Hymn to Goddess Meenakshi Lyrics in Sanskrit
Hymn to Goddess Minakshi in Sanskrit: ॥ मीनाक्षीस्तोत्रम् ॥ ॥ श्रीः ॥ श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥ चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते आर्तालीवरदे नताभयकरे वक्षोजभारान्विते । विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥ कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते । शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालंकृते मद्दारिद्र्यभुजंगगारुडखगे मां पाहि […]