Sri Rama Ashtottara Shatanama Stotram Lyrics in Hindi
Shri Ram Ashtottara Shatanama Stotram in Hindi: ॥ श्री राम अष्टोत्तरनाम स्तोत्रम् ॥ श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः । राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुङ्गवः ॥ १ ॥ जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥ २ ॥ वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः । सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥ ३ ॥ कौसलेयः खरध्वंसी विराधवधपण्डितः । विभीषणपरित्राता हरकोदण्डखण्डनः ॥ ४ ॥ […]