Templesinindiainfo

Best Spiritual Website

Ishvara Prarthana Stotram Lyrics in Marathi

Ishvara Prarthana Stotram in Marathi:

\॥ ईश्वर प्रार्थना स्तोत्रम ॥
ईश्वरं शरणं यामि क्रोधमोहादिपीडितः ।
अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ 1 ॥

प्रभुस्त्वं जगतां स्वामिन वश्यं सर्वं तवास्ति च ।
अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ 2 ॥

ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः ।
तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥ 3 ॥

त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे ।
त्वां विना नहि चान्योऽस्ति मम दुःखविनाशकः ॥ 4 ॥

अन्तकाले त्वमेवासि मम दुःख विनाशकः ।
तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥ 5 ॥

पितापुत्रादयः सर्वे संसारे सुखभागिनः ।
विपत्तौ परिजातायां कोऽपि वार्ताम न पृच्छति ॥ 6 ॥

कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि ।
तान्विनश्यात्मनो वैरीन पाहि मां परमेश्वर ॥ 7 ॥

अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः ।
क्व गता ते दया चाद्य पाहि मां हे जगत्पते ॥ 8 ॥

न त्वां विना कश्चिदस्ति संसारे मम रक्षकः ।
शरणं त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥ 9 ॥

ईश्वर प्रार्थनास्तोत्रं योगानन्देन निर्मितम ।
यः पठेद्भक्तिसंयुक्तस्तस्येशः संप्रसीदति ॥ 10 ॥

इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं संपूर्णम ॥

Also Read:

Ishvara Prarthana Stotram Lyrics in English | Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Ishvara Prarthana Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top