Templesinindiainfo

Best Spiritual Website

Common Shlokas Used for Recitation Set 1 in Hindi

Common Shlokas for Recitation Set 1:

॥ श्लोक संग्रह १ ॥


वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदंड मंडितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभ्रुतिभिर्देवै सदा वंदिता ।
सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ॥

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनं ॥

समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

शांताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं ।
लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं ।
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत् ॥

या देवी सर्वभूतेषु मातृरुपेण संस्थितः ।
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः ।
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः ।
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ॥

ॐ णमो अरिहंताणं
ॐ णमो सिद्धाणं
ॐ णमो आयरियाणं
ॐ णमो उवज्झायाणं
ॐ णमो लोए सव्वसाहुणं
एसो पंच णमोकारो
सव्व पावपणासणो
मंगलाणं च सव्वेसिम्
पढमं हवई मंगलं
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥

वसुदेव सुतं देवं कंस चाणूरमर्दनं ।
देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

शुभं करोति कल्याणं आरोग्यं धनसम्पदा ।
शत्रुबुध्दिविनाशाय दीपज्योति नमोऽस्तुते ॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ॥

करचरण कृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधं ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

ॐ सह नाववतु । सह नौभुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेव ॥

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥

ॐ शांतिः शांतिः शांतिः ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शांतिः शांतिः शांतिः ॥

Also Read Common Shlokas Set 1:

Common Shlokas Used for Recitation Set 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Common Shlokas Used for Recitation Set 1 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top