवाः को वा ब्रह्मात्मविद्भवेत् ॥ २६॥

ब्रह्मण्यध्यस्तमायादिनिवृत्तिं कुरुते तु सा ।
विद्या यदि न मायायाः प्रत्यगात्मन्यसम्भवात् ॥ २७॥

प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमः ।
तथा सति कथं मायासम्भवः प्रत्यगात्मनि ॥ २८॥

तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने ।
स्वप्रकाशैकसंसिद्धेर्नास्ति माया परात्मनि ॥ २९॥

व्यावहारिकदृष्ट्येयं विद्याऽविद्या न चान्यथा ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ ३०॥

व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः ।
प्रकाश एव सततं तस्मादद्वैतमेव हि ॥ ३१॥

अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ।
प्रकाश एव सततं तस्मान्मौनं हि युज्यते ॥ ३२॥

प्रत्यक्षादि प्रमाणैश्च तर्कैः श्रुत्या तथैव च ।
स्वगुरोरुपदेशेन प्रसादेन शिवस्य तु ॥ ३३॥

अर्जितैरपि धर्मैश्च कालपाकेन धार्मिकाः ।
अर्थो महानयं भाति शाङ्करः पुरुषस्य तु ॥ ३४॥

यस्य प्रकाशितः साक्षादयमर्थो महत्तरः ।
तस्य नास्ति क्रियाः सर्वा ज्ञानं चाप्यद्वयत्वतः ॥ ३५॥

अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न स जीवो न च ब्रह्म न चान्यदपि किञ्चन ॥ ३६॥

अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च ॥ ३७॥

अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च ॥ ३८॥

एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
स शम्भुरेव नैवान्य इति मे निश्चिता मतिः ॥ ३९॥

एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
तस्याहं वैभवं वक्तुं न शक्तः सत्यमीरितम् ॥ ४०॥

एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य विष्णुश्च न शक्तो वक्तुमास्तिकाः ॥ ४१॥

एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य रुद्रश्च न शक्तो वक्तुमास्तिकाः ॥ ४२॥

एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः ॥ ४३॥

अस्मिन्देहे यदि ज्ञातः पुरोक्तोऽर्थोमहानयम् ।
स साक्षात्सत्यमद्वैतं निर्वाणं याति मानवः ॥ ४४॥

अस्मिन्देहे न विज्ञातः पुरोक्तोऽर्थो महान्यदि ।
विनष्टिरेव महती तस्य नैव परा गतिः ॥ ४५॥

स्वशरीरेऽन्यदेहेषु समं निश्चित्य तं दृढम् ।
अथ धीरा न जायन्ते ह्यमृताश्च भवन्ति हि ॥ ४६॥

बद्धो मुक्तो महाविद्वानज्ञ इत्यादिभेदतः ।
एक एव सदा भाति नानेव स्वप्नवत्स्वयम् ॥ ४७॥

अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम् ।
मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः ॥ ४८॥

स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम् ।
आभासानां च संसारं वेद मुक्तिं तथैव च ॥ ४९॥

प्रारब्धकर्मपर्यन्तं कदाचित्परमात्मवित्।
जगज्जीवादिकं वेद कदाचिन्नैव वेद तत् ॥ ५०॥

कदाचिद्ब्रह्म जानाति प्रतीतमखिलं सुराः ।
कदाचिन्नैव जानाति स्वभावादेव तत्त्ववित् ॥ ५१॥

जगज्जीवादिरूपेण यदा ब्रह्म विभासते ।
तदा दुःखादिभोगोऽपि भाति चाभासरूपतः ॥ ५२॥

यदा ब्रह्मात्मना सर्वं विभाति स्वत एव तु ।
तदा दुःखादिभोगोऽयमाभासो न विभासते ॥ ५३॥

जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ।
न तत्पश्यति तद्रूपं ब्रह्मवस्त्वेव पश्यति ॥ ५४॥

ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपि च ।
तथा सति शिवादन्यत्कथं पश्यति तत्त्ववित् ॥ ५५॥

ब्रह्मरूपेण वा साक्षाज्जगज्जीवात्मनाऽथवा ।
यथा यथा प्रथा साक्षाद्ब्रह्म भाति तथा तथा ॥ ५६॥

यथा यथाऽवभासोऽयं स्वभावादेव भासते ।
तथा तथाऽनुसन्धानं योगिनः स्वात्मवेदनम् ॥ ५७॥

नामतश्चार्थतश्चापि महादेवो यदि प्रभुः ।
किं जहाति तदा विद्वान्किं गृह्णाति सुरर्षभाः ॥ ५८॥

ग्राह्यं वा शङ्करादन्यत्त्याज्यं वा यदि विद्यते ।
महत्त्वं तस्य हीयेत स्वभावो न विहन्यते ॥ ५९॥

महत्त्वं नैव धर्मोऽस्य भेदाभावात्परात्मनः ।
धर्मधर्मित्ववार्ता च भेदे सति हि विद्यते ॥ ६०॥

भेदोऽभेदस्तथा भेदाभेदः साक्षात्परात्मना ।
नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा ॥ ६१॥

ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ।
तथा सति शिवज्ञानी किं गृह्णाति जहाति किम् ॥ ६२॥

मायया विद्यते सर्वमिति केचन मोहिताः ।
शिवरूपातिरेकेण नास्ति माया च वस्तुतः ॥ ६३॥

मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु ।
महत्त्वं परमं साक्षाद्धीयते सुरपुङ्गवाः ॥ ६४॥

महत्त्वस्य तु सङ्कोचो नास्ति सम्यङ्निरूपणे ।
अस्ति चेदप्रमाणं स्याच्छ्रुतिः सत्यार्थवादिनी ॥ ६५॥

तस्मादस्ति महादेव एव साक्षात्स्वयम्प्रभुः ।
आनन्दरूपः सम्पूर्णो न ततोऽन्यत्तु किञ्चन ॥ ६६॥

इयमेव तु तर्काणां निष्ठाकाष्ठा सुरोत्तमाः ।
प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः ॥ ६७॥

स्मृतीनां च पुराणानां भारतस्य तथैव च ।
वेदानुसारिविद्यानामन्यासामास्तिकोत्तमाः ॥ ६८॥

शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च ।
अस्मदुक्तागमस्यापि सुराः सूक्ष्मनिरूपणे ॥ ६९॥

बुद्धागमानां सर्वेषां तथैवार्हागमस्य च ।
यक्षगन्धर्वसिद्धादिनिर्मितस्यागमस्य च ॥ ७०॥

परमाद्वैतविज्ञानं कस्य मर्त्यस्य सिध्यति ।
कस्य देवस्य वा साक्षाच्छिवस्यैव हि सिध्यति ॥ ७१॥

परमाद्वैतविज्ञानं शिवस्यामिततेजसः ।
स्वभावसिद्धं देव्याश्च शिवाया आस्तिकोत्तमाः ॥ ७२॥

प्रसादादेव रुद्रस्य शिवायाश्च तथैव च ।
परमाद्वैतविज्ञानं विष्णोः साक्षान्ममापि च ॥ ७३॥

विराट्सञ्ज्ञस्य देवस्य स्वराट्सञ्ज्ञस्य चात्मनः ।
सम्राट्सञ्ज्ञस्य चान्येषां प्रसाद्दाएव वेदनम् ॥ ७४॥

युष्माकमपि सर्वेषां शिवस्य परमात्मनः ।
परमाद्वैतविज्ञानं प्रसादादेव नान्यथा ॥ ७५॥

यक्षराक्षसगन्धर्वसिद्धादीनामपीश्वराः ।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७६॥

मनुष्याणां च सर्वेषां पश्वादीनां तथैव च ।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७७॥

प्रसादे सति कीटो वा पतङ्गो वा नरोऽथ वा ।
देवो वा दानवो वाऽपि लभते ज्ञानमुत्तमम् ॥ ७८॥

एष एव हि जन्तूनां परज्ञानं ददाति च ।
न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम् ॥ ७९॥

आदाने च तथा दाने न स्वतन्त्रो महान् हरिः ।
तथैवाहं सुरश्रेष्ठाः सत्यमेव मयोदितम् ॥ ८०॥

स्वतन्त्रः शिव एवायं स हि संसारमोचकः ।
तं विना न मयोद्धर्तुं शक्यते संसृतेर्जनः ॥ ८१॥

विष्णुना च परेणापि महादेवं घृणानिधिम् ।
विना जन्तुं समुद्धर्तुं शक्यते न हि सत्तमाः ॥ ८२॥

दर्वीन्यायेन संसारादुद्धरामि जनानिमान् ।
न स्वातन्त्र्येण हे देवाः साक्षाद्विष्णुस्तथैव च ॥ ८३॥

देवदेवस्य रुद्रस्य स्वरूपं तस्य वैभवम् ।
को वा जानाति नास्त्येव स्वयं जानाति वा न वा ॥ ८४॥

दुर्विज्ञेयो महादेवो महतामपि देहिनाम् ।
प्रसादेन विना देवाः सत्यमेव मयोदितम् ॥ ८५॥

पुरा सुराणां सर्वेषामसुराणां दुरात्मनाम् ।
महामोहेन सङ्ग्रामः सञ्जातो दुर्निवारकः ॥ ८६॥

असुरैः पीडिता देवा बलवद्भिः सुरा भृशम् ।
तान्दृष्ट्वा भगवानीशः सर्वज्ञः करुणाकरः ॥ ८७॥

देवानां विजयं देवा असुराणां पराजयम् ।
ददौ तेन सुरैः शीघ्रमसुरास्तु पराजिताः ॥ ८८॥

अविज्ञाय महादेववैभवं परिमोहिताः ।
वयं विजयमापन्ना असुराश्च पराजिताः ॥ ८९॥

इत्यहम्मानसञ्छन्नाः सर्वे देवाः पुरातनाः ।
अतीव प्रीतिमापन्ना अभवन्सुरपुङ्गवाः ॥ ९०॥

पुनर्विश्वाधिको रुद्रो भगवान्करुणानिधिः ।
स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वं तथैव च ॥ ९१॥

तेषां भ्रान्तिनिवृत्यर्थमपि साक्षान्महेश्वरः ।
आविर्बभूव सर्वज्ञो यक्षरूपेण हे सुराः ॥ ९२॥

तं दृष्ट्वा यक्षमत्यन्तं विस्मयेन सहामराः ।
विचार्य सर्वे सम्भूय किमिदं यक्षमित्यपि ॥ ९३॥

पुनरग्निं समाहूय देवाः सर्वे विमोहिताः ।
अब्रुवंस्त्वं विजानीहि किमेतद्यक्षमित्यपि ॥ ९४॥

अग्निस्तथा करोमीति प्रोच्य यक्षं गतोऽभवत् ।
यक्षरूपो महादेवः कोऽसीत्याहानलं प्रति ॥ ९५॥

अग्निर्वा अहमस्मीति यक्षं प्रत्याह सोऽपि च ।
सोऽपि प्रोवाच भगवांस्त्वयि किं वीर्यमित्यपि ॥ ९६॥

इदं सर्वं दहेयं यदिदं भूम्यां व्यवस्थितम् ।
इत्याहाग्निस्तृणं तस्मै निधाय परमेश्वरः ॥ ९७॥

एतद्दहेति भगवान्स्मयमानोऽभ्यभाषत ।
अग्निः सर्वजवेनैव तद्दग्धुं तृणमास्तिकाः ॥ ९८॥

अशक्तो लज्जया युक्तो भीतोऽगच्छत्सुरान्प्रति ।
माया तस्यैव विज्ञातुं न शक्यं वैभवं सुराः ॥ ९९॥

वित्त यूयं महायासादित्याहाग्निः सुरान्प्रति ।
तच्छ्रुत्वा वायुमाहूय विजानीहीति चाब्रुवन् ॥ १००॥

सोऽपि गत्वा तथा तेन यक्षरूपेण शम्भुना ।
भृशं प्रतिहतो भूत्वा तथाऽगच्छत्सुरान्प्रति ॥ १०१॥

पुनरिन्द्रः स्वयं मोहादहन्ताकञ्चुकावृतः ।
विज्ञातुं यक्षमगमत्स तत्रैव तिरोदधे ॥ १०२॥

इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः ।
विद्यारूपामुमां देवीं ध्यात्वा कारुणिकोत्तमाम् ॥ १०३॥

लौकिकैर्वैदिकैः स्तोत्रैस्तुष्टाव परमेश्वरीम् ।
सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी ॥ १०४॥

शिवाभिन्ना परानन्दा शङ्करस्यापि शङ्करी ।
स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला ॥ १०५॥

महादेवस्य माहात्म्यं दुर्ज्ञेयं सर्वजन्तुभिः ।
इति दर्शयितुं देवी तत्रैवाविरभूत्स्वयम् ॥ १०६॥

तामाराध्य शिवामिन्द्रः शोभमानां तु सर्वतः ।
उमां पर्वतराजेन्द्रकन्यकामाह वज्रभृत् ॥ १०७॥

किमेतद्यक्षमत्रैव प्रादुर्भूतं तिरोहितम् ।
वक्तुमर्हसि देवेशि मम कारुणिकोत्तमे ॥ १०८॥

देवी परमकारुण्याद्ब्रह्म मे पतिरत्र तु ।
प्रादुर्भूतं तिरोभूतमित्याहादेषनायिका ॥ १०९॥

दुर्विज्ञेयो महादेवो विष्णोः साक्षादजस्य च ।
अन्येषामपि देवानां तवापि मघवन्भृशम् ॥ ११०॥

प्रदर्शयितुमीशानो दुर्ज्ञेयत्वं स्वकं परम् ।
आविर्भूतो न चान्येन कारणेन सुराधिप ॥ १११॥

स एव सर्वदेवानां तवापि विजयप्रदः ।
पराजयकरोऽन्येषां तमेव शरणं व्रज ॥ ११२॥

इत्युक्त्वा सा महादेवी चिद्रूपा सर्वसाक्षिणी ।
भक्तानां पाशहन्त्री तु तत्रैवान्तर्हिताऽभवत् ॥ ११३॥

पुनर्देवा महादेवं महाकारुणिकोत्तमम् ।
दुर्विज्ञेयं सुरश्रेष्ठाः स्वतन्त्रं भक्तिमुक्तिदम् । भुक्तिमुक्तिदम्?
विदुः सुनिश्चितं त्यक्त्वा मात्सर्यं भवकारणम् ॥ ११४॥

प्रसादे सति विज्ञातुं शक्यते परमेश्वरः ।
प्रसादेन विना नैव शक्यते सर्वजन्तुभिः ॥ ११५॥

प्रसादेन विना विष्णुर्न जानाति महेश्वरम् ।
तथा चाहं न जानामि देवताः सकला अपि ॥ ११६॥

प्रसादस्य तु सिद्ध्यर्थं खलु सर्वं सुरर्षभाः ।
प्रसादेन विना देवं ये जानन्ति सुरर्षभाः ॥ ११७॥

ते जानन्ति विना घ्राणं गन्धं हस्तेन केवलम् ।
प्रसादो नाम रुद्रस्य कर्मसाम्ये तु देहिनाम् ॥ ११८॥

देशिकालोकनाज्जातो विशिष्टातिशयः सुराः ।
प्रसादस्य स्वरूपं तु मया नारायणेन च ॥ ११९॥

रुद्रेणापि सुरा वक्तुं न शक्यं कल्पकोटिभिः ।
केवलं लिङ्गगम्यं तु न प्रत्यक्षं शिवस्य च ॥ १२०॥

शिवायाश्च हरेः साक्षान्मम चान्यस्य चास्तिकाः ।
प्रहर्षः स्वरनेत्राङ्गविक्रिया कम्पनं तथा ॥ १२१॥

स्तोभः शरीरपातश्च भ्रमणं चोद्गतिस्तथा ।
आकाशेऽवस्थितिर्देवाः शरीरान्तरसंस्थितिः ॥ १२२॥

अदर्शनं च देहस्य प्रकाशत्वेन भासनम् ।
अनधीतस्य शास्त्रस्य स्वत एव प्रकाशनम् ॥ १२३॥

निग्रहानुग्रहे शक्तिः पर्वतादेश्च भेदनम् ।
एवमादीनि लिङ्गानि प्रसादस्य सुरर्षभाः ॥ १२४॥

तीव्रात्तीव्रतरः शम्भोः प्रसादो न समो भवेत् ।
एवंरूपः प्रसादश्च शिवया च शिवेन च ॥ १२५॥

ज्ञायते न मया नान्यैर्नैव नारायणेन च ।
अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम् ॥ १२६॥

तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीच्छति ।
विष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः ॥ १२७॥

शम्भुभक्त्यैव सर्वेषां सत्यमेव मयोदितम् ।
शम्भुभक्तस्य देहेऽस्मिन्प्रसादो गम्यते यथा ॥ १२८॥

न तथा विष्णुभक्तस्य न मद्भक्तस्य देहिनः ।
तस्मान्मुमुमुक्षुर्मां विष्णुमपि त्यक्त्वा महेश्वरम् ॥ १२९॥

आश्रयेत्सर्वभावेन प्रसादं कुरुते हि सः ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३०॥

शक्यते मनुजैर्द्रष्टुं प्रत्यगात्मतया सदा ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३१॥

शक्यते मनुजैर्द्रष्टुं सदा मूर्त्यात्मनैव तु ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३२॥

शक्यते मनुजैर्द्रष्टुं सदा सर्वात्मरूपतः ।
सर्वसाक्षिणमात्मानं विदित्वा सकलं जगत् ॥ १३३॥

साक्षिमात्रतया नित्यं यः पश्यति स पश्यति ।
परमाद्वैतनिष्ठा हि निष्ठाकाष्ठा सुदुर्लभा ॥ १३४॥

शिवादन्यतया भ्रान्त्या द्वैतं वा वेद चेत्पशुः ।
परमाद्वैतविज्ञानी स्वयं तु परदेवता ॥ १३५॥

तस्यैव परमा मुक्तिर्न हि संशयकारणम् ।
गौतमस्य मुनेः शापाद्दधीचस्य च शापतः ॥ १३६॥

जन्मान्तरकृतात्पापादयमर्थो न रोचते ।
महापापवतां नॄणां परमाद्वैतवेदने ॥ १३७॥

प्रद्वेषो जायते साक्षाद्वेदजन्ये शिवेऽपि च ।
महापावतां नॄणां शिवज्ञानस्य साधने ॥ १३८॥

सर्वाङ्गोद्धूलने तिर्यक्त्रिपुण्ड्रस्य च धारणे ।
रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने ॥ १३९॥

प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च ।
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ १४०॥

परमाद्वैतविज्ञानं जायते सुरपुङ्गवाः ।
परमाद्वैतविज्ञानी मयाऽऽराध्यः सदैव तु ॥ १४१॥

नारायणेन रुद्रेण तथा देवैर्विशेषतः ।
परमाद्वैतविज्ञानी यत्र कुत्र स्थितः सुराः ॥ १४२॥

तत्र सन्निहिता मुक्तिर्नात्र कार्या विचारणा ।
परमाद्वैतविज्ञाननिष्ठस्यैव महात्मनः ॥ १४३॥

शुश्रूषा क्रियते येन तत्पादौ मम मस्तके ।
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४४॥

समं देवा न पश्यामि न हरिर्न महेश्वरः ।
परमाद्वैतविज्ञाननिष्ठाय परयोगिने ॥ १४५॥

शरीरमर्थं प्राणांश्च प्रदद्याच्छ्रद्धया सह ।
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४६॥

शुश्रूषा शुद्धविद्यायाः साधनं हि न संशयः ।
वेदबाह्येषु तन्त्रेषु नराणां वासनाऽपि च ॥ १४७॥

कुतर्कवासना लोकवासना च सुरर्षभाः ।
पुत्रमित्रकलत्रादौ वासना चार्थवासना ॥ १४८॥

देहेन्द्रियमनोबुद्धिप्राणादावपि वासना ।
पाण्डित्यवासना भोगवासना कान्तिवासना ॥ १४९॥

प्रद्वेषवासना रुद्रवेदनारायणादिषु ।
ज्ञानसाधनभूतेषु त्रिपुण्ड्रोद्धलनादिषु ॥ १५०॥

प्रद्वेषवासना पापवासना सुरपुङ्गवाः ।
परमाद्वैतविज्ञानजन्मनः प्रतिबन्धकम् ॥ १५१॥

तस्मान्मुमुक्षुः श्रद्धालुर्वासनामखिलामिमाम् ।
विसृज्य परमाद्वैतज्ञाननिष्ठो भवेत्सदा ॥ १५२॥

वेदोदितमहाद्वैतपरिज्ञानस्य वैभवम् ।
न शक्यं वक्तुमस्माभिस्तस्मादेवोपरम्यते ॥ १५३॥

कथितमखिलदुःखध्वंसकं वः समस्तं
परमसुखशिवात्मप्रापकं सद्य एव ।
विगतसकलदोषा वेदवेदान्तनिष्ठा
हृदयकुहरनिष्ठं कर्तुमर्हन्ति चैतत् ॥ १५४॥

इति ब्रह्मगीतासूपनिषत्सु
तलवकारोपनिषद्व्याख्याकथनं
नाम चतुर्थोऽध्यायः ॥ ४॥

[mks_separator style=”dotted” height=”2″]

॥ अथ पञ्चमोऽध्यायः ॥

॥ आदेशकथनम् ॥

ब्रह्मोवाच ।
अतीवगुह्यमादेशमनन्तार्थप्रकाशकम् ।
वक्ष्ये युष्माकमद्याहं श‍ृणुत श्रद्धया सह ॥ १॥

यस्य श्रवणमात्रेण श्रुतमेवाश्रुतं भवेत् ।
अमतं च मतं ज्ञातमविज्ञातं च सत्तमाः ॥ २॥

एकेनैव तु पिण्डेन मृत्तिकाया यथा सुराः ।
विज्ञातं मृण्मयं सर्वं मृदभिन्नत्वतः सदा ॥ ३॥

एकेन लोहमणिना सर्वं लोहमयं यथा ।
विज्ञातं स्याद्यथैकेन नखानां कृन्तनेन च ॥ ४॥

सर्वं कार्ष्णायसं ज्ञातं तदभिन्नत्वतः सुराः ।
कार्यं तु कारणाभिन्नं न भिन्नं नोभयात्मकम् ॥ ५॥

भिन्नपक्षे तु सद्वाऽसत्कार्यं सदसदेव वा ।
सच्चेत्कारणसत्ता वा कार्यसत्ताऽथवा परा ॥ ६॥

यदि कारणसत्तैव कार्यसत्ता न चापरा ।
तर्हि कारणसत्तैका कथं सत्ताभिदा भवेत् ॥ ७॥

सत्तैकाऽपि भवेद्भिन्नं कारणात्कार्यसञ्ज्ञितम् ।
इति वार्ता च वार्तैव कार्यसञ्ज्ञमसत्खलु ॥ ८॥

सत्ताहीनस्य कार्यस्यासत्त्वमेव हि युज्यते ।
प्राप्तेऽसत्त्वे तु कार्यस्य सत्कार्योक्तिर्वृथा भवेत् ॥ ९॥

नैव कारणसत्तैव कार्यसत्ताऽपरैव चेत् ।
तर्हि सा कार्यसत्ता तु तया कारणसत्तया ॥ १०॥

सद्रूपेणैव भिन्ना स्यादसद्रूपेण वा भवेत् ।
सद्रूपेणेति चेदेका सत्ता भिन्ना न सा भवेत् ॥ ११॥

असद्रूपेण सा भिन्ना कार्यसत्ता तया यदि ।
तर्हि सा नैव सत्ता स्यादसत्त्वादेव शून्यवत् ॥ १२॥

यद्यसत्कार्यमिष्येत न कार्यं तर्हि तद्भवेत् ।
वन्ध्यापुत्रो न कस्यापि वस्तुनः कार्यमिष्यते ॥ १३॥

प्रध्वंसोऽपि न कार्यं स्यात्तस्योत्पत्तेरसम्भवात् ।
नास्ति कारकसम्बन्धः प्रध्वंसस्य सुरोत्तमाः ।
शून्यवन्निरुपाख्यत्वात्ततो नास्ति जनिक्रिया ॥ १४॥

असत्त्वेऽपि विशेषोऽस्ति कार्यस्येति मतिर्यदि ॥ १५॥

को विशेषोऽस्य सम्बन्धः कारकैर्यदि तन्न हि ।
विशेषे सति सम्बन्धः सम्बन्धोऽस्य स एव हि ॥ १६॥

जनिक्रियाश्रयत्वं चेद्विशेषोऽस्य तदाऽपि तु ।
पूर्वोक्तदोषः सम्प्राप्तस्तस्य नास्ति निवारकः ॥ १७॥

सत्तासम्बन्धवत्त्वं चेद्विशेषोऽस्य न तत्पटु ।
तदाऽपि दोषः पूर्वोक्तः प्राप्नोत्येव न संशयः ॥ १८॥

अतोऽसतो न कार्यत्वं सदसत्त्वं न सङ्गतम् ।
उक्तदोषद्वयापत्तेरतः कार्यं तु कारणात् ।
अभिन्नमेव भेदस्यासम्भवादेव वस्तुतः ॥ १९॥

भेदाभेदसमाख्या तु सुतरां नैव सिध्यति ।
कारणात्कार्यजातस्य भेदाभावाच्च वस्तुतः ॥ २०॥

कार्यकारणभेदश्च कारकव्यावृतिस्तथा ।
उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च ॥ २१॥

नामरूपविशेषश्च सर्वं भ्रान्त्या प्रसिध्यति ॥ २२॥

अतः सर्वो विकारश्च वाचा केवलमास्तिकाः ।
अस्तीत्यारभ्यते नामधेयमात्रं हि सत्सदा ॥ २३॥

प्रातीतिकेन रूपेण विकारोऽसत्य एव हि ।
कारणाकार एवास्य सत्यः साक्षात्सदा सुराः ॥ २४॥

कारणाभिन्नरूपेण कार्यं कारणमेव हि ।
सद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु ॥ २५॥

अतः कारणविज्ञानात्सर्वविज्ञानमास्तिकाः ।
सुतरामुपपन्नं हि न सन्देहोऽस्ति कश्चन ॥ २६॥

तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ।
भेदः सर्वत्र मिथ्यैव धर्म्यादेरनिरूपणात् ॥ २७॥

भेदे ज्ञाते हि धर्म्यादिविभागस्य च वेदनम् ।
विभेदेनैव धर्म्यादौ विज्ञाते भेदवेदनम् ॥ २८॥

भेदानिरूपणादेव भेदाभेदो न सङ्गतः ।
अतश्च कारणं नित्यमेकमेवाद्वयं सुराः ॥ २९॥

कुलालादेर्मृदादेश्च भेदे दृष्टेऽपि भूतले ।
अचैतन्यान्मृदादेस्तु कुलालादिरपेक्ष्यते ॥ ३०॥

अत्र कारणमद्वैतं शुद्धं चैतन्यमेव हि ।
तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम् ॥ ३१॥

स्वयं चेतनमप्येतत्कारणं न कुलालवत् ।
अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम् ॥ ३२॥

प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी ।
सर्वप्रकारैर्विद्वद्भिरनिरूप्याऽस्ति शाङ्करी ॥ ३३॥

तया दुर्घटकारिण्या तादात्म्येनैव सङ्गतम् ।
कारणं सकलस्रष्टृ सर्वसंहर्तृ चास्तिकाः ॥ ३४॥

पालकं च सदा सच्च चिद्रूपत्वात्सुरोत्तमाः ।
चिद्रूपस्य तु सत्यत्वं युक्तमेवास्तिकाः सदा ॥ ३५॥

अचिद्रूपाहिरज्ज्वादेर्मृषात्वं सम्मतं खलु ।
अतस्तत्कारणं देवाः सदेवैकं च शाश्वतम् ॥ ३६॥

इदं सर्वं जगत्पूर्वं सदेवाऽसीत्सुरर्षभाः ।
असदासीदिति भ्रान्ता वदन्ति सुरपुङ्गवाः ॥ ३७॥

असन्न कारणं युक्तं वस्तुतत्त्वनिरूपणे ।
वन्ध्यापुत्रोऽपि सर्वेषां कारणं स्यात्स्वयं खलु ॥ ३८॥

स्वशक्त्याऽसच्च सर्वेषां कारणं भवतीति चेत् ।
शक्तिरप्यसतो नास्ति सतो बीजस्य दर्शनात् ॥ ३९॥

अङ्कुरोत्पादिका शक्तिः सद्रूपस्यैव दृश्यते ।
खलु बीजस्य सर्वत्र नासतस्तददर्शनात् ॥ ४०॥

साऽपि शक्तिः सती किंवाऽसती सदसती तु वा ।
सती चेत्सा सती शक्तिः कथं वन्ध्यासुताश्रया ।
आश्रयत्वं सतो दृष्टं खलु लोके न चासतः ॥ ४१॥

साऽसती चेत्कथं शक्तिः कार्यनिर्वाहिकाऽसती ॥ ४२॥

वन्ध्यापुत्रः स्वयं नैव कार्यनिर्वाहकः खलु ।
निर्वाहकत्वधर्मश्च सत एव हि दृश्यते ॥ ४३॥

शक्तिः सदसती सा चेद्दोषद्वयसमागमः ।
अतः स्वशक्त्या चासत्तु सर्वेषां नैव कारणम् ॥ ४४॥

तस्मात्सोऽयमसद्वादो जल्पमात्रं न युक्तिमान् ।
अतः सदेव सर्वेषां कारणं नासदास्तिकाः ॥ ४५॥

सृष्टेस्तु प्रागिदं सर्वं सदेवाऽऽसीत्तु कारणम् ।
तच्च कारणमाद्यन्तविनिर्मुक्तं सदद्वयम् ॥ ४६॥

पूर्वकल्पप्रपञ्चोत्थसंस्कारेणानुरञ्जितम् ।
कालकर्मविपाकेन सत्त्ववृत्तिसमाश्रितम् ॥ ४७॥

सृष्ट्यर्थमैक्षत प्राज्ञा बहु स्यामिति शक्तिमत् ।
पुनस्तत्पूर्वसंस्कारादाकाशं वायुमादितः ॥ ४८॥

सृष्ट्वा तेजस्ततः सृष्ट्वा पुनः सृष्ट्वा त्वपस्ततः ।
अन्नशब्दोदितां देवाः ससर्ज पृथिवीं पराम् ॥ ४९॥

तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च ।
एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः ॥ ५०॥

अंशान्पञ्च समादाय तेषामेकैकमास्तिकाः ।
कृत्वा चतुर्धा तेष्वंशानादाय चतुरः सुराः ॥ ५१॥

यथाक्रमेण भूतानां चतुरस्तांश्च कारणम् ।
यथाक्रमेण भूतार्धेनैकेनैकं करोति तत् ॥ ५२॥

एवमंशान्तरानेतानादाय चतुरः स्वयम् ।
एकं भूतान्तरार्धेन करोति क्रमशः सुराः ॥ ५३॥

एवं भूतानि सर्वाणि पञ्चीकृत्य सुरर्षभाः ।
अण्डानि भुवनान्याशु करोति ब्रह्म कारणम् ॥ ५४॥

अण्डजं जारजं चैव स्वेदजं चोद्भिजं तथा ।
करोति कालपाकेन प्राणिकर्मवशेन च ॥ ५५॥

ब्रह्म सर्वत्र चिद्रूपेणैवानुप्राप्य सात्त्विकाः ।
पृथङ्नामानि रूपाणि कुरुते पूर्वकल्पवत् ॥ ५६॥

इदं सर्वं जगत्सत्यमिव भातमपि स्वतः ।
कारणव्यतिरेकेण नास्त्येवात्र न संशयः ॥ ५७॥

यद्ग्ने रोहितं रूपं तद्रूपं तेजसः सदा ।
यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् ॥ ५८॥

नास्ति रूपातिरेकेण सदा सोऽग्निः सुरर्षभाः ।
वाचारम्भणमात्रो हि विकारो वह्निसञ्ज्ञितः ॥ ५९॥

त्रीणि रूपाणि हे देवा एव सत्यं न चानलः ।
यद्भानो रोहितं रूपं तद्रूपं तेजसः सदा ॥ ६०॥

यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् ।
नास्ति रूपातिरेकेण सदाऽऽदित्यो न संशयः ॥ ६१॥

भ्रान्त्या केवलमादित्य इत्याहुरविवेकिनः ।
एवं चन्द्रश्च विज्ञेयो विद्युच्च सुरपुङ्गवाः ॥ ६२॥

घटकुड्यादयो भावा भूतानि भुवनानि च ।
सर्वं ब्रह्मातिरेकेण नास्ति ब्रह्मैव सत्सदा ॥ ६३॥

पूर्वपूर्वभ्रमोत्पन्नवासनाया बलेन तु ।
देहेन्द्रियादिसङ्घातेऽहम्मतिर्जायते दृढम् ॥ ६४॥

देहेन्द्रियादयो भावा नाहमर्था निरूपणे ।
भौतिकत्वाच्च भूतांशैः सदैवाप्यायितत्वतः ॥ ६५॥

मृदम्भसा यथा भित्तिर्निर्मिता वै मृदम्भसा ।
आप्यायते तथा भुक्तैर्भूतैर्देहादयोऽपि च ॥ ६६॥

अतो देहादिसङ्घातेऽहम्ममेत्यादिकां मतिम् ।
विसृज्य साक्षिचैतन्ये विद्वान्कुर्यादहम्मतिम् ॥ ६७॥

दध्नः सर्पिर्यथा जातं मन्थनेन सुरर्षभाः ।
तथा बुद्ध्यादयो भावा भूतेभ्यश्चोद्भवन्ति हि ॥ ६८॥

भौतिकं देहसङ्घातं विसृज्य मतिमान्पुनः ।
सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ६९॥

अन्नेनाप्यायतेऽभुक्ते नाधीतं तस्य भासते ।
ततोऽपि बुद्धिरन्नस्य कार्यमेव न संशयः ॥ ७०॥

अतोऽपि बुद्धिमन्नस्य कार्यं त्यक्त्वा विविक्तधीः ।
सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ७१॥

देहेन्द्रियादिसङ्घातेऽहम्ममेत्यादिकां मतिम् ।
त्यक्त्वा स्वात्मनि चिद्रूपे यदाऽपीतो भवत्ययम् ॥ ७२॥

तदा स्वपिति दुःखादिदर्शनं च न विद्यते ।
स्वात्मरूपसुखप्राप्तिरेवं दृष्टाऽस्य देहिनः ॥ ७३॥

अतोऽपि मतिमान्नित्यं त्यक्त्वा देहादिगां धियम् ।
सर्वसाक्षिणि चिद्रूपे साक्षात्कुर्यादहम्मतिम् ॥ ७४॥

यदिदं साक्षिणा वेद्यं तत्सर्वं ब्रह्म केवलम् ।
तत्सत्यं पूर्णचैतन्यं तत्त्वमर्थो न संशयः ॥ ७५॥

त्वंशब्दार्थो य आभाति सोऽहंशब्दार्थ एव हि ।
योऽहंशब्दार्थ आभाति स त्वंशब्दार्थ एव हि ॥ ७६॥

त्वमहंशब्दलक्ष्यार्थः साक्षात्प्रत्यक्चितिः परा ।
तच्छब्दस्य च लक्ष्यार्थः सैव नात्र विचारणा ॥ ७७॥

त्वमहंशब्दवाच्यार्थस्यैव देहादिवस्तुनः ।
न तच्छब्दार्थतां वक्ति श्रुतिस्तत्त्वमसीति सा ॥ ७८॥

तदर्थैक्यविरुद्धांशं त्यक्त्वा वाच्यगतं श्रुतिः ।
अविरुद्धचिदाकारं लक्षयित्वा ब्रवीति हि ॥ ७९॥

तदर्थे च त्वमर्थैक्यविरुद्धांशं विनैव तु ।
कारणत्वादिवाच्यस्थं लक्षयित्वा तु केवलम् ॥ ८०॥

चिदाकारं पुनस्तस्य त्वमर्थैक्यं ब्रवीति च ।
तत्त्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः ॥ ८१॥

एकत्वं यत्स्वतःसिद्धं स हि वाक्यार्थ आस्तिकाः ।
इतोऽन्यथा यो वाक्यार्थः सोऽवाक्यार्थो न संशयः ॥ ८२॥

एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः ।
व्यावहारिकमज्ञानं बाधते विद्ययैव तु ॥ ८३॥

सदा प्रमितमेकत्वं स्वत एव न चान्यतः ।
अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम् ॥ ८४॥

वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः ।
अतो वाक्यं न चाज्ञानबाधकं च निरूपणे ॥ ८५॥

एकत्वं यत्पुरा प्रोक्तं तत्स्वयं सेद्धुमर्हति ।
न प्रमाणेन मानानि तस्मिन्कुण्ठीभवन्ति हि ॥ ८६॥

व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुतः ।
अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव हि ॥ ८७॥

सत एव हि सद्भावो नासतः सूक्ष्मदर्शने ।
सदसत्कोटिनिर्मुक्तमित्युक्तिश्चार्थभासने ।
खलु नाभासते भानं ब्रह्म वस्त्वेव केवलम् ॥ ८८॥

भानसम्बन्धतोऽभानमिति वार्ताऽप्यसङ्गता ॥ ८९ ॥
सम्बन्धिरूपसद्भावे सति सम्बन्धसम्भवः ।
सद्भावे सति सम्बन्धिरूपं ब्रह्मैव केवलम् ॥ ९०॥

अनिरूपितरूपेण सद्भाव इति चेन्मतम् ।
अनिरूपितरूपस्य रूपं तु ब्रह्म केवलम् ।
ब्रह्मैव रूपं नैवान्यन्न रूपमपरस्य हि ॥ ९१॥

अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः ।
रूपरूपेण रूपं च ब्रह्मरूपं भवेत्खलु ॥ ९२॥

ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत् ॥ ९३॥

तर्हि रूपान्तरं रूपाद्भिन्नं वाऽभिन्नमेव वा ।
भिन्नाभिन्नं न वा भिन्नं यदि रूपाद्विभेदतः ॥ ९४॥

तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत् ।
उक्तदोषद्वयापत्तेर्भिन्नाभिन्नं न तद्भवेत् ॥ ९५॥

अत एव सुरश्रेष्ठा अनिरूपितरूपतः ।
सद्भाव इति वार्ता च वार्तैव खलु केवलम् ॥ ९६॥

तस्मादज्ञानमेवैतद्ब्रह्मैव सततोदितम् ।
अज्ञानमयमेवेदं सर्वमित्यपि भाषणम् ।
नैव भाषणमज्ञानाभावादेव शिवं विना ॥ ९७॥

तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः ॥ ९८॥

एकं ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः ।
ऐतदात्म्यमिदं सर्वमित्याह हि परा श्रुतिः ॥ ९९॥

साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते ।
श्रोतुश्चित्ताविपाकेन विषण्णा विवशा श्रुतिः ॥ १००॥

क्वचित्कदाचिदन्यार्थं वक्ति च ब्रह्मणः पृथक् ।
साध्यसाधनसम्बन्धकथनं फलभाषणम् ॥ १०१॥

जगद्वैचित्र्यनिर्देशो धर्माधर्मार्थभाषणम् ।
वर्णाश्रमविभागोक्तिस्तद्धर्मोक्तिस्तथैव च ॥ १०२॥

शोभनाशोभनोक्तिश्च भूतभौतिकभाषणम् ।
शब्दानां भेदनिर्देशस्तथाऽर्थानां च भाषणम् ॥ १०३॥

आत्मनोऽन्यस्य सर्वस्य सद्भावोक्तिः सुरर्षभाः ।
मिथ्यात्वभाषणं तस्य मायासद्भावभाषणम् ॥ १०४॥

मायात्वोक्तिश्च मायाया बन्ध इत्यभिभाषणम् ।
गुरुशिष्यकथोक्तिश्च ब्रह्मविद्याभिभाषणम् ॥ १०५॥

शास्त्राणामपि निर्देशस्तर्काणामपि भाषणम् ।
अन्यद्वितर्कजालं यत्तदुक्तिश्च समासतः ।
अन्यार्थेन परं ब्रह्म श्रुतिः साध्वी न तत्परा ॥ १०६॥

चित्तपाकानुगुण्येन श्रोतॄणां परमा श्रुतिः ।
सोपानक्रमतो देवा मन्दं मन्दं हितं नृणाम् ॥ १०७॥

उपदिश्य विषण्णाऽपि पुनः पक्वाधिकारिणः ।
ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम् ॥ १०८॥

जगज्जीवेश्वरत्वादिविचित्रविभवं विना ।
केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः ॥ १०९॥

जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम् ।
इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम् ॥ ११०॥

इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः ।
विचारेणायमेवार्थस्त्वयमेवाविचारणे ॥ १११॥

न कदाचिद्विशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम् ॥ ११२॥

यथा यथा स्वभावेन यद्यद्भाति सुरर्षभाः ।
तथा तथा शिवो भाति स्वयमेव न चापरः ॥ ११३॥

यथा यथा प्रभा साक्षाच्छाम्भवी सा न चापरा ।
इति निश्चयविज्ञानं परमाद्वैतवेदनम् ॥ ११४॥

यथा यथाऽवभासोऽयं शिव एवेति पश्यति ।
तथा तथा महादेवं भजतेऽयत्नतस्तु सः ॥ ११५॥

यथा यथा प्रथा पुंसस्तद्वस्तुष्वनवस्थिता ।
तथा तथाऽनुसन्धानं स्वभावेनैव पूजनम् ॥ ११६॥

शिवरूपतया सर्वं यो वेद स हि तत्त्ववित् ।
अशिवं वेद यत्किञ्चित्स एव परिमोहितः ॥ ११७॥

शिवादन्यतया किञ्चिदपि यो वेद सोऽधमः ।
शिवस्यैवापचारं हि कुरुते स पशुर्नरः ॥ ११८॥

शिवरूपतया सर्वं यस्य भाति स्वभावतः ।
स्वेच्छाचारः समाचारस्तस्य चार्चा च शूलिनः ॥ ११९॥

यथा यथा प्रभा शम्भोः प्रथा सा सा तदर्चनम् ।
इत्ययत्नेन विज्ञानात्पूज्यते परमेश्वरः ॥ १२०॥

क्रीडया जगदाकारा नान्यतश्चात्मदेवता ।
क्रीडयैवात्मनाऽऽत्मानं भुङ्क्ते सा तद्धि वेदनम् ॥ १२१॥

इन्द्रियाकारभासा सा विषयाकारभासनम् ।
क्रीडया देवता भुङ्क्ते स्वत इत्यर्चनं मतम् ॥ १२२॥

परमाद्वैतविज्ञानमिदं भवभयापहम् ।
भवप्रसादतो लभ्यं भावनारहितं परम् ॥ १२३॥

यथा नक्तन्दृशः सूर्यप्रकाशो नावभासते ।
तथेदं परमाद्वैतं मनुष्याणां न भासते ॥ १२४॥

प्रसादादेव रुद्रस्य श्रद्धया स्वस्य धैर्यतः ।
देशिकालोकनाच्चैव कर्मसाम्ये प्रकाशते ॥ १२५॥

बहुप्रकारं बहुशः श्रुतिः साध्वी सनातनी ।
एवमेतं महायासादर्थं वदति दुःखिनाम् ॥ १२६॥

शिव एवास्ति नैवान्यदिति यो निश्चयः स्थिरः ।
सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे ॥ १२७॥

अयमेव हि वेदार्थो नापरः परमास्तिकाः ।
गृह्णामि परशुं तप्तं सत्यमेव न संशयः ॥ १२८॥

अयमेव हि सत्यार्थो नापरः परमास्तिकाः ।
विश्वासार्थं शिवं स्पृष्ट्वा त्रिर्वः शपथयाम्यहम् ॥ १२९॥

अयमेव हि वेदार्थो नापरः परमास्तिकाः ।
अन्यथा चेत्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति ॥ १३०॥

अयमेव हि सत्यार्थो नापरः परमास्तिकाः ।
अत्रैव सन्निधिं देवो विश्वासार्थं करिष्यति ॥ १३१॥

सूत उवाच –
एवमुक्त्वा तु भगवान्ब्रह्मा सर्वहिते रतः ।
प्रणम्य दण्डवद्भूमौ भक्त्या परवशोऽभवत् ॥ १३२॥

अस्मिन्नवसरे श्रीमाञ्शङ्करः शशिशेखरः ।
नीलकण्ठो विरूपाक्षः साम्बः साक्षाद्घृणानिधिः ॥ १३३॥

ब्रह्मविष्णुमहेशाद्यैरुपास्यो गुणमूर्तिभिः ।
आविर्बभूव सर्वज्ञस्तत्रैव सुरसन्निधौ ॥ १३४॥

आसनं विमलं दिव्यं शिवार्हं हैममद्भुतम् ।
आगतं तत्र भगवानास्ते तस्मिन्यथासुखम् ॥ १३५॥

विष्णुर्विश्वजगत्कर्ता शिवस्यामिततेजसः ।
बुद्ध्वोद्योगं महाप्रीतस्तत्र सन्निहितोऽभवत् ॥ १३६॥

पुष्पवृष्टिरभवत्पुनः पुनः
शब्दितं च मुनिभिः सनातनैः ।
शुद्धवेदवचनैः सुशोभनै-
र्भक्तिमद्भिरपि पूजनं कृतम् ॥ १३७॥

उच्चमन्दमृदुतीव्रकाहलैः
शब्दितं च पटहादिभिस्तथा ।
तालमानकुशलैस्तथा परै-
र्भेरिकादिकुशलैः सुघोषितम् ॥ १३८॥

अप्सरोभिरपि नर्तनं कृतं
गायनैश्च सहितैर्महत्तरैः ।
गीतमाशु कविभिश्च कीर्तितं
स्थानमीशदृशिगोचरं द्विजाः ॥ १३९॥

विस्मिताश्च मुनयश्च केचन
श्रद्धयैव शिरसा च नर्तिताः ।
मुष्टियुद्धमपि कुर्युरास्तिकाः
श्रद्धयैव परया च केचन ॥ १४०॥

मस्तकेन मनुजानतिप्रियान्
पृष्ठतश्च चरणेन पाणिना ।
दण्डरज्जुशिबिकादिभिस्तथा
केचिदश्वनिकरैर्वहन्ति च ॥ १४१॥

बन्धनं च निगडैश्च गर्विता
मोचनं च मनुजानतिप्रियान् ।
कुर्युरस्त्रनिकरैश्च केचन
च्छेदनं च विवशाश्च केचन ॥ १४२॥

अन्योन्यमालिङ्गनमाचरन्ति
प्रियेण केचिन्मुनयश्च केचित् ।
धावन्ति वेगेन पटं विसृज्य
प्रियेण चान्यानपि ताडयन्ति ॥ १४३॥

विलोक्य सर्वं शिवया शिवोऽपि
प्रहृष्टचित्तस्तु निवार्य सर्वान् ।
हरिं विरञ्चिं च सुरानशेषा-
नतिप्रियेणैव निरीक्ष्य विप्राः ॥ १४४॥

उवाच सत्यं करुणानिधानः
श्रुतिप्रमाणैकसुनिश्चितार्थः ।
हिताय लोकस्य सुरासुराद्यैः
प्रपूजनीयश्च सदा महेशः ॥ १४५॥

ईश्वर उवाच :
अहं हि सर्वं न च किञ्चिदन्य-
न्निरूपणायामनिरूपणायाम् ।
इयं हि वेदस्य परा हि निष्ठा
ममानुभूतिश्च न संशयश्च ॥ १४६॥

अहं सदाऽधश्च यथाऽहमूर्ध्वं
त्वहं पुरस्तादहमेव पश्चात् ।
अहं च सव्येतरमास्तिकास्तथा
त्वहं सदैवोत्तरतोऽन्तरालम् ॥ १४७॥

परोक्षरूपेण सुसंस्थितोऽहं
तथाऽपरोक्षेण सुसंस्थितोऽहम् ।
अनात्मरूपेण सुसंस्थितोऽहं
सदात्मरूपेण सुसंस्थितोऽहम् ॥ १४८॥

जैवेन रूपेण सुसंस्थितोऽहम्
तथेशरूपेण सुसंस्थितोऽहम् ।
अज्ञानरूपेण सुसंस्थितोऽहम्
विज्ञानरूपेण सुसंस्थितोऽहम् ॥ १४९॥

संसाररूपेण सुसंस्थितोऽहम्
कैवल्यरूपेण सुसंस्थितोऽहम् ।
शिष्यादिरूपेण सुसंस्थितोऽहम्
गुर्वादिरूपेण सुसंस्थितोऽहम् ॥ १५०॥

वेदादिरूपेण सुसंस्थितोऽहं
स्मृत्यादिरूपेण सुसंस्थितोऽहम् ।
पुराणरूपेण सुसंस्थितोऽहं
कल्पादिरूपेण सुसंस्थितोऽहम् ॥ १५१॥

प्रमातृरूपेण सुसंस्थितोऽहं
प्रमाणरूपेण सुसंस्थितोऽहम् ।
प्रमेयरूपेण सुसंस्थितोऽहं
मितिस्वरूपेण सुसंस्थितोऽहम् ॥ १५२॥

कर्तृस्वरूपेण सुसंस्थितोऽहं
क्रियास्वरूपेण सुसंस्थितोऽहम् ।
तद्धेतुरूपेण सुसंस्थितोऽहं
फलस्वरूपेण सुसंस्थितोऽहम् ॥ १५३॥

भोक्तृस्वरूपेण सुसंस्थितोऽहं
भोगस्वरूपेण सुसंस्थितोऽहम् ।
तद्धेतुस्वरूपेण सुसंस्थितोऽहं
भोग्यस्वरूपेण सुसंस्थितोऽहम् ॥ १५४॥

पुण्यस्वरूपेण सुसंस्थितोऽहं
पापस्वरूपेण सुसंस्थितोऽहम् ।
सुखस्वरूपेण सुसंस्थितोऽहं
दुःखस्वरूपेण सुसंस्थितोऽहम् ॥ १५५॥

रुद्रप्रभेदेन सुसंस्थितोऽहं
विष्णुप्रभेदेन सुसंस्थितोऽहम् ।
ब्रह्मप्रभेदेन सुसंस्थितोऽहं
देवप्रभेदेन सुसंस्थितोऽहम् ॥ १५६॥

मर्त्यप्रभेदेन सुसंस्थितोऽहं
तिर्यक्प्रभेदेन सुसंस्थितोऽहं
कृमिप्रभेदेन सुसंस्थितोऽहं
कीटप्रभेदेन सुसंस्थितोऽहम् ॥ १५७॥

वृक्षप्रभेदेन सुसंस्थितोऽहं
गुल्मप्रभेदेन सुसंस्थितोऽहम् ।
लताप्रभेदेन सुसंस्थितोऽहं
तृणप्रभेदेन सुसंस्थितोऽहम् ॥ १५८॥

कलाप्रभेदेन सुसंस्थितोऽहं
घटप्रभेदेन सुसंस्थितोऽहम् ।
पटप्रभेदेन सुसंस्थितोऽहं
कुड्यादिभेदेन सुसंस्थितोऽहम् ॥ १५९॥

अन्नप्रभेदेन सुसंस्थितोऽहं
पानप्रभेदेन सुसंस्थितोऽहम् ।
वनप्रभेदेन सुसंस्थितोऽहं
गिरिप्रभेदेन सुसंस्थितोऽहम् ॥ १६०॥

नदीप्रभेदेन सुसंस्थितोऽहं
नदप्रभेदेन सुसंस्थितोऽहम् ।
समुद्रप्रभेदेन सुसंस्थितोऽहं
तटप्रभेदेन सुसंस्थितोऽहम् ॥ १६१॥

तडागभेदेन सुसंस्थितोऽहं
अभ्रप्रभेदेन सुसंस्थितोऽहम् ।
नक्षत्रभेदेन सुसंस्थितोऽहं
ग्रहप्रभेदेन सुसंस्थितोऽहम् ॥ १६२॥

मेघप्रभेदेन सुसंस्थितोऽहं
विद्युत्प्रभेदेन सुसंस्थितोऽहम् ।
यक्षप्रभेदेन सुसंस्थितोऽहं
रक्षःप्रभेदेन सुसंस्थितोऽहम् ॥ १६३॥

गन्धर्वभेदेन सुसंस्थितोऽहं
सिद्धप्रभेदेन सुसंस्थितोऽहम् ।
अण्डप्रभेदेन सुसंस्थितोऽहं
लोकप्रभेदेन सुसंस्थितोऽहम् ॥ १६४॥

देशप्रभेदेन सुसंस्थितोऽहं
ग्रामप्रभेदेन सुसंस्थितोऽहम् ।
गृहप्रभेदेन सुसंस्थितोऽहं
मठप्रभेदेन सुसंस्थितोऽहम् ॥ १६५॥

कटप्रभेदेन सुसंस्थितोऽहं
प्राकारभेदेन सुसंस्थितोऽहम् ।
पुरप्रभेदेन सुसंस्थितोऽहं
पुरीप्रभेदेन सुसंस्थितोऽहम् ॥ १६६॥

व्योमादिभेदेन सुसंस्थितोऽहं
शब्दादिभेदेन सुसंस्थितोऽहम् ।
शरीरभेदेन सुसंस्थितोऽहं
प्राणप्रभेदेन सुसंस्थितोऽहम् ॥ १६७॥

श्रोत्रादिभेदेन सुसंस्थितोऽहं
पदादिभेदेन सुसंस्थितोऽहम् ।
मनःप्रभेदेन सुसंस्थितोऽहं
बुद्धिप्रभेदेन सुसंस्थितोऽहम् ॥ १६८॥

अहम्प्रभेदेन सुसंस्थितोऽहं
चित्तप्रभेदेन सुसंस्थितोऽहम् ।
सङ्घातभेदेन सुसंस्थितोऽहं
जन्मादिभेदेन सुसंस्थितोऽहम् ॥ १६९॥

जाग्रत्प्रभेदेन सुसंस्थितोऽहं
स्वप्नप्रभेदेन सुसंस्थितोऽहम् ।
सुषुप्तिभेदेन सुसंस्थितोऽहं
तुरीयभेदेन सुसंस्थितोऽहम् ॥ १७०॥

दृश्यप्रभेदेन सुसंस्थितोऽहं
द्रष्टृप्रभेदेन सुसंस्थितोऽहम् ।
साक्षिस्वरूपेण सुसंस्थितोऽहं
सर्वस्वरूपेण सुसंस्थितोऽहम् ॥ १७१॥

अस्तिनास्तिवचनेन भाषितं
भातिशब्दपरिभाषितं तथा ।
भानहीनपरिभाषितं च मे
रूपमेव हि न संशयः क्वचित् ॥ १७२॥

शब्दगोचरतया स्थितं सदा
शब्दगोचरविहीनरूपतः ।
यत्स्थितं तदहमेव सन्ततं
प्रत्ययेऽपि गतिरेवमेव हि ॥ १७३॥

नित्यशुद्धपरिबुद्धमुक्ततां
यस्य नित्यमिति वक्ति वाक् श्रुतेः ।
तस्य सत्यसुखबोधपूर्णता
तथ्यमेव मम नास्ति संशयः ॥ १७४॥

यत्स्वरूपमहमात्मना तथा
यत्स्वरूपमिदमात्मनैव तु ।
भाति तत्तु मम चिद्वपुः सदा
भाति नान्यदिति निश्चयो मम ॥ १७५॥

अहं समस्तं मम रूपतः पृथङ्
न किञ्चिदस्तीति सुनिश्चयः कृतः ।
मया तु वेदान्तवचोभिरञ्जसा
पितामहेनापि च सत्यमीरितम् ॥ १७६॥

अत्र संशयमतिर्विनश्यति
भ्रष्ट एव परमार्थदर्शनात् ।
अत्र निश्चयमतिस्तु मुच्यते
कष्टरूपभवपाशबन्धनात् ॥ १७७॥

सूत उवाच ।
एवमुक्त्वा महादेवः साम्बः संसारमोचकः ।
समालिङ्ग्य महाविष्णुं ब्रह्माणमपि सादरम् ॥ १७८॥

विलोक्य देवानखिलान्विशुद्धेनैव चेतसा ।
भद्रमस्तु सुरश्रेष्ठा युष्माकमिति चाब्रवीत् ॥ १७९॥

देवाश्च देवदेवेशं प्रसन्नं करुणानिधिम् ।
पूजयामासुराह्लादात्पत्रपुष्पफलादिभिः ॥ १८०॥

विष्णुर्विश्वजगत्कर्ता विश्वेशाङ्घ्रिसरोरुहम् ।
स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८१॥

पितामहोऽपि सर्वात्मा शिवपादाम्बुजद्वयम् ।
स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८२॥

देवदेवो महादेवः साम्बः संसारमोचकः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १८३॥

करतालं महादेवी करुणासागरा परा ।
चकार परमप्रीत्या समालोक्य महेश्वरम् ॥ १८४॥

विष्णुर्ब्रह्मा सुराः सर्वे तत्र सन्निहिता जनाः ।
सर्वे सन्तोषतस्तत्र नृत्यन्ति स्म यथाबलम् ॥ १८५॥

देवदेवो महादेवो महानन्दोदधिर्द्विजाः ।
विलोक्य सर्वान्सुप्रीतस्तत्रैवान्तर्हितोऽभवत् ॥ १८६॥

विष्णुर्ब्रह्माणमालिङ्ग्य विलोक्य सकलान्सुरान् ।
प्रसन्नः पद्मया सार्धं वैकुण्ठमगमत्प्रभुः ॥ १८७॥

ब्रह्माऽपि विस्मयापन्नो विलोक्य सकलान्सुरान् ।
अवशः सन्पुनश्चाह श्रद्धयैव तु केवलम् ॥ १८८॥

ब्रह्मोवाच ।
विद्याः सर्वा नृणां साक्षात्संसारस्य प्रवर्तिकाः ।
आत्मविद्या तु संसारतमसः प्रतिघातिनी ॥ १८९॥

आत्मविद्याविहीनस्य शोकसागर एव हि ।
मुक्तिरेवात्मनिष्ठस्य नास्ति संशयकारणम् ॥ १९०॥

यत्रान्यत्पश्यति प्राणी श‍ृणोत्यन्यत्तथैव च ।
अन्यज्जानाति चाल्पं तद्यदल्पं मर्त्यमेव तत् ॥ १९१॥

यत्र पश्यति नान्यच्च न श‍ृणोत्यन्यदास्तिकाः ।
अन्यच्च न विजानाति स भूमा सुरपुङ्गवाः ॥ १९२॥

यो वै भूमा सुखं तद्धि तद्धि कैवल्यमुत्तमम् ।
नाल्पे चास्ति सुखं तस्मान्महाद्वैतपरो भवेत् ॥ १९३॥

महाद्वैतपरस्यास्य न नाशो जन्म नैव च ।
नैव गत्यागती नान्यद्बन्धनं न विमोचनम् ॥ १९४॥

अत्रैव लीयते सम्यक्सर्वमात्मतया स्वतः ।
घृतकाठिन्यवत्स्वप्नप्रपञ्चप्रतिभासवत् ॥ १९५॥

सर्वमेतदतिशोभनं परं केवलं करुणयैव भाषितम् ।
देवदेवचरणप्रसादतो नेतरद्धि कथनीयमस्ति वः ॥ १९६॥

इति ब्रह्मगीतासूपनिषत्सु
आदेशकथनं नाम पञ्चमोऽध्यायः ॥ ५॥

[mks_separator style=”dotted” height=”2″]

॥ अथ षष्ठोऽध्यायः ॥

॥ दहरोपासनविवरणम् ॥

ब्रह्मोवाच ।
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं सुराः ।
पुण्डरीकं तु तन्मध्य आकाशो दहरोऽस्ति तु ॥ १॥

स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ।
स विजिज्ञासितव्यश्च विना सङ्कोचमास्तिकाः ॥ २॥

स्वाभिव्यञ्जकसङ्कोचत्सङ्कोचप्रतिभाऽऽत्मनः ।
न स्वरूपेण चिद्रूपं सर्वव्यापि सदा खलु ॥ ३॥

ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिणः ।
सर्वं भाति तदाभाति ततस्तद्व्यापि सर्वदा ॥ ४॥

स्वयं सेद्धुमशक्यं हि जडात्मकमिदं जगत् ।
चित्सम्बन्धबलेनैव खलु भाति न चान्यथा ॥ ५॥

अतोऽवभास्यं सकलं व्याप्य तद्भासकः शिवः ।
स्वतो व्यापी न चाव्यापी सङ्कोचश्चान्यसङ्गमात् ॥ ६॥

यावान्वा अयमाकाशस्तावानाकाश आन्तरः ।
द्यावापृथ्वी उभे अस्मिन्नन्तरेव समाहिते ॥ ७॥

उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ ।
नक्षत्राणि च विद्युच्च यच्चास्तित्वेन भासते ॥ ८॥

यच्च नास्तितया भाति सर्वं तस्मिन्समाहितम् ।
अतः सर्वाश्रयः शम्भुः सर्वव्यापी स्वभावतः ॥ ९॥

एष आत्मा परो व्यापी पाप्मभिः सकलैः सदा ।
असौ चा(ना)पहतः साक्षी विमृत्युर्विजरः सुराः ॥ १०॥

विशोको विजिघत्सोऽपिपासः सत्यादिलक्षणः ।
सत्यकामस्तथा सत्यसङ्कल्पश्च सुरर्षभाः ॥ ११॥

यथा कर्मजिता लोकाः क्षीयन्ते भुवि सत्तमाः ।
तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च ॥ १२॥

येऽविदित्वा परात्मानं व्रजन्ति सकलाः क्रियाः ।
तेषां सर्वेषु लोकेषु कामचारो न विद्यते ॥ १३॥

ये विदित्वा परात्मानं व्रजन्तीव क्रियाः स्थिताः ।
तेषां सर्वेषु लोकेषु कामचारस्तु विद्यते ॥ १४॥

यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः ।
उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः ॥ १५॥

तथा सुषुप्तौ गच्छन्तो ब्रह्मलोकं स्वयम्प्रभम् ।
न विन्दन्ति महामोहादहो मोहस्य वैभवम् ॥ १६॥

अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः ।
तेनायं हृदयं प्रोक्तं शिवः संसारमोचकः ॥ १७॥

य एवं वेद स स्वर्गं लोकमेति न संशयः ।
अस्माच्छरीरादुत्थाय सुषुप्तौ यः सुरर्षभाः ॥ १८॥

परं ज्योतिःस्वरूपं तं शिवं सम्पद्यते सुराः ।
अभिनिष्पद्यते स्वेन रूपेणैव स्वभावतः ॥ १९॥

एष आत्मा न चैवान्यः सत्यमेव मयोदितम् ।
एतदेवामृतं साक्षादभयं ब्रह्म हे सुराः ॥ २०॥

य आत्मा दहराकाशः स सेतुर्विधृतिः सुराः ।
असम्भेदाय लोकानामेषामेतं महेश्वरम् ॥ २१॥

अहोरात्रे न तरतो न मृत्युर्न जराऽपि च ।
न शोको नैव सुकृतं न दुष्कृतमपीश्वराः ॥ २२॥

अतः सर्वे निवर्तन्ते पाप्मानः सुरपुङ्गवाः ।
एषोऽपहतपाप्मा हि ब्रह्मलोकः स्वयम्प्रभः ॥ २३॥

तस्माद्वै सेतुमेतं तु तीर्त्वाऽन्धः सन्सुरर्षभाः ।
भवत्यनन्धो विद्धः सन्नविद्धस्तद्वदेव तु ॥ २४॥

य एषो दहराकाश इत्युक्तः परमेश्वरः ।
स देहादिविशेषेभ्यः पृथग्भूतः सनातनः ॥ २५॥

जाग्रत्स्वप्नसुषुप्ताख्याऽवस्था या भाति देहिनाम् ।
तस्या अपि महादेवः साक्षी भिन्नः स्वयम्प्रभः ॥ २६॥

तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च ॥ २७॥

स्वदृश्येन शरीरेण सशरीरस्य सर्वदा ।
प्रियाप्रियाभ्यां सम्बन्धो भवत्येव न संशयः ॥ २८॥

अशरीरं वाव सन्तं विद्यया न प्रियाप्रिये ।
स्पृशतः सत्यमेवोक्तं नात्र सन्देहकारणम् ॥ २९॥

य एष दहराकाशः स एव सुरपुङ्गवाः ।
नामरूपस्य निर्माता तदेव ब्रह्म शाश्वतम् ॥ ३०॥

अमृतं च तदेवैतत्स आत्मा सर्वदेहिनाम् ।
ततो नान्यत्परं किञ्चिन्नापरं चास्ति किञ्चन ॥ ३१॥

स एव सर्वरूपेण विभाति न विभाति च ।
अहो रुद्रस्य देवस्य पूर्णता को नु वेद ताम् ॥ ३२॥

यथा मृत्स्वविकारेषु तत्तद्रूपेण संस्थिता ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३३॥

यथा वारिविकारेषु जलं तत्तत्स्वरूपतः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३४॥

यथाऽग्निः स्वविकारेषु तत्तद्रूपेण संस्थितः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३५॥

यथा वा स्वविकारेषु वायुस्तत्तत्स्वरूपतः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३६॥

यथा वा सर्वगं व्योम स्वाकाराणैव संस्थितम् ।
तथा सर्वात्मकः साक्षी साक्षिरूपेण संस्थितः ॥ ३७॥

घटाकाशादिभेदेन विभिन्नोऽप्यविभागवान् ।
आकाशस्तद्वदीशानो विभिन्नोऽप्यविभागवान् ॥ ३८॥

महादेवोऽविभागेन विभागेन च भासते ।
अन्यथा चेन्महादेवो महादेवः कथं भवेत् ॥ ३९॥

महादेवो महादेव एव नैवामहानयम् ।
तथा सति महादेव एव सर्वं न चापरम् ॥ ४०॥

येन केनापि रूपेण यद्यद्भाति न भाति च ।
तेन तेनैव रूपेण शिव एवावभासते ॥ ४१॥

यथाभातेन रूपेण शिव एवेति या मतिः ।
सा शिवा परमा संविन्नापरा न हि संशयः ॥ ४२॥

अहमिति शिवसत्यचिद्घनः
स्फुरति सदा पृथगस्ति नैव वस्तु ।
इदमिति वपुषा च तेन बन्धनं
न हि मनुजस्य विमोचनं च किञ्चित् ॥ ४३॥

शिव इति सकलं यदा विभासते
न च मरणं जननं तदाऽस्ति किञ्चित् ।
इति हृदये वचनं मदीयमेत-
न्निशितमतिः सततं निधाय तिष्ठेत् ॥ ४४॥

परमशिवः परमेश्वरः प्रसन्नो
यदि विमला परमानुभूतिरेषा ।
न हि सकलैर्विमलैरुपायवृन्दै-
र्न च हरिणा न मया न चापरेण ॥ ४५॥

परमशिवः परमेश्वरः स्वतन्त्रो
यदि कुरुते मनुजस्य वेदनं हि तत् ।
परमपदं विमलं प्रयाति मर्त्यो
यदि कुरुते न शिवः प्रयाति बन्धम् ॥ ४६॥

दिनकरकिरणैर्हि शार्वरं तमो
निबिडतरं झटिति प्रणाशमेति ।
घनतरभवकारणान्तरं तमः
शिवदिनकृत्प्रभया न चापरेण ॥ ४७॥

हरिरहमप्यपरे सुरासुराद्याः
परमशिवप्रभया तिरस्कृताश्च ।
रविकिरणैरखिलान्यहानि यद्वत्
परमशिवः स्वत एव बोधकारी ॥ ४८॥

शिवचरणस्मरणेन पूजया च
स्वकतमसः परिमुच्यते हि जन्तुः ।
न हि मरणप्रभवप्रणाशहेतुः
शिवचरणस्मरणादृतेऽस्ति किञ्चित् ॥ ४९॥

परमशिवः खलु नः समस्तहेतुः
परमशिवः खलु नः समस्तमेतत् ।
परमशिवः खलु नः स्बरूपभूतः
परमशिवः खलु नः प्रमाणभूतः ॥ ५०॥

परमशिवः सकलागमादिनिष्ठः
परमशिवः परमानुभूतिगम्यः ।
परमशिवः परमानुभूतिरूपः
परमशिवः परमानुभूतिदश्च ॥ ५१॥

परमशिवसमुद्रेऽहं हरिः सर्वदेवा
मनुजपशुमृगाद्याः शीकरा एव सत्यम् ।
विमलमतिभिरेवं वेदवेदान्तनिष्ठै-
र्हृदयकुहरनिष्ठं वेदितुं शक्यते हि ॥ ५२॥

मायाबलेनैव हरिं शिवेन
समानमाहुः पुरुषाधमाश्च ।
मोहेन केचिन्मम साम्यमाहु-
र्माया तु शैवी खलु दुस्तरेयम् ॥ ५३॥

खद्योतो यदि चण्डभानुसदृशस्तुल्यो हरिः शम्भुना
किम्पाको यदि चन्दनेन सदृशस्तुल्योऽहमीशेन च ।
अज्ञानं यदि वेदनेन सदृशं देवेन तुल्या जनाः
किं वक्ष्ये सुरपुङ्गवा अहमहो मोहस्य दुश्चेष्टितम् ॥ ५४॥

अतः शिवेनैव समस्तमेत-
द्भवत्यनन्तेन न चापरेण ।
शिवस्वभावेन शिवः समस्तं
शिवप्रभावेन जगद्विचित्रम् ॥ ५५॥

तत्त्वदृक्सकलमद्वयं सदा
पश्यति स्म परिमोहितः पुमान् ।
कष्टशिष्टघटकुड्यरूपतः
कष्टमेव खलु तस्य वेदनम् ॥ ५६॥

इदं जगदिति स्वतः सकलजन्तोः प्रतीतिर्दृढा
परं जगदिति स्फुरत्यमलबोधस्वभावेन च ।
इदं हि परिवेदनं विमलचित्तस्य पुंसः सदा
भवं तरति मानवः परमबोधेन चैतेन हि ॥ ५७॥

छन्दोगश्रुतिमस्तके विनिहितं विज्ञानमेतन्मया
जन्तूनामविवेकिनामतितरामज्ञानविध्वस्तये ।
कारुण्यादमराधिपा अतिशुभब्रह्मामृतावाप्तये
देवानामधिपाधिपस्य वचनादुक्तं महेशस्य च ॥ ५८॥

इति ब्रह्मगीतासूपनिषत्सु दहरोपासनविवरणं
नाम षष्ठोऽध्यायः ॥ ६॥

[mks_separator style=”dotted” height=”2″]

॥ अथ सप्तमोऽध्यायः ॥

॥ वस्तुस्वरूपविचारः ॥

ब्रह्मोवाच ।
अस्ति तत्त्वं परं साक्षादक्षरं क्षरवस्तुनाम् ।
अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ॥ १॥

तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं सुराः ।
तदात्मकत्वात्सर्वस्य नास्त्येव हि भिदा स्वतः ॥ २॥

द्वे विद्ये वेदितव्ये हि परा चैवापरापि च ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ ३॥

सामवेदस्तथाऽथर्ववेदः शिक्षा सुरर्षभाः ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ।
ज्योतिषं च तथाऽनात्मविषया अपि बुद्धयः ॥ ४॥

अथैषा परविद्या सा यया तत्परमक्षरम् ।
गम्यते सुदृढं प्राज्ञैः साक्षाच्छम्भोः प्रसादिभिः ॥ ५॥

यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ।
अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं सदा ॥ ६॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ।
यद्भूतयोनिं धीमन्तः परिपश्यन्ति चात्मना ॥ ७॥

यथोर्णनाभिः सृजते गृह्णते च सुरर्षभाः ।
यथा पृथ्व्यामोषधयः सम्भवन्ति यथा सतः ॥ ८॥

पुरुषात्केशलोमानि तथा चैवाक्षरात्सुराः ।
विश्वं सम्भवतीहैव तत्सर्वं स्वपनोपमम् ॥ ९॥

तपसा चीयते ब्रह्म तदन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ १०॥

यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ॥ ११॥

तस्मादेतत्सुरा ब्रह्म नामरूपान्नपूर्वकम् ।
जायते सत्यवत्स्वप्नप्रपञ्चोपममेव तत् ॥ १२॥

तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ।
कर्मणा नास्ति तत्प्राप्तिः संसारस्य विनाशनम् ।
प्लवा ह्येते सुरा यज्ञा अदृढाश्च न संशयः ॥ १३॥

एभिरेव परं श्रेय इति जानन्ति ये जनाः ।
ते मूढा अनिशं मृत्युं जरां चैवापियन्ति हि ॥ १४॥

कर्मनिष्ठाः स्वयं धीरा मर्त्याः पण्डितमानिनः ॥ १५॥

मूढा एव न विद्वांसस्तेषां नास्ति परा गतिः ।
अन्धेनैव यथा चान्धा नीयमानाः सुदारुणे ॥ १६॥

अन्धकूपे पतन्त्येव तथा कर्मरता जनाः ।
कर्मनिष्ठा स्वयं सर्वे कृतार्था इति मोहिताः ॥ १७॥

अभिमन्यन्ति ते कर्मक्षये वश्यं पतन्ति हि ।
विना नास्ति परं ज्ञानं तेषां कैवल्यमुत्तमम् ॥ १८॥

इष्टापूर्तं मन्यमाना वरिष्ठमिति ये जनाः ।
ते मूढाः परमं श्रेयो नैव यान्ति न संशयः ॥ १९॥

अनेकजन्मसंसिद्धः श्रौतस्मार्तपरायणः ।
अनित्यमिति विज्ञाय जगद्वैराग्यमाप्नुयात् ॥ २०॥

ज्ञानादेव हि संसारविनाशो नैव कर्मणा ।
इति ज्ञात्वा शिवज्ञानसिद्ध्यर्थं पुनरास्तिकाः ॥ २१॥

श्रोत्रियं ब्रह्मनिष्ठं च गुरुं गच्छेत्प्रियेण च ।
गुरुस्तस्मै परां विद्यां दद्याच्च सुरपुङ्गवाः ॥ २२॥

विस्फुलिङ्गा यथा चाग्नेः सुदीप्तात्प्रभवन्ति च ।
अपियन्ति तथा भावा अक्षरे शिवसञ्ज्ञके ॥ २३॥

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो मायाया जीवतः परः ॥ २४॥

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ २५॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य
पद्भ्यां भूमिः शङ्करोऽयं हि सत्यः ॥ २६॥

तस्मादग्निः समिधो यस्य सूर्यः
सोमाद्वृष्टिश्चौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां
बह्वीः प्रजा बहुधा सम्प्रसूताः ॥ २७॥

तस्मादृचः साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरो यजमानश्च लोकः
सोमो यत्र पवते यत्र सूर्यः ॥ २८॥

तस्माद्देवा बहुधा सम्प्रसूताः
साध्या मर्त्याः पशवः पक्षिणश्च ।
प्राणापानौ व्रीहियवौ तपश्च
श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ २९॥

तस्मात्प्राणा अर्चिषः सप्त होमाः
सुरश्रेष्ठाः समिधः सप्त चैव ।
लोकाः सर्वे चोद्भवन्त्याशु पूर्वं
यथा तद्वत्स्वप्नतुल्यं तथाऽपि ॥ ३०॥

अतः समुद्रा गिरयश्च नद्य-
स्तथा सर्वा ओषधयो रसाश्च ।
सर्वस्यात्मा सर्वसाक्षी परात्मा
नित्यानन्दोऽयं पुराणः सुपूर्णः ॥ ३१॥

इदं सकलमास्तिकाः पुरुष एव नैवापरं
न किञ्चिदपरं ततः सकलमस्ति सत्यं हि तत् ।
इदं हि मम वेदनं मुनिगणस्य शम्भोर्हरे-
र्न कश्चिदपि संशयः श्रुतिमतस्य युक्तः खलु ॥ ३२॥

अहो विषयमायया मरणपूर्वदुःखोदधौ
पतन्ति मनुजा अमी परशिवस्य विद्यां विना ।
तरन्ति जननार्णवं परशिवस्य विद्याबला-
दिदं तु शिववेदनं शिवपदस्य देवाबलात् ॥ ३३॥

गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ।
छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ॥ ३४॥

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतदमृतं सत्यं तद्वेद्धव्यं मनीषिभिः ॥ ३५॥

धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३६॥

लक्ष्यं सर्वगतं चैव शरोऽयं सर्वतोमुखः ।
वेद्धा सर्वगतश्चैव विद्धं लक्ष्यं न संशयः ॥ ३७॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देव पश्येन्निगूढवत् ॥ ३८॥

द्यौरन्तरिक्षं भूमिश्च मनः प्राणः सुरोत्तमाः ।
यस्मिन्नोतं तमेवैकं विद्यात्प्राज्ञः समाहितः ॥ ३९॥

ब्रह्मैकविषयां वाचं वदेत्सततमास्तिकाः ।
अन्या वाचस्त्यजेदेष सेतुरेवामृतस्य च ॥ ४०॥

यः सर्वज्ञः सर्वविद्यो यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे व्योम्नि शिवः साक्षात्प्रतिष्ठितः ॥ ४१॥

मनोमयः प्राणशरीरनेता
प्रतिष्ठितः सर्वहृदम्बुजान्तः ।
तद्विज्ञानेन परिमुच्यन्ति धीरा
यद्भाति चानन्दवपुः स्वभावात् ॥ ४२॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ४३॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ४४॥

न तत्र सूर्यश्चन्द्रश्च तारका विद्युतोऽनलः ।
विभान्ति शङ्करे साक्षात्स्वयम्भाने चिदात्मके ॥ ४५॥

तमेव सकलं भान्तमनुभाति स्वभावतः ।
तस्य भासा सर्वमिदं विभाति तत एव हि ॥ ४६॥

न तत्र चन्द्रार्कवपुः प्रकाशते
न वान्ति वाताः सकलाश्च देवताः ।
स एष देवः कृतभूतभावनः
स्वयं विशुद्धो विरजः प्रकाशते ॥ ४७॥

ब्रह्मैवेदममृतं तत्पुरस्ता-
द्ब्रह्मानन्तं परमं चैव पश्चात् ।
ब्रह्मानन्तं परमं दक्षिणे च
ब्रह्मानन्तं परमं चोत्तरे च ॥ ४८॥

द्वौ सुपर्णौ शरीरेऽस्मिन्
जीवेशाख्यौ सह स्थितौ ।
तयोर्जीवः फलं भुङ्क्ते
कर्मणो न महेश्वरः ॥ ४९॥

केवलं साक्षिरूपेण विना भोगं महेश्वरः ।
प्रकाशते स्वयम्भेदः कल्पितो मायया तयोः ॥ ५०॥

यथाकाशो घटाकाशमहाकाशमभेदतः ।
कल्पितः परचिज्जीवः शिवरूपेण कल्पितः ॥ ५१॥

तत्त्वतश्चिच्छिवः साक्षाच्चिज्जीवश्च ततः सदा ।
चिच्चिदाकारतोऽभिन्ना न भिन्न चित्त्वहानितः ॥ ५२॥

चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः ।
भिद्यते चेज्जडे भेदश्चिदेका सर्वदा खलु ॥ ५३॥

तर्कतश्च प्रमाणाच्च चिदेकत्वे व्यवस्थिते ।
अपि पापवतां पुंसां विपरीता मतिर्भवेत् ॥ ५४॥

श्रौतस्मार्तसमाचारैर्विशुद्धस्य महात्मनः ।
प्रसादादेव रुद्रस्य चिदेकत्वे मतिर्भवेत् ॥ ५५॥

चिदेकत्वपरिज्ञानान्न शोचति न मुह्यति ।
अद्वैतं परमानन्दं शिवं याति तु केवलम् ॥ ५६॥

शिवस्थाने शरीरेऽस्मिन्स्थितोऽपि स्वात्ममायया ।
दुःखादिसागरे मग्नो मुह्यमानश्च शोचति ॥ ५७॥

स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम् ।
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ॥ ५८॥

अहमस्मीति निश्चित्य वीतशोको भवत्ययम् ।
अस्य चिन्मात्ररूपस्य स्वस्य सर्वस्य साक्षिणः ॥ ५९॥

महिमानं यदा वेद परमाद्वैतलक्षणम् ।
तदैव विद्यया साक्षाद्वीतशोको भवत्ययम् ॥ ६०॥

ब्रह्मयोनिं सदा पूर्णं रुक्मवर्णं महेश्वरम् ।
अपश्यन्नेव पश्यन्तं कर्तृत्वेन प्रकाशितम् ॥ ६१॥

अनेककोटिभिः कल्पैरर्जितैः पुण्यकर्मभिः ।
तर्कतश्च प्रमाणाच्च प्रसादात्परमेश्वरात् ॥ ६२॥

पश्यति श्रद्धया चापि यदा विद्वान्सुरर्षभाः ।
पुण्यपापे विधूयायमसक्तः सर्वहेतुभिः ॥ ६३॥

सर्वाकारतया साम्यं परमाद्वैतलक्षणम् ।
उपैति नात्र सन्देहः कर्तव्यश्च मनीषिभिः ॥ ६४॥

चिन्मात्रं हि सदा रूपमुभयोः शिवजीवयोः ।
तथा सति कथं साम्यं चिन्मात्रे भेदवर्जिते ॥ ६५॥

उपाधियुक्तरूपे तु तयोः साम्यं भवेद्यदि ।
तदाऽपि नैव साम्यं स्याज्जीवस्य परमात्मनः ॥ ६६॥

महाकाशसमत्वं तु घटाकाशस्य सर्वथा ।
यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु ॥ ६७॥

अस्तु वा साम्यमीशेन जीवस्यास्य तदाऽपि तु ।
कर्मणा विद्यया वा तत्साम्यं सिध्यति नान्यथा ॥ ६८॥

कर्मणा चेद्विनाशः स्यात्कर्मसाध्यं हि नश्वरम् ।
विद्ययैव तु चेत्साम्यं पुरस्तादेव चास्ति हि ॥ ६९॥

पुरस्तादेव सिद्धस्य बोधकं खलु वेदनम् ।
अभूतार्थस्य चोत्पत्तिं न करोति कदाचन ॥ ७०॥

तत्रैवं सति साम्यं तु तयोः सर्वात्मनैव तु ।
पुरस्तादेव चास्त्येव तदाऽपि शिवजीवयोः ॥ ७१॥

पुरस्तादेव कैवल्यं लक्षणैकत्वतोऽस्ति च ।
तथा सति शिवो भिन्नो विद्ययाऽभिन्नवत्स्थितः ॥ ७२॥

विद्यया तद्विनाशेन स्वसाम्यं याति नान्यथा ।
अतः साम्यं तयोः साक्षादैक्यमेव न चेतरत् ॥ ७३॥

एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् ।
स्वात्मन्येव रतिं क्रीडामन्यच्च कुरुते सदा ॥ ७४॥

बहिश्चेष्टा च मय्येव शिवे सत्यसुखात्मके ।
इति जानाति सर्वं तु स्वात्मनैव हि भासते ॥ ७५॥

स्वात्मनैव स्वयं सर्वं यदा पश्यति निर्भयः ।
तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्तता ॥ ७६॥

एवं रूपा परा विद्या सत्येन तपसाऽपि च ।
ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदोक्तवर्त्मना ॥ ७७॥

शरीरेऽन्तः स्वयञ्ज्योतिःस्वरूपं स्वकमैश्वरम् ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः ॥ ७८॥

एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः ।
कुत्रचिद्गमनं नास्ति तस्य सम्पूर्णरूपिणः ॥ ७९॥

आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति ।
तद्वत्स्वात्मविभुत्वज्ञः कुत्रचिन्नैव गच्छति ॥ ८०॥

न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वः
स निष्कलं पश्यति रूपमैशम् ॥ ८१॥

ध्यानेन परमेशस्य साम्बमूर्तिधरस्य च ।
स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना ॥ ८२॥

एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्र्यया धिया ।
पञ्चधा सन्निविष्टोऽसुर्यस्मिन्सर्वाश्रये सुराः ॥ ८३॥

संविभाति स्वचित्तेन यं यं लोकं विशुद्धधीः ।
सदा कामयते यांश्च तज्जयत्यखिलं ततः ॥ ८४॥

तस्मादात्मविदं साक्षादीश्वरं भवतारकम् ।
अर्चयेद्भूतिकामस्तु स्वशरीरेण चार्थतः ॥ ८५॥

नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ ८६॥

नायमात्मा बलहीनेन लभ्यः
प्रमादतस्तपसो नान्यलिङ्गात् ।
एतैर्यत्नं यः करोत्येव धीमां-
स्तस्यात्माऽयं विशते ब्रह्म धाम ॥ ८७॥

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः
कृतात्मानो वीतशोकाः प्रशान्ताः ।
ते सर्वगं सर्वशः प्राप्य धीरा
युक्तात्मानः सर्वमेवाविशन्ति ॥ ८८॥

वेदान्तविज्ञानसुनिश्चितार्थाः
सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले
परामृतात्परिमुच्यन्ति सर्वे ॥ ८९॥

गताः कलाः पञ्चदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवताश्च ।
कर्माणि विज्ञानमयश्च आत्मा
परेऽव्यये सर्व एकीभवन्ति ॥ ९०॥

यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं यान्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषं ब्रह्म याति ॥ ९१॥

स यो ह वै तत्परमं ब्रह्म वेद सुरर्षभाः ।
ब्रह्मैव भवति ज्ञानान्नास्ति संशयकारणम् ॥ ९२॥

सुनिश्चितं परं ब्रह्म वेद चेत्स्वानुभूतितः ।
कुले भवति नाब्रह्मवित्तस्य सुरपुङ्गवाः ॥ ९३॥

शोकं तरति पाप्मानं गुहाग्रन्थिर्विनश्यति ।
अमृतो भवति प्राज्ञः सत्यमेव मयोदितम् ॥ ९४॥

सर्वमुक्तमतिशोभनं मया
शोकमोहपटलस्य भेदकम् ।
आशु सत्यसुखबोधवस्तुदं
वेदमाननिरतस्य भासते ॥ ९५॥

इति ब्रह्मगीतासूपनिषत्सु वस्तुस्वरूपविचारो
नाम सप्तमोऽध्यायः ॥ ७॥

[mks_separator style=”dotted” height=”2″]

॥ अथ अष्टमोऽध्याः ॥

॥ कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिः ॥

ब्रह्मोवाच –
अस्ति तत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम् ।
तदवश्यं महायासाद्वेदितव्यं मनीषिभिः ॥ १॥

तद्विद्या यतिभिः सेव्या निगूढातीव शोभना ।
अचिरात्सर्वपापघ्नी परब्रह्मप्रदा नृणाम् ॥ २॥

श्रद्धया परया (च महा) भक्त्या ध्यानेन च सुरोत्तमाः ।
योगेन च परा विद्या लभ्या सा नैव कर्मणा ।
न प्रजाभिर्न चार्थेन त्यागेनैषां सुरर्षभाः ॥ ३॥

ये वेदान्तमहावाक्यश्रवणोत्पन्नविद्यया ।
सुनिश्चितार्था यतयो विशुद्धहृदया भृशम् ॥ ४॥

ब्रह्मदृश्ये शरीरेऽस्मिन्नन्तकाले परस्य तु ।
अज्ञानाख्यस्य ते सर्वे मुच्यन्ति हि परामृतात् ॥ ५॥

अतो विद्याऽऽप्तिसिद्ध्यर्थं मुमुक्षुर्मतिमत्तमः ॥ ६॥

विविक्तं देशमाश्रित्य सुखासीनो महाशुचिः ।
समग्रीवशिरःकायः सितभस्मावगुण्ठितः ॥ ७॥

इन्द्रियाणि समस्तानि निरुध्य सुरपुङ्गवाः ।
प्रणम्य स्वगुरुं भक्त्या विचिन्त्य हृदयाम्बुजम् ॥ ८॥

विशुद्धं विरजं तस्य मध्ये विशदमीश्वरम् ।
अनन्तं शुद्धमव्यक्तमचिन्त्यं सर्वजन्तुभिः ॥ ९॥

शिवं प्रशान्तममृतं वेदयोनिं सुरर्षभाः ।
आदिमध्यान्तनिर्मुक्तमेकं साक्षाद्विभुं तथा ॥ १०॥

अरूपं सच्चिदानन्दमद्भुतं परमेश्वरं ।
उमासहायमोमर्थं प्रभुं साक्षात्त्रिलोचनम् ।
नीलकण्ठं प्रशा(भा)न्तस्तं(स्थं) ध्यायेन्नित्यमतन्द्रितः ॥ ११॥

एवं ध्यानपरः साक्षान्मुनिर्ब्रह्मात्मविद्यया ॥ १२॥

भूतयोनिं समस्तस्य साक्षिणं तमसः परम् ।
गच्छत्येव न सन्देहः सत्यमुक्तं मया सुराः ॥ १३॥

योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः ।
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ १४॥

स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ।
स एव सर्वं यद्भूतं यच्च भव्यं समासतः ॥ १५॥

स एव विद्याविद्या च न ततोऽन्यत्तु किञ्चन ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ १६॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १७॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पा(शा)पान्दहति पण्डितः ॥ १८॥

स एव भगवानीशो माययैवात्मभूतया ।
मुह्यमान इव स्थित्वा स्वस्वातन्त्र्यबलेन तु ॥ १९॥

शरीरमिदमास्थाय करोति सकलं पुनः ।
जाग्रत्संज्ञमिदं धाम प्रकल्प्य स्वीयमायया ॥ २०॥

राजपुत्रादिवत्तस्मिन्क्रीडया केवलं हरः ।
अन्नपानादिभिः स्त्रीभिस्तृप्तिमेति सुरर्षभाः ॥ २१॥

स्वप्नकाले तथा शम्भुर्जीवत्वेन प्रकाशितः ।
सुखदुःखादिकान्भोगान्भुङ्क्ते स्वेनैव निर्मितान् ॥ २२॥

सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः ।
स्वस्वरूपमहानन्दं भुङ्क्ते विश्व(दृश्य)विवर्जितः ॥ २३॥

पुनः पूर्वक्रियायोगाज्जीवत्वेन प्रकाशितः ।
जाग्रत्संज्ञमिदं धाम याति स्वप्नमथापि वा ॥ २४॥

पुरत्रयमिदं पुंसो भोगायैव विनिर्मितम् ।
भोगश्चास्य सदा क्रीडा न दुःखाय कदाचन ॥ २५॥

विश्वाधिको महानन्दः स्वतन्त्रो निरुपद्रवः ।
असक्तः सर्वदोषैश्च कथं दुःखी भवेद्धरः ॥ २६॥

स न जीवः शिवादन्यो यो भुङ्क्ते कर्मणां फलम् ।
भेदाभावाच्चितश्चेत्यं न कर्मफलमर्हति ॥ २७॥

अतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः ।
अद्वितीयो महानन्दः क्रीडया भोगमर्हति ॥ २८॥

धामत्रयमिदं शम्भोर्न दुःखाय कदाचन ।
क्रीडारामतया भाति न चोद्यार्हो महेश्वरः ॥ २९॥

इदं धामत्रयं शम्भोर्विभेदेन न विद्यते ।
शम्भुरेव तथा भाति न ह्यन्यत्परमेश्वरात् ॥ ३०॥

जाग्रत्स्वप्नसुषुप्त्याख्यावस्थारूपेण भाति यः ।
स विश्वतैजसप्राज्ञसमाख्याः क्रमशो भवेत् ॥ ३१॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
प्राज्ञस्त्वानन्दभुक्साक्षी केवलः सुखलक्षणः ॥ ३२॥

त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ।
उभयं ब्रह्म यो वेद स भुञ्जानो न लिप्यते ॥ ३३॥

अश्वमेधसहस्राणि ब्रह्महत्याशतानि च ।
कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति ॥ ३४॥

जीवरूप इव स्थित्वा यः क्रीडति पुरत्रये ।
स न जीवः सदा शम्भुः सत्यमेव न संशयः ॥ ३५॥

ततस्तु जातं सकलं विचित्रं सत्यवत्सुराः ।
स सत्योऽसत्यसाक्षित्वात्साक्षित्वाच्चित्सुखं तथा ॥ ३६॥

प्रेमास्पदत्वादद्वैतो भेदाभावात्सुरर्षभाः ।
तस्मिन्नैव लयं याति पुरत्रयमिदं ततः ॥ ३७॥

न जीवो जीववद्भाति साक्षाद्ब्रह्मैव केवलम् ।
अज्ञानाज्जीवरूपेण भासते न स्वभावतः ॥ ३८॥

ब्रह्मणो जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ ३९॥

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतमं नित्यं तत्त्वंशब्दार्थ एव हि ॥ ४०॥

यस्त्वंशब्दस्य लक्ष्यार्थः स तच्छब्दार्थ एव हि ।
तत्त्वंशब्दौ स्वतःसिद्धे चिन्मात्रे पर्यवस्यतः ॥ ४१॥

यः पदद्वयलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पितः ।
मायाविद्यात्मकोपाधिभेदेनैव न वस्तुतः ॥ ४२॥

स्वतःसिद्धैकताज्ञानं व्युदस्य श्रुतिरादरात् ।
स्वभावसिद्धमेकत्वं बोधयत्यधिकारिणः ॥ ४३॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चत्वेन भाति यत् ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४४॥

यस्तु ब्रह्म विजानाति स्वात्मना सुदृढं नरः ।
तस्य स्वानुभवस्त्वेवं स्वभावादनुवर्तते ॥ ४५॥

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यस्तथा ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ४६॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ४७॥

अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ४८॥

अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुश्च श‍ृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाऽहम् ॥ ४९॥

वेदैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धयश्च ॥ ५०॥

न भूमिरापो मम नैव वह्नि-
र्न चानिलो मेऽस्ति न चाम्बरं च ।
सदाऽहमेवाहमिति स्फुरामि
स्वभावतश्चेदमिति स्फुरामि ॥ ५१॥

अभातरूपेण तथैव सर्वदा
विभातरूपेण च भानरूपतः ।
अभानरूपेण च सर्वरूपतः
स्फुरामि देवोऽहमतः पुरातनः ॥ ५२॥

एवं विदित्वा परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम् ।
समस्तभानं सदसद्विहीनं
प्रयाति शुद्धं परमात्मरूपम् ॥ ५३॥

अतश्च वेदान्तवचोभिरञ्जसा
मुमुक्षुभिर्नित्यमशेषनायकः ।
गुरूपदेशेन च तर्कतस्तथा
विचिन्तनीयश्च विशेषतः शिवः ॥ ५४॥

कैवल्योपनिषत्परा परकृपायुक्ता यदुच्चैर्मुदा
प्रोवाच प्रतितौजसैरपि हरिब्रह्मादिभिश्चादृतम् ।
हे देवा अहमुक्तवानतिशुभब्रह्मापरोक्षाय त-
त्सर्वेषामधिकारिणां मतमिदं वित्तातिभक्त्या सह ॥ ५५॥

इति ब्रह्मगीतासूपनिषत्सु कैवल्योपनिषद्विवरणे
तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः ॥ ८॥

[mks_separator style=”dotted” height=”2″]

॥ अथ नवमो।ध्यायः ॥

॥ बृहादारण्यकोपनिषद्व्याख्यानम् ॥

ब्रह्मोवाच ।
प्रत्यग्रूपः शिवः साक्षात्परानन्दस्वलक्षणः ।
परप्रेमास्पदत्वेन प्रतीतत्वात्सुरर्षभाः ।
परप्रेमास्पदानन्दः सुरा आनन्द एव हि ॥ १॥

प्रियो भवति भार्यायाः पतिः सोऽयं सुरर्षभाः ॥ २॥

पतिर्न पत्युः कामाय प्रियो भवति सर्वथा ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ३॥

जायायास्तु न कामाय न हि जाया प्रिया मता ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ४॥

पुत्राणां तु न कामाय प्रियाः पुत्रा भवन्ति च ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ५॥

ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ६॥

क्षत्रस्यैव तु कामाय न क्षत्रं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ७॥

वित्तस्यैव तु कामाय न वित्तं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ८॥

लोकानामेव कामाय न भवन्ति प्रियाश्च ते ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ९॥

देवानामपि कामाय प्रिया देवा भवन्ति न ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १०॥

वेदानामेव कामाय प्रिया वेदा भवन्ति न ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ११॥

भूतान्यपि च भूतानां कामाय न भवन्ति च ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १२॥

सर्वस्यैव तु कामाय न सर्वं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १३॥

अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः ।
सुखाभिलाषिभिः सोऽयं त्यक्त्वा कर्माणि सादरम् ॥ १४॥

द्रष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथैव च ।
मन्तव्यश्च विचिन्त्यश्च सर्वं तद्दर्शनादिभिः ॥ १५॥

दुःखराशेर्विनाशाय परमाद्वैतविद्भवेत् ॥ १६॥

परमाद्वैतविज्ञानात्संसारः प्रविणश्यति ।
स्वतःसिद्धाद्वयानन्दः स्वयमेव विभाति च ॥ १७॥

परादात्तं सुरा ब्रह्म स्वतोऽन्यद्ब्रह्म वेद यः ।
तथा परादात्क्षत्रं तं लोका अपि तथैव च ॥ १८॥

देवा वेदाश्च भूतानि परादुः खलु तं पशुम् ।
स्वस्वरूपात्परं किञ्चिदपि पश्यन्प्रणश्यति ॥ १९॥

ब्रह्मक्षत्रादिभेदेन प्रतीता ह्यखिला अमी ।
वर्णास्तथाऽऽश्रमाः सर्वे सङ्कराः सकला अपि ॥ २०॥

देवगन्धर्वपूर्वाश्च भूतानि भुवनानि च ।
अस्ति नास्तीति शब्दार्थौ तथैवान्यच्च किञ्चन ॥ २१॥

मायाविद्यातमोमोहप्रभेदा अखिला अपि ।
सर्वमात्मैव नैवान्यदन्यबुद्धिर्हि संसृतिः ॥ २२॥

निर्विकल्पे परे तत्त्वे विद्यया बुद्धिविश्रमः ।
सा हि संसारविच्छित्तिर्नापरा पुरुषाधिका ॥ २३॥

प्रतीतमविशेषेण सकलं ब्रह्म यः पुमान् ।
वेद तं शिरसा नित्यं प्रणयामि जगद्गुरुम् ॥ २४॥

वेदा बहुमुखा भान्ति स्मृतयश्च तथैव च ।
पुराणानि समस्तानि बुद्धार्हाद्यागमान्तराः ॥ २५॥

शैवाश्च वैष्णवाश्चैव मदुक्ता आगमा अपि ।
अपभ्रंशाः समस्ताश्च केवलं लौकिकी मतिः ॥ २६॥

तर्काश्च विविधाः सूक्ष्माः स्थूलाश्च सकला अपि ।
परस्परविरोधेन प्रभान्ति सकलात्मनाम् ॥ २७॥

तेषामेवाविरोधे तु कालो याति च धीमताम् ।
कथञ्चित्कालसद्भावेऽप्यविरोधो न सिध्यति ॥ २८॥

अतः सर्वं परित्यज्य मनसो मलकारणम् ।
यथाभातेन रूपेण शिवं पश्येत्सुनिश्चलः ॥ २९॥

क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः ।
पश्वादिभ्यो नराः प्राज्ञास्तेषु केचन कोविदाः ॥ ३०॥

तथा तेभ्यश्च गन्धर्वाः पितरो मतिमत्तमाः ।
अन्ये च तारतम्येन पण्डिता उतरोत्तरम् ॥ ३१॥

यूयं सत्त्वोत्कटाः प्राज्ञाः सर्वेषामपि हे सुराः ।
युष्मभ्योऽहं महाप्राज्ञो मत्तः प्राज्ञो जनार्दनः ॥ ३२॥

जनार्दनादपि प्राज्ञः शङ्करो गुणमूर्तिषु ।
ततः प्राज्ञतमः साक्षाच्छिवः साम्बः सनातनः ॥ ३३॥

स एव साक्षात्सर्वज्ञस्ततोऽन्यो नास्ति कश्चन ।
तस्माद्विद्यामिमां त्यक्त्वा ब्रह्म सर्वं विलोकयेत् ॥ ३४॥

आयासस्तावदत्यल्पः फलं मुक्तिरिहैव तु ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३५॥

कदाचिदपि चित्तस्य भयं किञ्चिन्न विद्यते ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३६॥

स्वस्वरूपातिरेकेण नास्ति मानं विरोधि च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३७॥

स्वस्वरूपातिरेकेण तर्कश्च न हि विद्यते ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३८॥

श्रुतिस्मृतिपुराणानि प्राहुरेकत्वमात्मनः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३९॥

अनुग्राहकतर्कश्च कुरुते तर्कवेदनम् ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४०॥

शिवागमेषु चाद्वैतं बभाषे परमेश्वरः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४१॥

नारायणोऽपि चाद्वैतं बभाषे स्वागमेषु च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४२॥

अहं चावोचमद्वैतं मदुक्तेष्वागमेषु च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४३॥

अन्ये च योगिनः सर्वे प्राहुरद्वैतमात्मनः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४४॥

विशुद्धज्ञानिनां देवा निष्ठाऽप्यद्वैतगोचरा ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४५॥

केचित्सामान्यमद्वैतं वदन्ति भ्रान्तचेतसः ।
विशेषं द्वैतमाश्रित्य न तेषामस्ति वेदनम् ॥ ४६॥

द्वैतमेव हि सर्वत्र प्रवदन्ति हि केचन ।
न ते मनुष्याः कीटाश्च पतङ्गाश्च घटा हि ते ॥ ४७॥

अविशेषेण सर्वं तु यः पश्यति महेश्वरम् ।
स एव साक्षाद्विज्ञानी स शिवः स तु दुर्लभः ॥ ४८॥

जगदिति प्रतिभा व्यवहारतः
परतरः परमः परमार्थतः ।
इति मतिर्न भवत्यपि कस्यचि-
च्छशिधरस्मरणेन हि सिध्यति ॥ ४९॥

जगदिति प्रतिभाऽपि च शाङ्करी
मतिमतामिति मे सुविनिश्चयः ।
इति मतिर्विमला च शुभावहा
शशिधरस्मरणेन हि सिध्यति ॥ ५०॥

जगदिति प्रतिभासमपेक्ष्य च
श्रुतिरपि प्रियहेतुमिहाह हि ।
न हि जगत्प्रतिभा न च सा श्रुतिः
प्रियकरः सकलश्च न वस्तुतः ॥ ५१॥

इति मतिर्विमला ननु जायते
यदि जनः शिव एव स तादृशः ।
न हि कृतिः सकला महात्मनो
यदि कृतिः पशुरेव स मानवः ॥ ५२॥

न हि जनिर्मरणं गमनागमौ
न हि मलं विमलं न च वेदनम् ।
शिवमिदं सकलं विभासते
स्फुटतरं परमस्य तु योगिनः ॥ ५३॥

विसृज्य सन्देहमशेषमास्तिकाः
प्रतीतमेतन्निखिलं जडाजडम् ।
गुरूपदेशेन शिवं विलोकये-
द्विलोकनं चापि शिवं विलोकयेत् ॥ ५४॥

विलोकनं चापि शिवं विलोकय-
न्विलोकनं चापि विसृज्य केवलम् ।
स्वभावभूतः स्वचिताऽवशिष्यते
चिताऽवशेषश्च न तस्य तत्त्वतः ॥ ५५॥

निष्ठा तस्य महात्मनः सुरवरा वक्तुं मया शक्यते
न प्रौढेन शिवेन वा मुनिगणैर्नारायणेनापि च ।
वेदेनापि पुरातनेन परया शक्त्या परेणाथ वा
मूकीभावमुपैति तत्र विदुषां निष्ठा हि तादृग्विधा ॥ ५६॥

सर्वमुक्तमिति वः सुरर्षभाः
केवलेन करुणाबलेन च ।
वेद एव सकलार्थबोधकः
शेष एव वचनं च तस्य मे ॥ ५७॥

इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकोपनिषद्व्याख्याने
नवमोऽध्यायः ॥ ९॥

[mks_separator style=”dotted” height=”2″]

॥ अथ दशमोऽध्यायः ॥

॥ बृहादारण्यकव्याख्याकथनम् ॥

ब्रह्मोवाच ।
अस्ति सर्वान्तरः साक्षी प्रत्यगात्मा स्वयम्प्रभः ।
तदेव ब्रह्म सम्पूर्णमपरोक्षतमं सुराः ॥ १॥

प्राणापानादिभेदस्य यः सत्तास्फुरणप्रदः ।
यस्य सन्निधिमात्रेण चेष्टते सकलं सुराः ॥ २॥

यश्च सर्वस्य चेष्टायामसक्तो निष्क्रियः स्वयम् ।
स हि सर्वान्तरः साक्षादात्मा नान्यः सुरर्षभाः ॥ ३॥

योऽयं सर्वान्तरः स्वात्मा सोऽहमर्थो न विग्रहः ।
दृश्यत्वादस्य देहस्य द्रष्टा योऽस्य स एव सः ॥ ४॥

योऽयं सर्वान्तरः स्वात्मा सोऽयं न प्राणपूर्वकः ।
दृश्यत्वात्प्राणपूर्वस्य द्रष्टा योऽस्य स एव सः ॥ ५॥

दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता च यः सुराः ।
विज्ञातेरपि विज्ञाता स हि सर्वान्तरः परः ॥ ६॥

अतोऽन्यदार्तं सकलं न सत्यं तु निरूपणे ।
स एव सर्वं नैवान्यदिति सम्यङ्निरूपणे ॥ ७॥

यथा पृथिव्यामोतं च प्रोतं च सकलं सुराः ।
तथाऽप्सु सकलं देवा ओतं प्रोतं न संशयः ॥ ८॥

आपश्च वायौ हे देवा ओताः प्रोतास्तथैव च ।
अन्तरिक्षेषु वायुश्च लोकेषु सुरपुङ्गवाः ॥ ९॥

अन्तरिक्षाश्च लोकाश्च तथा गन्धर्वकेषु च ।
लोकेष्वादित्यलोकेषु स्थिता गन्धर्वसञ्ज्ञिताः ॥ १०॥

चन्द्रलोकेषु चादित्यलोका ओतास्तथैव च ।
चन्द्रलोकाश्च नक्षत्रलोकेषु सुरपुङ्गवाः ॥ ११॥

देवलोकेषु नक्षत्रलोका ओतास्तथैव च ।
देवलोकाश्च हे देवा इन्द्रलोकेषु संस्थिताः ॥ १२॥

प्राजापत्येषु लोकेषु स्थिता ऐन्द्राः सुरर्षभाः ।
प्राजापत्यास्तथा लोका ब्रह्मलोकेषु संस्थिताः ॥ १३॥

विष्णुलोकेषु हे देवा ब्रह्मलोकाः सुसंस्थिताः ।
विष्णुलोकास्तथा ओता रुद्रलोकेषु हे सुराः ॥ १४॥

रुद्रलोकाः स्थिता लोकेष्वीश्वरस्य सुरर्षभाः ।
सदाशिवस्य लोकेषु स्थिता ह्यैशाः सुरर्षभाः ॥ १५॥

ओताः प्रोताश्च ते लोका ब्रह्मसञ्ज्ञे परे शिवे ।
एवं सर्वे सदा साक्षिस्वरूपे प्रत्यगात्मनि ॥ १६॥

सर्वान्तरतमे प्रोता ओता अध्यासतः स्थिताः ॥ १७॥

सर्वाधिष्ठानरूपस्तु प्रत्यगात्मा स्वयम्प्रभः ।
न कस्मिंश्चित्स्थितः साक्षी सत्स्वरूपः सुरर्षभाः ॥ १८॥

यस्मिन्नध्यस्तरूपेण स्थितं सर्वं निरूपणे ।
स एव सकलं नान्यदिति सम्यङ्निरूपणे ॥ १९॥

योऽयमात्मा स्वयं भाति सत्तयाऽन्यविवर्जितः ।
स एव साक्षात्सर्वेषामन्तर्यामी न चापरः ॥ २०॥

पृथिव्यामपि यस्तिष्ठन्पृथिव्या अन्तरः सदा ।
यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि ॥ २१॥

योऽन्तरो यमयत्येतां भूमिं निष्क्रियरूपतः ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २२॥

अप्सु तिष्ठन्नपां देवा अन्तरो यं न ता विदुः ।
आपः शरीरं यस्यैता योऽन्तरो यमयत्यपः ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २३॥

एवमग्नेश्च यो नेता चान्तरिक्षस्य हे सुराः ॥ २४॥

वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २५॥

अदृष्टोऽयं सुरा द्रष्टा श्रोतैवायं तथाऽश्रुतः ।
अमतश्च तथा मन्ता विज्ञाता केवलं सुराः ॥ २६॥

रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः ।
चित्तसाक्षितया भाति स्वप्रकाशेन केवलम् ॥ २७॥

चित्तव्यापारनाशे तु तदभावं सुरर्षभाः ।
स्वप्रकाशेन जानाति सुषुप्तौ वेद तामपि ॥ २८॥

आविर्भावतिरोभावरहितस्तु स्वयम्प्रभः ।
भावाभावात्मकं सर्वं सदाऽयं वेद केवलः ॥ २९॥

भावाभावात्मना वेद्यं समस्तं सुरपुङ्गवाः ।
वेत्तैवायं न चैवान्यदिति सम्यङ्निरूपणम् ॥ ३०॥

एवं द्वैतं विचारेण स्वात्मना वेद यः पुमान् ।
स योगी सर्वदा द्वैतं पश्यन्नपि न पश्यति ॥ ३१॥

द्रष्टुर्दृष्टेर्न नाशोऽस्ति दृश्यमेव विनश्यति ।
तच्च द्वैतं दृशेर्दृश्यं नास्ति द्रष्टाऽस्ति केवलम् ॥ ३२॥

एषाऽस्य परमा सम्पद्गतिश्च परमाऽस्य तु ।
एषोऽस्य परमो लोक एतद्धि परमं सुखम् ॥ ३३॥

अहिनिर्ल्वयनीं मुक्तां यथाऽहिः स्वात्मना पुनः ।
न पश्यति तथा विद्वान्न देहेऽहम्मतिर्भवेत् ॥ ३४॥

सर्वाधारे स्वतःसिद्धे शिवसञ्ज्ञे तु निर्मले ।
प्रत्यग्रूपे परानन्दे नेह नानाऽस्ति किञ्चन ॥ ३५॥

मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति ।
तस्मादध्यस्तमज्ञानं तत्कार्यं चात्मरूपतः ॥ ३६॥

एकधैव महायासाद्द्रष्टव्यो हि मुमुक्षुभिः ।
अयमात्माऽप्रमेयश्च विरजश्च महान्ध्रुवः ॥ ३७॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३८॥

स वा एष महानात्मा जन्मनाशादिवर्जितः ।
वशी सर्वस्य लोकस्य सर्वस्येशान एव च ॥ ३९॥

सर्वस्याधिपतिः शुद्धो न भूयान्साधुकर्मणा ।
कर्मणाऽसाधुना नैव कनीयान्सुरपुङ्गवाः ॥ ४०॥

एष सर्वेश्वरः साक्षाद्भूताधिपतिरेव च ।
भूतपालश्च लोकानामसम्भेदाय हे सुराः ॥ ४१॥

एष सेतुर्विधरणस्तमेव ब्राह्मणोत्तमाः ।
वेदानुवचनेनापि यज्ञेन सकलेन च ॥ ४२॥

दानेन तपसा देवास्तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः ॥ ४३॥

नेति नेतीति निष्कृष्टो य एष सर्वसाधकः ।
सोऽयमात्मा सदाऽग्राह्यस्वरूपो न हि गृह्यते ॥ ४४॥

तथाऽशीर्यस्वभावश्च हे देवा नैव शीर्यते ।
असङ्गरूपो भगवान्सर्वदा न हि सज्जते ॥ ४५॥

एष नित्यो महिमा ब्राह्मणस्य
न वर्धते कर्मणा नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा
न लिप्यते कर्मणा पापकेन ॥ ४६॥

तस्माद्ब्रह्मज्ञानलाभाय विद्वा-
ञ्शान्तो दान्तः सत्यवादी भवेच्च ।
कर्मत्यागी सर्ववेदान्तसिद्धं
विद्याहेतुं सन्ततं त्वभ्युपेयात् ॥ ४७॥

त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः
सदाऽऽचरेच्छङ्करवेदने रतः ।
शिवादिशब्दं च जपेद्विशेषतः
प्रपूजयेद्भक्तिपुरःसरं हरम् ॥ ४८॥

साधनैः सकलैः सहितः सुरा
वेदनेन समस्तमिदं जगत् ।
देवरूपतयैव तु निश्चितं
वेदहस्ततलस्थितबिल्ववत् ॥ ४९॥

नैनं पाप्मा तरति ब्रह्मनिष्ठं
सर्वं पापं तरति प्राकृतं च ।
नैनं पाप्मा तपति ब्रह्मनिष्ठं
सर्वं पापं तपति प्राकृतं च ॥ ५०॥

इत्थं ब्रह्म स्वात्मभूतं विदित्वा
श्रद्धापूर्वं देहमेतं स्वकीयम् ।
अर्थं सर्वं क्षेत्रजातं समस्तं
दद्यादस्मै देशिकेन्द्राय मर्त्यः ॥ ५१॥

यश्चातृणत्त्यवितथेन कर्णा-
वदुःखं कुर्वन्नमृतं सम्प्रयच्छन् ।
तं विद्यात्पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ५२॥

स्वदेशिकस्यैव तु नामकीर्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव तु पूजनं तथा
भवेदनन्तस्य शिवस्य पूजनम् ॥ ५३॥

स्वदेशिकस्यैव तु नामकीर्तनं
शिवादिशब्दस्य तु कीर्तनं भवेत् ।
स्वदेशिकस्यैव तु बाधनं तथा
भवेदनन्तस्य शिवस्य बाधनम् ॥ ५४॥

तस्माद्विद्वान्सर्वमेतद्विहाय
श्रद्धायुक्तः सद्गुरुं सत्यनिष्ठम् ।
विद्याकोशं वेदवेदान्तनिष्ठं
गच्छेन्नित्यं सत्यधर्मादियुक्तः ॥ ५५॥

वक्तव्यं सकलं मया परकृपायुक्तेन सङ्कीर्तितं
कर्तव्यं सकलं सुरा न हि मुनेर्ब्रह्मात्मनिष्ठस्य तु ।
स्मर्तव्यं सकलं तथा न हि सदा ब्रह्मैव सच्चित्सुखं
सम्पूर्णं सततोदितं समरसं शश्वत्स्वयं भासते ॥ ५६॥

इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकव्याख्याकथनं नाम
दशमोऽध्यायः ॥ १०॥

[mks_separator style=”dotted” height=”2″]

॥ अथ एकादशोऽध्यायः ॥

॥ कठवल्लीश्वेताश्वतरव्याख्यायाम् ॥

ब्रह्मोवाच ।
अस्ति तत्त्वं परं साक्षाद्दुर्दर्शं गूढमुत्तमम् ।
अनुप्रविष्टं सर्वत्र गुहायां निहितं परम् ॥ १॥

तद्विदित्वा महाधीरो हर्षशोकौ जहाति च ।
धर्मादिभ्यः परं तत्तु भूताद्भव्याच्च सत्तमाः ॥ २॥

यदामनन्ति वेदाश्च तपांसि परमं पदम् ।
ब्रह्मचर्यं यदिच्छन्तश्चरन्ति शिव एव सः ॥ ३॥

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ४॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ५॥

न जायते म्रियते वा विपश्चि-
न्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ ६॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ ७॥

अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमस्य ॥ ८॥

दूरं व्रजति चासीनः शयानो याति सर्वतः ।
कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमर्हति ॥ ९॥

अशरीरं शरीरेषु ह्यनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १०॥

नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ११॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ १२॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
क इत्थं वेद देवो वा मनुष्योऽन्यश्च यत्र सः ॥ १३॥

ऋतौ पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति
शरीरभृच्छङ्करसञ्ज्ञितौ तौ ॥ १४॥

शरीरभृत्कर्मफलं भुङ्क्ते योजयिता शिवः ।
प्रतीतितो विरुद्धौ तौ भेदस्त्वौपाधिकस्तयोः ॥ १५॥

आत्मानं रथिनं विद्याच्छरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्यान्मनः प्रग्रहमेव च ॥ १६॥

इन्द्रियाणि हयान्विद्याद्विषयानपि गोचरान् ।
आत्मेन्द्रियमनोयुक्तं विद्याद्भोक्तारमास्तिकाः ॥ १७॥

यस्त्वविज्ञानवान्मर्त्योऽयुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ १८॥

यस्तु विज्ञानवान्मर्त्यो युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ १९॥

यस्त्वविज्ञानवान्मर्त्यो ह्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ २०॥

यस्तु विज्ञानवान्मर्त्यः समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ २१॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ २२॥

पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम् ।
पदं परममद्वैतं स शिवः साम्बविग्रहः ॥ २३॥

रुद्रविष्णुप्रजेशानामन्येषामपि देहिनाम् ।
ऋते साम्बं महादेवं किं भवेत्परमं पदम् ॥ २४॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २५॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ २६॥

पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः ।
साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ॥ २७॥

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २८॥

यच्चेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
महत्यात्मनी विज्ञानं तद्यच्छेच्छान्त आत्मनि ॥ २९॥

अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ ३०॥

पराञ्चि खानि व्यतृणन्महेश-
स्तस्मात्पराङ्पश्यति नात्मरूपम् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष्य-
दावृत्तचक्षुरमृतत्वमिच्छन् ॥ ३१॥

पराञ्चः कामाननुनयन्ति बाला
मृत्योः पाशं तेऽपियन्ति स्वमोहात् ।
अथ धीरा अमृतत्वं विदित्वा
ध्रुवं तत्त्वं यान्ति कामैरसक्ताः ॥ ३२॥

येन रूपान् रसान्गन्धाञ्शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ ३३॥

जाग्रत्स्वप्नसुषुप्ताख्यं पुरं येनानुपश्यति ।
महान्तं परमात्मानं मत्वा धीरो न शोचति ॥ ३४॥

जाग्रदादित्रयं यस्तु विजानाति चिदात्मना ।
ततो भेदेन नैवास्ति पुरत्रयमिदं सदा ॥ ३५॥

चैतन्यमात्रो भगवाञ्शिव एव स्वयम्प्रभः ।
पुरत्रयात्मना भाति न भाति च महाप्रभुः ॥ ३६॥

इहामुत्र स्थितं तत्त्वं सदेकं न ततोऽपरम् ।
मृत्योः स मृत्युमाप्नोति योऽन्यं देवं प्रपश्यति ॥ ३७॥

अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ ३८॥

वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ ३९॥

सूर्यो यथा सर्वलोकस्य चक्षु-
र्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ४०॥

एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४१॥

येनैव नित्याश्च सचेतनश्च
यस्मिन्विभक्ताः प्रविभान्ति मोहात् ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४२॥

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयत्किमु भाति विभाति वा ॥ ४३॥

आदित्यचन्द्रानलतारकाद्या
न भान्ति यस्मिन्ननिशं महान्तः ।
प्रकाशमानं तमनुप्रभान्ति
प्रभानमस्यैव हि नेतरेषाम् ॥ ४४॥

ऊर्ध्वमूलस्त्ववाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ ४५॥

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।
एतद्वै तत्सुरश्रेष्ठाः सम्यगेव मयोदितम् ॥ ४६॥

इदं सर्वं जगत्साक्षाच्छिवः कम्पयते ध्रुवम् ।
महद्भयमिदं वज्रं विदित्वा मुच्यते नरः ॥ ४७॥

तपत्यस्य भयादग्निर्भयात्तपति भास्करः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ४८॥

वर्तमाने शरीरेऽस्मिन्न शक्तो बोद्धुमीश्वरम् ।
नरः सर्वेषु लोकेषु शरीरित्वाय कल्पते ॥ ४९॥

यथाऽऽदर्शे स्वकं रूपं यथावन्निर्मले नरः ।
तथा पश्यति देहेस्मिन्नात्मानं ब्रह्म केवलम् ॥ ५०॥

जन्मनाशवतां खानां पृथग्भावं परात्मनः ।
तेषां जन्मविनाशौ च विदित्वाऽनात्मरूपतः ॥ ५१॥

पश्चादनात्मरूपेण विदितं केवलात्मना ।
विदित्वा स्वानुभूत्येव स धीरस्तु न शोचति ॥ ५२॥

इन्द्रियेभ्यो मनः श्रेष्ठं मनसः सत्त्वमुत्तमम् ।
सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ५३॥

अव्यक्तात्तु परः साक्षाद्व्यापकोऽलिङ्ग एव च ।
यं विदित्वा नरः साक्षादमृतत्वं हि गच्छति ॥ ५४॥

न सन्दृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चिदेनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तः
साक्षादात्मा शक्यते वेदितुं सः ॥ ५५॥

एवं साक्षात्सच्चिदानन्दरूपं
भावाभावाशेषलोकस्य हेतुम् ।
श्रुत्या युक्त्या ब्रह्म जानन्ति मर्त्या
विद्यायोगादेव मुक्ता भवन्ति ॥ ५६॥

विद्यावेद्यं ब्रह्म यद्वेदसिद्धं
तस्याचिन्त्या काचिदस्त्येव शक्तिः ।
शक्त्या भिन्नं तद्भवत्यद्वयं
सत्सत्यानन्दासङ्गबोधैकरूपम् ॥ ५७॥

एकं रूपं ब्रह्मणो जीवरूपं
भोग्यं विश्वं ब्रह्मणस्त्वन्यरूपम् ।
अन्यद्रूपं ब्रह्मणः सर्वशास्त्रं
प्रज्ञामात्रं शुद्धरूपं परस्य ॥ ५८॥

सर्वाजीवे सर्वसंस्थे बृहन्ते
तस्मिञ्जीवो भ्राम्यते ब्रह्मचक्रे ।
ब्रह्मात्मानं प्रेरितारं च युक्त्या
मत्वा चैकं याति मर्त्योऽमृतत्वम् ॥ ५९॥

ज्ञाज्ञौ जीवाजीवसञ्ज्ञौ प्रतीत्या
श्रुत्या युक्त्या स्वानुभूत्या ह्यभिन्नौ ।
माया भोक्तुर्भोगहेतुः परात्मा
रूपैरेभिर्विश्वरूपो ह्यकर्ता ॥ ६०॥

क्षरं माया चाक्षरं जीवरूपं
क्षरात्मना भिद्यते देव एकः ।
तस्य ध्यानाद्योजनातत्त्वभावा-
द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ६१॥

ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्य ध्यानान्मूलमायाविभेदे
विश्वैश्वर्यं याति कैवल्यरूपम् ॥ ६२॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ६३॥

वह्नेर्यथा योनिगतस्य मूर्ति-
र्न दृश्यते नैव च लिङ्गनाशः ।
स भूय एवेन्धनयोनिगृह्य-
स्तद्वोभयं वै प्रणवेन देहे ॥ ६४॥

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ ६५॥

तिलेषु तैलं दधिनीव सर्पि-
रापः स्रोतःस्वरणीषु चाग्निः ।
एवमात्माऽऽत्मनि गृह्यतेऽसौ
सत्येनैवं तपसा योऽनुवेत्ति ॥ ६६॥

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ॥ ६७॥

यज्ञज्ञानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति ।
योगात्सञ्जायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा ॥ ६८॥

अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् ।
नाप्रशान्ताय दातव्यं नापुत्राय कदाचन ॥ ६९॥

अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा ।
त्रिपुण्ड्रधारणं चापि वदन्त्यत्याश्रमं बुधाः ॥ ७०॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७१॥

श्रुतिवचनेन मयैव समस्त
परमकृपाबलतः पठितं च ।
यदि विदितं स नरः स्वकमोहं
तरति शिवं विशति प्रियरूपम् ॥ ७२॥

इति ब्रह्मगीतासूपनिषत्सु
कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः ॥ ११॥

[mks_separator style=”dotted” height=”2″]

॥ अथ द्वादशोऽध्यायः ।
॥ शिवस्याहम्प्रत्ययाश्रत्वम् ॥

ब्रह्मोवाच।
वक्ष्ये सारतरं साक्षात्सर्वशास्त्रार्थसङ्ग्रहम् ।
श्रद्धया सहिता यूयं श‍ृणुतातीव शोभनम् ॥ १॥

अस्ति तावदहंशब्दप्रत्ययालम्बनं सुराः ।
सर्वेषां नः परं ज्ञानं स एवात्मा न संशयः ॥ २॥

सोऽयं स्वाविद्यया साक्षाच्छिवः सन्नपि वस्तुतः ।
स्वशिवत्वमविज्ञाय संसारीवावभासते ॥ ३॥

वेदोदितेन मार्गेण पारम्पर्यक्रमेण तु ।
मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनैः ॥ ४॥

सहितः शिवभक्त्या च गुरोः पादौ प्रणम्य च ।
वेदान्तानां महावाक्यश्रवणेन तथैव च ॥ ५॥

मननेन तथा देवा ध्यानेन परमात्मनः ।
प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वा याति शिवं परम् ॥ ६॥

प्रत्यगात्मानमद्वन्द्वमहंशब्दोपलक्षितम् ।
शिवरूपेण सम्पश्यन्नेव याति स्वपूर्णताम् ॥ ७॥

शिवरूपतया भातेऽहंशब्दार्थे मुनीश्वराः ।
अविद्या विलयं याति विद्यया परयैव तु ॥ ८॥

विद्यया परयाऽविद्यानिवृत्तौ ब्रह्म केवलम् ।
शिष्यते खलु नाभावो भावो नान्यस्तथाऽपि च ॥ ९॥

व्यवहारदृशाऽविद्या तन्निवृत्तिश्च कथ्यते ।
तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः ॥ १०॥

ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ।
जगद्रूपतयाऽप्येतद्ब्रह्मैव प्रतिभासते ॥ ११॥

विद्याविद्यादिभेदेन भावाभावादिभेदतः ।
गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते ॥ १२॥

ब्रह्म सर्वमिति ज्ञानं ब्रह्मप्राप्तेस्तु साधनम् ।
जगन्मायेति विज्ञानमज्ञानं फलतो भवेत् ॥ १३॥

तथाऽपि परमाद्वैतज्ञानस्येदं तु वेदनम् ।
उपकारकमत्यन्तं तद्दृष्ट्वा वक्ति च श्रुतिः ॥ १४॥

यथा भातस्वरूपेण सत्यत्वेन जगच्छ्रुतिः ।
अङ्गीकृत्य हितं नॄणां कदाचिद्वक्ति सादरम् ॥ १५॥

सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ।
असत्यत्वेन भानं तु संसारस्य निवर्तकम् ॥ १६॥

अतः संसारनाशाय कदाचित्परमा श्रुतिः ।
जगत्सर्वमिदं माया वदत्यत्यन्तनिर्मला ॥ १७॥

अतीव पक्वचित्तस्य चित्तपाकमपेक्ष्य सा ।
सर्वं ब्रह्मेति कल्याणी श्रुतिर्वदति सादरम् ॥ १८॥

ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ।
न च विद्या न चाविद्या जगच्च न चापरम् ॥ १९॥

अतः परमनिर्वाणनिष्ठस्य परयोगिनः ।
यथा यथाऽवभासोऽयं शिव एव न चापरम् ॥ २०॥

भूतपूर्वानुसन्धानात्कथ्यते न च वस्तुतः ।
यथा यथाऽवभासोऽयं शिव इत्यपि वेदनम् ॥ २१॥

न हि निर्वाणनिष्ठस्य शिवस्य परयोगिनः ।
यथा यथेति यत्किञ्चिद्भासते परमार्थतः ॥ २२॥

तथा तथाऽवभासेन स्वेन रूपेण केवलम् ।
स्तिमितोदधिवद्योगी स्वयं तिष्ठति नान्यथा ॥ २३॥

परनिर्वाणनिष्ठस्य योगिनः परमां स्थितिम् ।
स्वयं च न विजानाति न हरिर्न महेश्वरः ॥ २४॥

न मया च परिज्ञातुं शक्यते योगिनः स्थितिः ।
नापि वेदेन मानेन न च स्मृतिपुराणकैः ॥ २५॥

अहो निर्वाणनिष्ठस्य योगिनः परमा स्थितिः ।
यादृशी परमा निष्ठा तादृश्येव हि केवलम् ॥ २६॥

एवंरूपा परा निष्ठा शिवस्यास्ति स्वभावतः ।
शिवायाश्चाम्बिकाभर्तुः प्रसादेन हरेरपि ॥ २७॥

तथा ममापि चान्येषां न चोद्योर्हो महेश्वरः ।
तादृग्रूपो महादेवः खलु साक्षात्सनातनः ॥ २८॥

ईदृशी परमा निष्ठा गुरोः साक्षान्निरीक्षणात् ।
कर्मसाम्ये त्वनायासात्सिध्यत्येव न संशयः ॥ २९॥

देशिकं देवदेवेशं शिवं विद्याद्विचक्षणः ।
तदिष्टं सर्वयत्नेन प्रकुर्यात्सर्वदाऽऽदरात् ॥ ३०॥

स्वस्यानिष्टमपि प्राज्ञः प्रकुर्याद्गुरुणोदितः ।
गुरोरिष्टं प्रकुर्वाणः परं निर्वाणमृच्छति ॥ ३१॥

स्वाश्रमं च स्वजातिं च स्वकीर्तिं च तथैव च ।
स्वादृष्टं लोकविद्विष्टं बन्धुपुत्रादिसङ्गमम् ॥ ३२॥

गृहक्षेत्रधनादीनां हानिं क्लेशं सुखं तथा ।
अनवेक्ष्य गुरोरिष्टं कुर्यान्नित्यमतन्द्रितः ॥ ३३॥

गुरौ प्रीते शिवः साक्षात्प्रसन्नः प्रतिभासते ।
गुरोर्देहे महादेवः साम्बः सन्निहितः सदा ॥ ३४॥

गुरोरनिष्टं मोहाद्वा न कुर्यात्कुरुते यदि ।
पच्यते नरके तीव्रे यावदाभूतसम्प्लवम् ॥ ३५॥

शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन ।
तस्मादिष्टं गुरोः कुर्यात्कायेन मनसा गिरा ॥ ३६॥

गुरुर्नामात्मनो नान्यः सत्यमेव न संशयः ।
आत्मलाभात्परो लाभो नास्ति नास्ति न संशयः ॥ ३७॥

अनात्मरूपं देहादि यो ददाति पिता तु सः ।
न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ३८॥

अष्टैश्वर्यप्रदस्तद्वद्गन्धर्वादिपदप्रदाः ।
सार्वभौमप्रदश्चापि न गुरुः क्लेशदो हि सः ॥ ३९॥

मन्त्रतन्त्रादिदस्तद्वल्लौकिकोपायदस्तथा ।
न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ४०॥

सत्यवत्सकलं भातं निश्चित्यासत्यरूपतः ।
सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम् ॥ ४१॥

यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम् ।
शिवत्वं बोधयत्येष गुरुः साक्षान्न चापरः ॥ ४२॥

दृश्यरूपमिदं सर्वं दृग्रूपेण विलाप्य च ।
दृग्रूपं ब्रह्म यो वक्ति स गुरुर्नापरः पुमान् ॥ ४३॥

परमाद्वैतविज्ञानं कृपयैव ददाति यः ।
सोऽयं गुरुगुरुः साक्षाच्छिव एव न संशयः ॥ ४४॥

तादृशं देशिकं साक्षाद्वेदान्ताम्बुजभास्करम् ।
तोषयेत्सर्वयत्नेन श्रेयसे भूयसे नरः ॥ ४५॥

सर्ववेदान्तवाक्यानामर्थः सङ्ग्रहरूपतः ।
कथितश्च मया देवा मामाह परमेश्वरः ॥ ४६॥

सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः ।
सर्वदोषविनिर्मुक्तः सत्यमेवाब्रवीन्मम ॥ ४७॥

यथाऽऽह सर्ववेदानामर्थं सर्वज्ञ ईश्वरः ।
तथैव कथितोऽस्माभिः सत्यमेव न संशयः ॥ ४८॥

स्वप्रकाशस्वरूपस्य स्वतःशुद्धस्य शूलिनः ।
करामलकवत्सर्वं प्रत्यक्षं हि न संशयः ॥ ४९॥

वेदानामन्यथैवार्थं ये वदन्ति विमोहिताः ।
महासाहसिका एव ते नरा न हि संशयः ॥ ५०॥

मदुक्तार्थप्रकारेण विना ये प्रवदन्ति ते ।
अन्धकूपे निरालम्बे पतन्त्येव न संशयः ॥ ५१॥

वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गवाः ।
नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः ॥ ५२॥

अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया ।
अनिश्चितार्थश्चेन्मूर्धा युष्माकं च पतिष्यति ॥ ५३॥

अतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः ।
सत्यमेव मया प्रोक्तं शम्भोः पादौ स्पृशाम्यहम् ॥ ५४॥

सूत उवाच ।
एवमुक्त्वा महातेजा ब्रह्मा च सुरपुङ्गवान् ।
प्रत्यग्भूतं परानन्दं पार्वतीपतिमीश्वरम् ॥ ५५॥

परमाद्वैतरूपं तं भवरोगस्य भेषजम् ।
स्मृत्वा नत्वा पुनः स्तुत्वा भक्त्या परवशोऽभवत् ॥ ५६॥

देवाश्च देवदेवेशं स्मृत्वा साम्यं त्रियम्बकम् ।
प्रणम्य दण्डवद्भूमौ विवशा अभवन्मुदा ॥ ५७॥

देवदेवो महादेवो महाकारुणिकोत्तमः ।
तत्रैवाविरभूद्देव्या सह सत्यतपोधनाः ॥ ५८॥

विष्णुश्च पद्मया सार्धं तत्रैव ब्रह्मवित्तमाः ।
आगतो भगवान्द्रष्टुमशेषसुरनायकम् ॥ ५९॥

पुष्पवृष्टिरभवद्यथा पुरा
स्वस्तिपूर्ववचनानि चाभवन् ।
तत्र भक्तिसहितेन विष्णुना
पद्मया च परिपूजितः शिवः ॥ ६०॥

शङ्करोपि शशिशेखरः पर-
स्त्वम्बयैव सहितः सनातनः ।
तत्र नृत्यमकरोदतिप्रभुः
स्वस्वरूपपरवेदनप्रियात् ॥ ६१॥

सर्वलोकजननी शिवा परा
पापनाशकरबोधदायिनी ।
ब्रह्मवज्रधरपूर्वकानिमा-
न्स्वानुभूतिसहितेन चक्षुषा ॥ ६२॥

विलोक्य कारुण्यबलेन केवलं
प्रबोधयामास सुरोत्तमानिमान् ।
पुनः प्रजानाथपुरःसराः सुराः
प्रनृत्यमानं तु शिवं शिवामपि ॥ ६३॥

त्वक्चक्षुषैव ददृशुः श्रुतिमस्तकोत्थ-
विज्ञानरूपपरलोचनगोचरार्हम् ।
भक्त्या पुनः परमकारुणिकं महान्तं
पञ्चाक्षरेण भवपाशहरेण पूज्यम् ॥ ६४॥

तुष्टवुः श्रुतिवचोभिरादरा-
न्नष्टकष्टभवपाशबन्धनाः ।
इष्टसिद्धिरभवद्धि यः सुराः
इत्यवोचदशुभापहः शिवः ॥ ६५॥

शाङ्करी च शरणागतप्रिया
बन्धहेतुमलनाशकारिणी ।
मत्प्रसादबललब्धवेदना
इत्यवोचदभवन्नतिप्रिया ॥ ६६॥

केशवोऽपि सुरपुङ्गवान्प्रति
प्राह शम्भुरयमद्भुतः प्रभुः ।
सर्ववेदशिरसामगोचरः
प्रीत एव भवतामिति द्विजाः ॥ ६७॥

देवोऽपि कारुण्यरसार्द्रमानसः
सुरानशेषानजपूर्वकान्प्रति ।
उवाच गीतामतिशोभनामिमां
ममानुकूलामपि यः पठेद्विजः ॥ ६८॥

स याति मामेव निरस्तबन्धनः
परा शिवा वाचि सदैव वर्तते ।
दिवाकरेणापि समश्च तेजसा
श्रिया मुकुन्देन समः सदा भवेत् ॥ ६९॥

एषा गीता ब्रह्मगीताभिधाना
श्रुत्या युक्ता सर्वगीतोत्तमा च ।
वेदाकारा वेदनिष्ठैर्द्विजेन्द्रै-
र्भक्त्या पाठ्या नैव शूद्रादिभिश्च ॥ ७०॥

इत्येवं परमशिवः प्रभाष्य नाथः
शिष्टानामशुभहरः पुरत्रयारिः ।
भक्तानाममलसुखप्रबोधकारी
तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७१॥

दैवी सा सकलजगद्विचित्रचित्रा
कारुण्यादखिलसुरानजं विलोक्य ।
सुप्रीता परमसुखप्रबोधरूपा
तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७२॥

विष्णुर्लक्ष्म्या साकमाश्वास्य देवान्
हृष्टस्तुष्टः स्वस्य वैकुण्ठमाप ।
ब्रह्मा देवानात्मविद्याभियुक्तां-
स्त्यक्त्वा रुद्रध्याननिष्ठो बभूव ॥ ७३॥

देवाः सर्वे दण्डवद्भूमिभागे
भक्त्या सार्धं पद्मयोनिं प्रणम्य ।
हृष्टात्मानः सत्यबोधैकनिष्ठाः
सद्यः स्वं स्वं देशमीयुर्द्विजेन्द्राः ॥ ७४॥

ईत्थं साक्षाद्ब्रह्मगीतं भवद्भिः
शुद्धज्ञानैरादरेण श्रुतैव ।
मत्तः श्रद्धाभक्तियुक्तस्य विप्रा
नित्यं देया नेतरस्यातिशुद्धा ॥ ७५॥

इति परशिवभक्त्या प्राप्तविद्यस्तु सूतः
सुखघनशिवतत्त्वप्रापिकामेव गीताम् ।
मुनिगणहितबुद्ध्याऽऽभाष्य निर्वाणरूपं
परतरमवलोक्य प्रज्ञया मौनमाप ॥ ७६॥

मुनयश्च गुरुं परवेदिनं
प्रणिपत्य समस्तहितप्रदम् ।
हृदयस्थमहम्पदलक्षितं
परतत्त्वतयैव विदुः स्थिरम् ॥ ७७॥

इति श्रीब्रह्मगीतासूपनिषत्सु शिवस्याहम्प्रत्ययाश्रत्वं
नाम द्वदशोऽध्यायः ॥ १२॥

॥ इति ब्रह्मगीता समाप्ता ॥

Also Read:

Brahma Gita Skanda Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Add Comment

Click here to post a comment