Shivakeshadi Padanta Varnana Stotram Lyrics in Marathi
Shivakeshadi Padanta Varnana Stotram in Marathi: ॥ शिवकेशादि पादान्त वर्णन स्तोत्रम ॥ देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्यत- प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ 1 ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम ॥ 2 ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मस्तकं स्तादस्तोकापत्तिकऋत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ 3 ॥ भूत्यै […]